भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप · श्लोक 461-480

461

अष्टानां नीरजस्कानां मार्गाङ्गानां यथायथम् ।
तास्वेकस्याध्वसु ज्ञेयौ लाभालाभौ नवाश्रयौ

462

त्रिसत्याधिगमे लाभः शीलधर्मप्रसादयोः ।
मार्गसत्येक्षणे बुद्धसङ्घगोचरयोरपि

463

बौद्धात्सङ्घादृते मार्गाद्या श्रद्धा सत्यगोचरा ।
धर्मावेत्यप्रसादोसौ संप्रतीत्यप्रभावतः

464

मोहनिद्रातमोनाशाद्धीनेत्रोन्मीलनात् स्वयम् ।
बुद्धो यस्तद्गुणे श्रद्धा प्रसादः स जिने मतः

465

शैक्षाशैक्षगुणाढ्यानां पुद्गलानां य आकरः ।
तद्गुणालम्बना श्रद्धा प्रसादः सङ्खगोचरः

466

शीलानां यत्तु वैमल्यं तत्प्रसादस्तथैव तु ।
द्रव्यतो द्वयमेवैतन्नामतस्तु चतुष्टयम्

467

शैक्षस्य बन्धशेषत्वाद्विमुक्तिर्नाङ्गमिष्यते ।
मोक्षाधिमोक्षरूपत्वान्नित्यानित्यत्वतो द्विधा

468

पूर्वोक्तैव हि या बोधिः सा सम्यग्ज्ञानमुच्यते ।
मुच्यते ऽनागतं चित्तमशैक्षं क्लेशरोधतः

469

धर्मव्यापारतो लोके धर्म्यपि व्यापृतो मतः ।
मार्गस्तूपात्तकारित्रो निरस्यति तदावृतिम्

470

विमुक्तिः शाश्वती यैव सा विरागादयस्त्रयः ।
आख्याता धातवः सूत्रे त्रिधा भेदो ह्यपेक्षया

471

विरागो रागनिर्मोक्षः प्रहाणाख्यो ऽन्यसंक्षयः ।
निरोधधातुरन्यस्य सोपादानस्य वस्तुनः

472

दुःखहेत्ववलम्बिन्या योगी निर्विद्यते धिया ।
विरज्यते तु संरक्तस्ततः कोटिचतुष्टयी

473

संज्ञा अनित्यसंज्ञाद्या दश ताभ्यो ऽशुभादयः ।
तिस्रो मार्गविधिर्मार्गश्चतस्त्रो ऽन्त्यास्त्रयी फलम्

474

त्रितय्यशुभसंज्ञाद्या ज्ञेया तत्खलु सास्रवाः ।
समला निर्मलास्त्वन्या बोध्या नव भुवो ऽमलाः

475

भूमिष्वेकादशस्वन्त्या ध्यानाद्यासूपलक्षयेत् ।
चतुर्थी पञ्चमी षष्ठी विद्यात् सप्तसु भूमिषु

476

लोको ऽयं तत्त्वसंमुग्धो ज्ञेयतत्त्वे प्रमुह्यति ।
तानि ज्ञानानि वक्ष्यामि स्वरूपादिप्रपञ्चतः

477

जातिद्रव्ये निराकृत्य प्रतिपक्षाद्यपेक्षया ।
तद्भेदो दशधा प्रोक्तो धर्मज्ञानादिनामभिः

478

धर्मान्वयविशेष्ये द्वे दुःखाद्यैश्च चतुष्टयम् ।
द्वे संवृत्यन्यचित्ताभ्यां क्षयेणाजन्मना द्वयम्

479

प्रतिपक्षप्रयोगाभ्यां स्वभावाकारगोचरैः ।
तद्व्यवस्था निबोद्धव्या कृत्येनोपचयेन वा

480

धातुसत्यार्थचित्तेषु जातिध्वंसाप्रजन्मनोः ।
संमोहस्य निवृत्त्यर्थं तद्भेदो दशधैव वा

मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc