भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप · श्लोक 521-540

521

दिव्यमव्याकृतं श्रोत्रं नेत्रं चान्या शुभा मताः ।
अभिज्ञाफलताभिज्ञा मनोविज्ञानप्रज्ञया

522

तिस्रो विद्या मतास्त्र्यध्वसंमोहादिव्युदस्तये ।
एका स्वभावतो ऽशैक्षी द्वे त्वशैक्षाश्रयोदयात्

523

ऋद्धिचित्तक्षयाभिज्ञा प्रतिहार्यत्रयं स्मृतम् ।
हरतो द्वे कुशास्तृभ्यो मारेभ्यो हरते परम्

524

समाधी ऋद्धिरित्युक्ता फलमैश्वर्यष्टधा ।
द्विधैतद्गतिनिर्माणे त्रिविधा गतिरिष्यते

525

मनोमयी गतिः शास्तुरिच्छामात्रप्रवृत्तितः ।
अधिमोक्षकृतान्येषां ततो देहाभिवाहिनी

526

रूपगन्धरसस्पर्शाः कामे निर्माणमिष्यते ।
रूपस्पर्शौ मतौ रूपे स्वेशरीरे ऽथ वा बहिः

527

अभिज्ञाफलचित्तेन तत्तानि तु चतुर्दश ।
आद्यध्यानफलं द्वे तैरूर्ध्वभूम्येकवृद्धितः

528

तल्लाभो ध्यानवत् ज्ञेयः शुद्धकाच्च स्वतश्च तत् ।
स्वभूमेनैव निर्माणमधरेणापि भाषणम्

529

निर्मात्रैव सहैतेषां भाषणं सुगतादृते ।
एकस्य ब्रुवतः सर्वे निर्मिता ब्रुवते समम्

530

अधिष्ठाय तु निर्माणं भाषन्ते ऽन्येन चेतसा ।
अधिष्ठानं मृतस्यापि स्थिरस्यैव तु वस्तुनः

531

अजय्येकमनेकेन जयिणस्तद्विपर्ययः ।
अव्याकृतमभिज्ञोत्थं उपपत्त्य त्वयं त्रिधा

532

अर्हतां दशधा त्वेतदैश्वर्यमुपपद्यते ।
सर्वास्रवक्षयज्ञानविमुक्तिद्वययोगतः

533

ऐश्वर्यपि समानेस्मिन्यथोक्ते शास्तृशिष्ययोः ।
अन्तरं सुमहच्छास्तुर्यत्तत्पूर्वमुदाहृतम्

534

साङ्गा चित्तस्थितिर्ध्यानं तच्चतुर्धाङ्गभेदतः ।
ध्यानोक्तिराञ्जसी तत्र भाक्ती तत्सहभूष्वपि

535

संक्षेपादियमाख्याता ध्यानजातिश्चतुर्विधा ।
द्रव्यभेदानहं तस्याः प्रवक्ष्यामि यथागमम्

536

सहारूप्यचतुष्ट्वेन समापत्तिर्मताष्टधा ।
चतुः पञ्चेषु स्कन्धेषु तदुक्तेर्वर्गवृत्तितः

537

भेदेन तु समापत्तिद्रव्याणि दश सप्त च ।
सामन्तकैः सहाष्टाभिर्ध्यानान्तरिकयापि च

538

तद्भेदाः खल्विमे ऽन्येपि वक्ष्यन्ते शास्त्रचोदिताः ।
बुद्धबुद्धेस्तु ते सर्वे तत्त्वेनायान्ति गोचरम्

539

त्रिधा ध्यानानि मौलानि सास्वादादिप्रभेदतः ।
तथैव त्रय आरूप्या भवाग्रं तु द्विधा मतम्

540

सामन्तानि द्विधा सप्त प्रथमं तु त्रिधा मतम् ।
ध्यानान्तरं त्रिधा तद्वदक्लिष्टं त्वधराश्रयम्

मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc