अभिधर्मदीप · श्लोक 481-500
परिज्ञाताद्यवगमः दुःखादौ क्षयधी फलम्
धीराकारः सदाकार्यं साकारास्त्ववलम्बिनः
परिचित्तमतिस्त्रीणि धर्मसंज्ञं निरोधधीः ।
चत्वारि स्मृत्युपस्थानान्यतो ऽन्यज्ज्ञानमिष्यते
मार्गधर्मान्वयज्ञानगोचरो नवशो धियः
पञ्चधर्मास्त्रिधात्वाप्तान् मार्गरूपान् सनातनान् ।
व्युत्पत्त्यर्थं द्विधा कृत्वा दर्शयेज्ज्ञानगोचरम्
दृङ्मार्गे प्रथमे ज्ञाने त्रिभिर्ज्ञानैः समन्वितः ।
चतुर्ष्वेकैकवृद्ध्योर्ध्वं विरक्तो ऽन्यमनो धिया
त्रिध्यानकामवैराग्ये पश्चिमे मुक्तिवर्त्मनि ।
मौलध्यानप्रयोगे च ज्ञेयानागतभावना
बालस्य स्मृत्युपस्थानध्यानाद्युत्पादने तथा ।
प्रयोगमुक्तिमार्गेषु संवृत्यान्यमनोधियः
क्षान्तिज्ञानानि भाव्यन्ते स्वजातीयानि दृक्पथे ।
सांवृतं चान्वयज्ञाने दुःखहेतुसमाह्वये
समानप्रतिपक्षत्वात्तेषु मार्गायितत्वतः ।
अतो ऽभिसमयात्याख्यं तत्त्रिसत्यान्तलाभतः
मार्गाख्ये त्वन्वयज्ञाने षड् भाव्यन्ते ऽथ सप्त वा ।
आनन्तर्यपथे चोर्द्ध्वं भाव्यते नान्यचित्तधीः
प्रहाणमुक्तिमार्गेषु विनान्त्याया विमुक्तितः ।
भवाग्रप्रतिपक्षत्वात्संवृतस्य न भावना
ध्यानादीनां स्वभावादावव्याघातविसारि यत् ।
ध्यानादिज्ञानसंज्ञं तन्नवज्ञानमयं बलम्
यत्सत्त्वाक्षमृदुत्वादौ परिच्छेदे प्रवर्तते ।
अक्षोत्तमावरज्ञानबलं तन्नवधीमयम्
यत्सत्त्वाधिरुचित्रैधे हीनादौ सम्प्रवर्तते ।
नानाधिमुक्तिधीसंज्ञे बलं तच्च नवात्मकम्
यन्नानाधात्वपेक्षाख्यं सत्त्वार्थाय प्रवर्तते ।
नवज्ञानमयं तद्वत्तन्नानाधातुधीबलम्
गतिधर्मार्यभेदं यद्वेत्ति प्रत्ययभेदतः ।
तद्धियो दश सर्वत्रगामिनीप्रतिपद्बलम्
यत् स्वान्यातीतजन्मेक्षिसंवृतिज्ञानसंज्ञकम् ।
प्राग्जात्यानुस्मृतिज्ञानबलं तत्सफलं मतम्
सत्त्वानां च्युतिसम्भूत्योर्ज्ञानमन्याध्ववृत्ति यत् ।
तच्च्युत्युत्पत्तिबुद्ध्याख्यं बलं पूर्ववदुच्यते
आस्रवक्षयधीसंज्ञं षड्ज्ञानान्यथवा दश ।
षोडशाकारमत्राद्यमन्यैश्चाप्युत्तरं भुवा
मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0