अभिधर्मदीप · श्लोक 441-460
क्षयज्ञानं मता बोधिस्तथानुत्पादधीरपि ।
दश चैकश्च तत्पक्ष्याः सप्तत्रिंशत्तु नामतः
सोपेक्षाप्रीतिसंकल्पं श्रद्धादीन्द्रियपञ्चकम् ।
सप्रस्रब्धिर्द्विरूपोत्थं नामभेदस्त्वपेक्षया
बलान्यत्रेन्द्रियाण्येव प्रज्ञैव स्मृत्युपस्थितिः ।
वीर्यं सम्यक्प्रधानाख्यं ऋद्धिपादा मनस्थितिः
दोषहाणमनुत्पादं गुणोत्पादं विवर्धनम् ।
सकृत्करोति यत्तद्धि स प्रहाणचतुष्टयम्
छन्दव्यायाममीमांसा चित्ताकृष्टाः समाधयः ।
ऋद्धिपादास्तु चत्वारो गुणसम्पत्तियोनयः
प्रोक्तं बोधित्रयेशित्वाच्छ्रद्धादीन्द्रियपञ्चकम् ।
कथितं बलशब्देन तदेवानभिभूतितः
बोधनार्थेन निर्दिष्टं शास्त्रा बोध्यङ्गसप्तकम् ।
प्रतीत्या परमार्थेन प्रज्ञेत्यन्तमनुग्रहात्
प्रीतिप्रस्रब्ध्युपेक्षाणामुक्ताद्धेतोस्तदङ्गता ।
संकल्पादेश्चतुष्कस्य पथो ज्ञेयानुकूल्यतः
विद्याप्रभः श्लक्ष्णविकल्पभूमिः शीलानुयात्रः स्मृतिवीर्यमित्रः ।
समाधिसर्वाधिसुखोपभोगो मार्गो विमुक्तिद्वयधिष्ण्यगो ऽयम्
प्राधान्यं सप्तवर्गस्य प्रारम्भोष्मगतादिषु ।
यथाक्रमं विबोद्धव्यं भावनादृष्टिमार्गयोः
न चित्तं राजकल्पत्वाद् गुणदोषानुवर्तनात् ।
व्यवहारानुकूल्यत्वात् संज्ञा ह्येतेषु नेष्यते
विपाकफलनिम्नत्वान्मार्गोक्तेश्च न चेतना ।
नाप्राधान्यान्मनस्कारो विद्याविद्याप्रवर्तनात्
क्रियारम्भप्रधानत्वान्न च्छन्दो वीर्यबृंहणात् ।
नाधिमोक्षः समारोपान्न स्पर्शो दौर्विभाव्यतः
नार्यवंश ह्र्यपत्राप्या अविशारदवृत्तितः ।
नाप्रमादः पराङ्गत्वान्नाविहिंसाविहेठनात्
सत्त्वाधिष्ठानवृत्तित्वान्न मैत्रीकरुणादयः ।
मार्गाङ्गाक्षैकदेशत्वान्नाप्यवेत्यप्रसत्तयः
नाद्वेषः शुभमूलेभ्यः सत्त्वगोचरभावतः ।
औदासीन्यान्न निर्वाणं दविष्ठ्यान्न परध्वनिः
बोध्यङ्गान्यरजस्कानि बोधेर्नेदिष्टभावतः ।
तदन्यान्यवबोध्यानि समलान्यमलान्यपि
आद्ये ध्याने ऽखिला मौले ऽनागम्ये प्रीत्यपाकृताः ।
द्वितीये ऽप्यपसंकल्पा द्वयोश्चास्मात् द्वयादृते
शीलाङ्गेभ्यश्च ताभ्यां च द्रष्टव्या त्रिष्वरूपिषु ।
बोध्यङ्गेभ्यश्च सर्वेभ्यो कामे बोध्यङ्गवर्जिताः
यस्तत्प्रथमताः प्रोक्ताश्चतस्रस्तत्र कोविदैः ।
न्यामावक्रान्तिवैराग्यफलाप्त्यक्षविवृद्धिषु
मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0