भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप · श्लोक 421-440

421

एतन्निर्वेधभागीयं चतुर्धा भावनामयम् ।
षड्भौमं षोडशाकारं पञ्चस्कन्धा विनाप्तिभिः

422

पश्चात्तु खलुनिर्वेध आर्यमार्गाह्वयस्ततः ।
स यस्मान्निश्चितो वेधस्तस्मान्निर्वेध उच्यते

423

धर्मज्ञानरुचिर्दुःखे निर्मलं धर्मदर्शनम् ।
ततस्तत्रैवावधृतिः धर्मज्ञानमनन्तरम्

424

एवं त्रिष्वपि सत्येषु तथैवान्वयधीर्द्विधा ।
अनन्त्यास्तत्र दृङ्मार्गाः ज्ञेयाः पञ्चदशक्षणाः

425

क्षणो ऽन्त्यो भावनामार्गात् फलमेषो ऽर्थसिद्धितः

426

ध्यानानि व्यवकीर्यातः पञ्चमस्त्वकनिष्ठगः ।
चतुर्धारूप्यगाम्यन्यो दृष्टनिर्वायको ऽपरः

427

पुनस्त्रिधा त्रिधा कृत्वा त्रीनतो रूपगा नव ।
तद्विशेषः पुनर्ज्ञेयः कर्मक्लेशाक्षभेदतः

428

षड्धोर्ध्वस्त्रोतसा सार्धं सप्तधा सद्गतिर्मता ।
सति वृत्तेरनैर्याणादुक्तैषामेव सद्गतिः

429

परावृत्तभवो ह्यार्यो नेह धात्वन्तरोपगः ।
एष चोर्ध्वगतिश्चैव नाक्षमं चारहानिभाक्

430

अन्त्यकामीर्यते पूर्वं सिद्धिर्द्विक्षणमिश्रणात् ।
उद्भवार्थं सुखार्थं च क्लेशाशङ्कार्थमेव च

431

तत्पाञ्चविध्यतः पञ्च शुद्धावासभुवः स्मृताः ।
न जातु दृष्टपूर्वास्ताः सर्वैरपि पृथग्जनैः

432

यो निरोधसमापत्तिमश्नुते कायसाक्ष्यसौ ।
भवाग्राष्टांशहा यावदर्हत्त्वप्रतिपन्नकः

433

यश्चानन्तर्यमार्गे ऽन्त्ये वज्रौपम्याह्वयेस्थितः ।
तत्फलार्थं क्षयज्ञानं तदेकालम्बनं न वा

434

तदवाप्तेरशैक्षो ऽसावर्हंस्त्रैलोक्यसत्कृतः ।
सर्वक्लेशविसंयुक्तः शिक्षात्रितयपारगः

435

भावनाख्यो द्विधा मार्गः समलामलभेदतः ।
दर्शनाख्यस्तु विज्ञेयः सर्वस्यैव निरास्रवः

436

आनुपूर्विकयद्भूयोवीतरागावीतावीतरागिणाम् ।
अशैक्षाख्योपि बोद्धव्यो नित्यमेवामलीमसः

437

भवाग्रं निर्मलो ऽत्येति........

438

सविशेषं यतस्त्यक्त्वा फलं परमुपाश्नुते ।
शैक्षस्य त्रिभिरक्षाद्यैर्द्वाभ्यां संपूर्णंतार्हतः

439

विज्ञातव्यः समासेन पुनमार्गश्चतुर्विधः ।
आनन्तर्यविमुक्त्याख्यौ प्रारम्भोत्कर्षलक्षणौ

440

तीक्ष्णेन्द्रियस्य मौलेषु ध्यानेषु प्रतिपत्सुखा ।
क्षिप्राभिज्ञाल्पबुद्धेस्तु धन्धान्यत्र विपर्ययात्

मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc