भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप · श्लोक 501-520

501

सप्तमं षोडशाकारमविभक्ताकृतिद्वयम् ।
अष्टाकारं द्वितीयं तु नवज्ञानमयं तु यत्

502

तथागतबलं प्रोक्तं तज्ज्ञेयं द्वादशाकृति ।
सर्वगोचरमत्राद्यमन्त्यं शान्त्यवलम्बि वा

503

द्विधा हेतुभवालम्बं सप्तमं सत्यगोचरम् ।
अतीताद्यद्धि धात्वर्थमष्टमं समुदाहृतम्

504

नवमं खलु रूपार्थं संस्कृतालम्ब्यते परम् ।
द्व्यपेक्षो बलशब्दो ऽयं बलं त्वप्रतिघाततः

505

सन्धौ सन्धौ च बुद्धस्य कायेनारायणं बलम् ।
स्प्रष्टव्यमधिकं तत्तु दश हस्त्यादिसप्तकात्

506

स्वपरार्थान्तसम्प्राप्तेर्वैशारद्यचतुष्टयम् ।
आद्यन्तबलरूपे द्वे द्वे कर्म प्रतिपद्धियोः

507

श्रोतृसम्पत्त्रयापेक्षा त्रिविधा स्मृत्युपस्थितिः ।
संस्माराहितसामर्थ्यसंप्रजन्यस्वलक्षणा

508

संवृतिज्ञानरूपत्वाद्दीर्घकालानुसारतः ।
सर्वत्र समवृत्त्यादेर्बद्धस्यैव महाकृपा

509

अरणा प्रणिधिज्ञानं चतस्रः प्रतिसंविदः ।
अर्हत्सान्तानिका ह्येते पञ्च तु प्रान्तकोटिकाः

510

इतरैरपि सामान्या अप्रमादादयो गुणाः ।
एषां यथोपदिष्टानां शृणु वक्ष्यामि लक्षणम्

511

अरणा संवृतिज्ञानं नृजान्त्यध्याननिश्रयात् ।
आर्यसन्तानिका जाता सवस्तुकमलेक्षिणी

512

प्रणिधिज्ञानमप्येवं सर्वधर्मावलम्बि तु ।
अकोप्यधर्मणो ख्याते तथैव प्रतिसंविदः

513

विवक्षितार्थसम्बन्धिनामसंमोहभेदिनी ।
आद्यान्या तदभिव्यङ्ग्या ज्ञेया ज्ञानविचारिणी

514

तृतीया शब्दसंस्कारा ज्ञानसंमोहघातिनी ।
तुरीया तु प्रबन्धोक्तिर्ध्यानाद्युत्पादनोन्मुखी

515

अर्थाख्या खलु सर्वत्र षड्ज्ञानान्यथवा नव ।
प्रतिभानाह्वयाप्येवं दशज्ञानमयी त्वसौ

516

कामे ध्यानेषु धर्माख्या तदन्या त्वाद्यकामयोः ।
संवृतिज्ञानमय्यौ तु द्वे एते प्रतिसंविदौ

517

ऋद्धौ श्रोत्रे ऽन्यचित्ते प्राग्भावे च्युत्युदये क्षये ।
ज्ञानसाक्षात्क्रियाभिज्ञा षड्वा धीः मुक्तिवर्त्मनि

518

चतस्रः संवृतिज्ञानं पञ्च ज्ञानानि चित्तधीः ।
सर्वास्रवक्षयाभिज्ञा षड्ज्ञानान्यथवा दश

519

षष्ठी सर्वत्र पञ्चान्या मौलीषु ध्यानभूमिषु ।
यत्नवैराग्यतो लभ्याः स्वभूम्यधरगोचराः

520

स्मृत्युपस्थितयस्तिस्त्रश्चेतःपर्यायधीर्मता ।
ऋद्धिश्रोत्राक्ष्यभिज्ञास्नु प्रथमा स्मृत्युपस्थितिः

मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc