भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप · श्लोक 61-80

61

चक्षुर्धातुं हि रूपाप्तं परिजानन् पृथग्जनः ।
कृत्स्नाद्रूपमयाद्धातोर्वैराग्यमधिगच्छति

62

तस्मादनुशयान्धातोरेकत्रिंशज्जहाति च ।
पर्यादत्ते न किञ्चित्तु संयोजनमसौ तदा

63

रूपवैराग्यमाप्नोति जहात्यनुशयत्रयम् ।
तदा संयोजनं त्वार्यः पर्यादत्ते न किञ्चन

64

चक्षुर्विज्ञानधातुं तु परिजानंस्तमेव च ।
परिजानात्यवश्यं च ब्रह्मलोकाद्विरज्यते

65

न तु संयोजनं किञ्चित्पर्यादत्ते तदा ह्यसौ ।
गन्धधातुं रसाख्यं च परिजानन् पृथग्जनः

66

कामवैराग्यमाप्नोति ध्रुवं ह्यनुशयानपि ।
तदा जहाति षट्त्रिंशद्वर्तिसंयोजनत्रयम्

67

आर्यस्तु कामवैराग्यं करोत्यनुशयानपि ।
चतुरः परिजानाति पर्यादत्ते ऽपि च त्रयम्

68

परिजानन्मनोधातुमारूप्येभ्यो विरज्यते ।
जहात्यनुशयांस्त्रींश्च पर्यादत्ते त्रयं तथा

69

परिजानन्खलु प्रीर्ति तामेव प्रजहात्यसौ ।
आभास्वराच्च वैराग्यं याति हन्ति तु नास्रवान्

70

परिजानन्सुखं योगी प्रजहाति तदेह च ।
शुभकृत्स्नाच्च वैराग्यं याति क्लेशान्न हन्ति तु

71

द्विविज्ञेयाः गुणाः पञ्च हेतुः सर्वे क्षराक्षराः ।
अन्यत्र धर्मधात्वर्धाच्छड्बाह्या नेन्द्रियात्मकाः

72

द्वाविंशतिप्रकारस्य कृत्स्नस्येन्द्रियपर्वणः ।
संक्षेपेणाभिधास्यन्ते धर्मा निर्वचनादयः

73

नाम्ना द्वाविंशतिस्तानि द्रव्यतो दश सप्त च ।
यस्मान्नान्यद्द्वयं कार्यात्सुखादिनवकत्रयम्

74

नामसल्लक्षणाभावात्तन्नाम्नः सार्थकत्वतः ।
त्रयाणां वर्गवृत्तित्वे ऽप्यर्थमभ्येष्यते परैः

75

विशिष्टबुद्धिहेतुत्वादाधिपत्यविशेषतः ।
कायेन्द्रियाद्विशिष्टत्वं द्वयोर्नेत्रेन्द्रियादिवत्

76

ऐश्वर्यार्थो विपश्चिद्भिरिन्द्रियार्थो ऽभिधीयते ।
स्वार्थव्यक्तिषु पञ्चानां चतुर्णां त्वर्थयोर्द्वयोः

77

स्वगोचरोपलब्ध्यादावीशित्वमपरे विदुः ।
स्वार्थविज्ञान एवान्य आहुः पण्डितमानिनः

78

क्लेशोत्पत्तौ सुखादीनां श्रद्धादीनां गुणाप्तिषु ।
फलसंक्लेशसंभारविशुद्धित्वादनुक्रमः

79

सत्त्वाख्या सत्त्ववैचित्र्यं धृतिः क्लेशोद्भवश्च यैः ।
मार्गोपायः फलप्राप्तिस्तेषामिन्द्रियता मता

80

स्पर्शाश्रयोद्भवाधारसंभोगत्वाच्चतुर्दश ।
स्वर्गापवर्गहेतुत्वात् तदन्यद्वेन्द्रियाष्टकम्

मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc