भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप · श्लोक 581-597

581

सास्रवानास्रवश्चान्य एकादशभुवस्त्रयः ।
आर्याकारमतिद्योताः शून्यताद्यः समाधयः

582

दशाप्रणिहिताकाराः शून्यताया द्वयं मतम् ।
अनिमित्तो ऽमृताकारैश्चतुर्भिः संप्रवर्तते

583

विमुक्तेर्द्विप्रकारायाः प्राप्तये निर्मलाः पुनः ।
विमोक्षसु(मु ?)खशब्देन त एवाविष्कृतास्त्रयः

584

त्रयो ऽपरसमाध्याख्या शून्यताशून्यतादयः ।
द्वयमालम्बते ऽशैक्षं शून्यतो ऽनित्यतस्तथा

585

क्षयमप्रतिसंख्याख्यमन्त्यो गृह्णाति शान्ततः ।
एकादशभुवः सर्वे सास्रवा नृष्वकोपिनः

586

समाधिभावनाध्यानं सुखाय प्रथमं शुभम् ।
दर्शनायाक्ष्यभिज्ञोक्ता प्रज्ञाभेदाय यात्निकाः

587

यो ऽन्त्यो वज्रोपमे ध्याने सर्वक्लेशक्षयाय सा ।
सूत्रं चैतत्समाख्यातं बुद्धेनात्मोपनायिकम्

588

चतुर्णामप्रमाणानां मैत्र्यद्वेषस्तथा कृपा ।
मुदिता प्रीतिरेकेषामुपेक्षालोभ इष्यते

589

व्यापादस्य विहिंसाया अरतेस्तृड्द्विषस्तथा ।
प्रतिपक्षो ऽयमाख्यातो दमनार्थं स्वचेतसः

590

सुखाधाने सुखा मैत्री दुःखनाशोन्मुखी कृपा ।
मुदिता मोदनानिम्ना सत्त्वा एभ्येव पश्चिमा

591

द्रष्टव्या वृत्तिरेतेषां आकारैः सुखितादि भिः ।
एभ्यस्त्वन्यतमेनापि ब्रह्मसायुज्यमश्नुते

592

नृषु कामावलम्बीनि ध्यानयोर्मुदिताह्वयोः ।
षड्भौमानि तदन्यानि केचिदिच्छन्ति सप्तसु

593

विमोक्षाः कथिता अष्टौ तेषां द्वावशुभात्मकौ ।
तावाद्यध्यानयोरन्त्ये तृतीयो ऽलोभलक्षणः

594

चत्वारः कुशलारूपा विमोक्षाख्या समाहिताः ।
निरोधाख्यसमापत्तिर्विमोक्षः कथितो ऽष्टमः

595

तस्यास्तु संमुखीभावः सूक्ष्मसूक्ष्मादनन्तरम् ।
व्युत्थानचित्तमप्यस्याः स्वं शुद्धं निर्मलं त्वधः

596

कामावचरदृश्यार्था विमोक्षाः प्रथमास्त्रयः ।
अन्ये त्वन्वयधीपक्षस्वोर्ध्वदुःखाद्यवेक्षिणाः

597

सूत्रे ऽभिभवसंज्ञाख्यं प्रोक्तमायतनाष्टकम् ।
विमोक्षाधिकवृत्त्येतच्चित्तैश्वर्यप्रदर्शकम्

मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc