अभिधर्मदीप · श्लोक 541-560
आस्वादवत्सतृष्णं यच्छद्धकं लौकिकं मतम् ।
अदो(धो?)ध्वस्तं तदास्वाद्यमतिलोकमनास्रवम्
अङ्गान्याद्ये शुभे पञ्च वितर्कश्चित्तसूक्ष्मता ।
प्रीतिः सुखं समाधानं क्लिष्टं सुखविवर्जितम्
साध्यात्मसप्रसादास्तु सुखप्रीतिसमाधयः ।
द्वितीये ऽङ्गानि चत्वारि क्लिष्टे श्रद्धा सुखादृते
तृतीये पञ्चमे प्रज्ञा स्मृत्युपेक्षा सुखं स्थितिः ।
क्लिष्टे त्वङ्गद्वयं ज्ञेयं समाधिर्वेदनासुखम्
अन्त्ये चत्वार्युपेक्षे द्वे समाधिः स्मृतिरेव च ।
क्लिष्टे ध्याने चतुर्थे तु द्वे अङ्गे वेदना स्थितिः
द्रव्यात्मना दशैकं च नाम्ना त्वष्टौ दशैव च ।
अङ्गान्येतानि कथ्यन्ते चतुष्कोटिरतः स्मृतः
शमथस्य च ।
ध्यानसामन्तकारूप्येष्वङ्गानामव्यवस्थितिः
वितर्कचारविध्वंसात्प्रश्वासाश्वाससंक्षयात् ।
उपेक्षावेदिताभावादन्त्यमानेज्यमुच्यते
आद्ये प्रीतिसुखोपेक्षा द्वितीये तु सुखादृते ।
सुखोपेक्षे तृतीये ऽन्त्ये उपेक्षैव विदिष्यते
दृक्छ्रोत्रकायविज्ञानं विज्ञप्तिजनकं तथा ।
यद्भूमावविचारायामाद्यादव्याकृतं तु तत्
खनिमित्तोद्ग्रहाकृष्टः प्रोक्तानन्तमनस्कृतिः ।
विसर्वरूप आरूप्य आकाशानन्त्यसंज्ञकः
तद्वच्चित्तविभुत्वेक्षी विज्ञानानन्त्यलक्षणः ।
विज्ञानानन्त्यद्वेषी च अकिञ्चन्याह्वयः पुनः
तद्वित्तूच्छेदशङ्की च न संज्ञासंज्ञसंज्ञकः ।
आदौ तथा प्रयुक्तत्वात् तत्संज्ञा व्यपदिश्यते
सवितर्कविचारं यत्सापेक्षं सानुवर्तकम् ।
चित्तमार्येतराकारं तदानागम्यमुच्यते
चत्वारो ध्यायिनः प्रोक्ताश्चतुर्ध्यानविदर्शनात् ।
सम्पद्विपत्तिसंज्ञाया हानपक्ष्यादिवेदिनः
ध्याता प्रोक्तस्तथा ध्येयं ध्यानं ध्यानफलं तथा ।
असिद्धेरुक्तदोषत्वान्नास्त्यात्मादिचतुष्टयम्
कर्मानुष्ठानतो मोक्षो ज्ञानानुष्ठानतस्तथा ।
व्यापारे सति सद्भावाद्याथात्म्यावगमेपि च
कर्म त्वत्र द्विधा ज्ञेयं पुण्यापुण्यक्रियाक्रिये ।
पुण्यक्रिया त्रिधा प्रोक्ता विरतिस्तद्विधोदिता
ज्ञानं तु नैष्ठिकं ज्ञेयं यथापूवंमुदाहृतम् ।
अतो ऽन्यद्भजते यस्तु खलीनं चर्वयत्यसौ
परपीडाप्रवृत्तत्वाद्वधलोभानृतादयः ।
अपायहेतवो ज्ञेयाः श्रेयोद्वारविबन्धिनः
मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0