भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप · श्लोक 41-60

41

सभाग एव धर्माख्यः शेषास्तूभयथा स्मृताः ।
सभागस्तत्सभागत्वे स्वक्रियाभाक्तु तुल्यते

42

चक्षुः सधर्मधात्वंशं नवधा दृष्टिरूच्यते ।
पाञ्चविज्ञानकी प्रज्ञा न दृष्टिरनितीरणात्

43

समेघामेघरात्र्यह्नोर्दृश्यं चक्षुर्यथेक्षते ।
क्लिष्टाक्लिष्टदृशौ तद्वच्छैक्षाशैंक्षे च पश्यतः

44

चक्षुः पश्यति विज्ञानं विजानाति स्वगोचरम् ।
आलोचनोपलब्धित्वाद्विशेषः सुमहांस्तयोः

45

एकस्य चक्षुषः कार्यं विज्ञानमथवा द्वयोः ।
अप्राप्यार्थं मनश्चक्षुः श्रोत्रं च त्रीण्यतो ऽन्यथा

46

अप्राप्तग्राहिणः सिद्धा दूरासन्नसमग्रहात् ।
प्रदीपादिप्रभावश्चेत् न समं तत्समुद्भवात्

47

सर्वग्रहप्रसंगश्चेन्नायस्कान्तादिदर्शनात् ।
सर्वगत्वाददोषश्चेन्नायोगात्तिलतैलवत्

48

न ह्यूर्ध्वं चक्षुषः कायो न रूपं नाक्षिजं मनः ।
विज्ञानस्य तु नेत्रार्थस्तौ च कायस्य सवंतः

49

नोपरिष्टाच्छ्रु तेः कायो न शब्दो न स्वकं मनः ।
विज्ञानस्य तु निह्रादस्तौ च कायस्य सर्वतः

50

त्रयाणां त्रीण्यपि स्वानि तनोर्विज्ञानमप्यधः ।
मनस्त्वनियतं योगिवैश्वरूप्यं प्रदर्शितम्

51

सास्रवानास्राः स्कन्धा ये तूपादानसंज्ञिताः ।
सास्रवा एव ते ज्ञेयास्तत्साचिव्यक्रियादिभिः

52

अध्वाद्याः स्कन्धपर्यायाः धर्माद्या वस्तुनः सतः ।
ये तु सास्रवसंज्ञास्ते प्रोक्ता दुःखादिनामभिः

53

स्वात्म्यगोचरकार्याणामेकत्वादेकधातुता ।
चक्षुरादिद्विभावे ऽपि द्व्युत्पत्तिः कर्मत्रित्वशात्

54

असाधारणवैशिष्ट्यादैश्वर्यादान्तरङ्गयतः ।
सत्यप्यनेकहेतुत्वे विज्ञानं तैर्विशेष्यते

55

नित्यत्वात्कुशलत्वाच्च निर्वाणं द्रव्यमञ्जसा ।
सारद्रव्येन तेनैको धर्माख्यो द्रव्यवान्मतः

56

प्रथमं निर्मलं चित्तमसाभाग्यात्क्षणः स्मृतः ।
तेनाद्भुतक्षणेनैते क्षणिकाः पश्चिमास्त्रयः

57

घ्राणं जिह्वा च कायश्च तुल्यार्थग्राह्यदस्त्रयम् ।
पश्चिमस्याश्रयो ऽतीतः पञ्चानां तैः सहापि च

58

निश्रित्य खल्वनागम्यं निश्रयांश्चतुरो ऽथ वा ।
अनास्रवेण मार्गेंण चक्षुर्धातुर्निरुध्यते

59

अनागम्यं तु निश्रित्य गन्धधातुर्निरुध्यते ।
मनोधातुरनागम्यं यदि वा सप्तनिश्रयात्

60

अनागम्यं तथैवाद्यं चक्षुर्विज्ञानसंज्ञकः ।
धर्मधातोर्विचित्रत्वाद्यथायोगं विनिर्दिशेत्

मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc