अभिधर्मदीप · श्लोक 81-100
छन्दं वीर्याङ्गभूतत्वात् स्पर्शो वित्त्यनुबृंहणात् ।
संज्ञा प्रज्ञाभिभूतत्वान्नेन्द्रियं मुनिरभ्यधात्
श्रद्धादीनां विदां चैव दोषः शुद्धौ मलोदये ।
प्रधानत्वान्मनस्कारो नेन्द्रियं समुदाहृतम्
संभावनानुकूलत्वादधिमोक्षो ऽपि नेन्द्रियम् ।
कालान्तरफलोत्पादसंदेहाभ्यां न चेतना
नाप्रमादो ऽप्यसौ वीर्यात्, न ह्रीः प्रागल्भनिग्रहात् ।
नोपेक्षा नापि चालोभो वीर्यश्रद्धाभिभूतितः
न प्रस्रब्धिर्विदौत्कट्याद्विनिन्द्यत्वाच्च नास्रवाः ।
जात्यादयो न पारार्थ्यात् निष्क्रियत्वान्न निर्वृतिः
कायस्य बाधनं दुःखं दौर्मनस्यं तु चेतसः ।
सुखं च सुमनस्ता च सातं शारीरमानसम्
वैशिष्ट्यान्मानसं सातं सुखं क्वचिदुदाहृतम्
षट्सु भूमिषु विज्ञेयं नीरजस्काद्यमिन्द्रियम् ।
तदन्ये निर्मले त्वक्षे द्रष्टव्ये नवभूमिके
दौर्मनस्यं द्विहातव्यं मनोवित्तित्रयं त्रिधा ।
नवाभ्यासप्रहेयाणि द्विधा पञ्च न तु त्रयम्
पूर्वं क्रमोद्भवैः कामे विपाको लभ्यते द्वयम् ।
अन्यैः षट् सप्त वाष्टौ वा षड् रूपे अन्त्ये तु जीवितम्
म्रियमाणैर्निरोध्यन्ते त्रीण्यन्ते अष्टौ तु मध्यमे ।
दशाष्टौ नव चत्वारि कामे पञ्च शुभानि वा
आद्यन्तलाभो नवभिः सप्ताष्टाभिश्च मध्ययोः ।
एकादशभिराप्तिस्तु फलस्यान्त्यस्य हानितः
स्वस्य धातोः परिज्ञानं स्वविपक्षदृशा पथा
कामधातुपरिज्ञानं प्रायः सप्तभिरिष्यते ।
समलैर्निर्मलैस्त्वर्थैरष्टाभिरभिधीयते
रूपधातुपरिज्ञानमिष्टं दशभिरिन्द्रियैः ।
अन्त्यधातुपरिज्ञानमेकादशभिरुच्यते
सर्वसत्त्वास्त्रिधातुस्था उपेक्षायुर्मनो ऽन्विताः ।
त्वक्स्त्रीत्वव्यञ्जनैः कामे रूपिणश्चक्षुरादिभिः
कामिनः खलु दुःखेन तद्रागी दुर्मनस्तया ।
ऊर्ध्वजस्तु सुखेनार्यः शुभाह्वाधरजौ तथा
प्रीत्याभाह्वाधरोद्भूतौ शुभैः स शुभमूलकः ।
शैक्षाभ्यां मोक्षमार्गस्थौ अशैक्षो ऽर्हन् स्वमार्गगः
उपेक्षायुर्मनोयुक्तो ऽवश्यं त्रयसमन्वितः ।
चतुर्भिः कायसुखवान् चक्षुष्मानपि पञ्चभिः
स्त्रीन्द्रियाद्यन्वितो ऽष्टाभिः दुःखी युक्तस्तु सप्तभिः ।
एकादशभिरन्त्याभ्यां सप्त षड्भिस्तदाद्यवान्
मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0