भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप · श्लोक 561-580

561

युक्तार्थचोदनाद् दुःखत्राणाद्दोषानुशासनात् ।
शास्त्रमित्युच्यते ऽतो ऽन्यज्ज्ञेयं वातिकभाषितम्

562

पारसीकादिमन्त्राणां विषोत्सदबलं क्वचित् ।
दृश्यते न तु सर्वस्मिन्नरिष्टाद्यनिवर्तनात्

563

रागाद्यैर्दूष्यते चित्तं श्रद्धाद्यैश्च विशुध्यते ।
विप्रस्यापि यतस्तस्माद् गुणवानेव मुच्यते

564

शुद्धं चतुर्विधं हानभागीयादि यथाक्रमम् ।
न्यूनतुल्यबलोत्कृष्टनिर्मलानुगुणं हि तत्

565

क्लेशस्वोपरिमस्थाननीरजस्कानुवर्ति वा ।
द्वे त्रीणि त्रीणि च द्वे वा हानपक्ष्याद्यनन्तरम्

566

व्युत्क्रान्तकसमापत्तिरर्हतो ऽकोप्यधर्मणः ।
तत्प्रयोगो द्विधा भूमिर्गत्वागम्यजिगीषया

567

धर्मभूम्युत्क्रमेणाष्टौ शुद्धकाख्यादनास्रवम् ।
शुद्धकाच्च तृतीयं स्वं निष्ठा शुद्धाच्च निर्मलम्

568

स्वोर्ध्वा एवोपजन्यन्ते ध्यानारूप्यभवः शुभाः ।
भवाग्रस्थस्त्वगत्यादौ निर्मलामवलम्बते

569

बालाद्यध्यानसंप्राप्तौ लौकिकस्यैव भावना ।
ऊष्मादिवर्ज्ये चालब्धे ध्यानान्तरसमुद्भवे

570

वीतरागस्य चालब्धे पूर्वसामन्तके तथा ।
विरक्तस्य तु पूर्वस्य निर्मलस्यैव भावना

571

न्याममार्गान्वयज्ञाने शैक्षस्याक्षविवर्धने ।
आनन्तर्याह्वये मार्गे दृङ्मार्गे द्वादशक्षणाः

572

भवाग्रस्य च वैराग्ये क्षयज्ञानविवर्जिते ।
आकोप्या ................................

573

आर्यस्य कामवैराग्ये चरमे मुक्तिवर्त्मनि ।
ज्ञानत्रये त्रयाख्ये च न्यामे ऽनागम्यवर्जिते

574

शैक्षस्य रागिणः पूर्वत्रिभूमीन्द्रियवर्धने ।
प्रयोगमुक्तिमार्गेषु कामाद्यध्यानजस्य च

575

द्विविधार्हत्वसंप्राप्तौ मुक्तिवर्त्मनि पश्चिमे ।
विरक्तानां च शैक्षाणामव्यग्रान्यत्रिभूजये

576

भावना द्विविधस्यापि नोभयस्य तु भावनाम् ।
अनागम्याश्रये न्याम तद्भागीयोद्भवादिषु

577

द्वितीयादिष्वनेनैव विधिनाभ्युह्य युक्तितः ।
अभिधर्मनयज्ञाने ज्ञेयानागतभावना

578

सास्वादः स्वभवालम्बः शुभं ध्यानं समन्तदृक् ।
आरुप्याः कुशला मौला नाधोलोकावलम्बिनः

579

ध्यानारूप्यैः प्रहीयन्ते निर्मलैर्मानसो मलाः ।
अधोभूमेस्तु लभ्यन्ते सामन्तैरपि शुद्धकैः

580

सवितर्कविचाराद्यास्त्रयः प्रोक्ताः समाधयः ।
ध्यानान्तरे स चारोधः सद्वयो ऽन्यत्र निर्द्वयः

मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc