भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप · श्लोक 21-40

21

विज्ञानपञ्चकं कामेष्वेकेन सविकल्पकम् ।
तस्मादन्यत् त्रिभिः ध्याने प्रथमे चासमाहितम्

22

द्वाभ्यामव्यग्रं एकेन चक्षुःश्रोत्रत्वगाश्रयम् ।
द्वाभ्यां तदुपरिव्यग्रं एकेनैव समाहितम्

23

उच्छिन्नशुभबीजस्य दर्शनं सविकल्पकम् ।
कुशलं नास्ति विज्ञानमन्यत्र प्रतिसन्धितः

24

कामेभ्यो वीतरागस्य बालस्याहानिधर्मिणः ।
द्विधाप्यकुशलं नास्ति क्लिष्टं चार्यस्य नोत्तमम्

25

नाक्लिष्टाव्याकृतं किञ्चिदूर्ध्वभूमिविकल्पकम् ।
क्लिष्टं विकल्पकं चापि नास्त्यधोभूमिगोचरम्

26

त्रिधेह द्वयमार्यस्य रागिणः सशुभस्य च ।
न शुभं नापि च क्लिष्टं द्वितीयादिषु दर्शकम्

27

प्रयोगादङ्गसान्निध्यात्सभागत्वाच्च सन्ततेः ।
प्राग्विज्ञानानुभूते ऽर्थे चेतस्युत्पद्यते स्मृतिः

28

एतद्विपर्ययात् मान्द्यात्क्लेशरोगाभिभूतितः ।
ज्ञातपूर्वेषु विस्मृतिः संप्रजायते

29

दृष्टं द्वित्रिचतुःपञ्चप्रकारेणापि चेतसा ।
स्मर्यते सत्तदन्यैश्च नान्यो ऽन्यं व्योघदृक्क्षये

30

विज्ञानानां तु पञ्चानां यदेकेनानुभूयते ।
तत्स्मर्यते ऽपि चान्येन तेन खल्वितरैरपि

31

द्व्यव्याकृतानुभूतं यच्चित्तं द्वादशकादिह ।
व्यारूप्यरूपनिवृतेः स्मर्यते ऽष्टाभिरेव तत्

32

रूपारूप्याप्तनिवृतशुभाभ्यां तु क्रमेण यत् ।
कामाप्ताव्याकृते हित्वा स्मर्यते दशकेन तत्

33

रूपे त्वनिवृताख्येन दृष्टमव्याकृतेन यत् ।
आरूप्याव्याकृते हित्वा तदन्यैः स्मर्यते पुनः

34

आरूप्याव्याकृतज्ञातं यश्चेतो नवकेन तत् ।
कामाप्ताव्याकृते हित्वा रूपाप्तानिवृतं तथा

35

चित्ताख्याः सप्त सालम्बा धर्माख्यः संप्रयुक्तकः ।
अमूर्ता ध्वनिना सार्धमनुपात्ताः नव द्विधा

36

स्पृश्यं द्विधा सधर्मांशाः सह ता नव भौतिकाः ।
दश सावयवा मूर्ताः त एव दश संचिताः

37

रूपगन्धरसस्पर्शाश्च्छेतृच्छेद्यात्मका मताः ।
दाहकास्तोलकाश्चैते दाह्यास्तोल्यास्त एव वा

38

पञ्च रूपीन्द्रियात्मानो विपाकोपचयात्मकाः ।
अमूर्ता नौपचयिकाः त्रिधा शेषाः ध्वनिर्द्विधा

39

चक्षुस्तदुपलब्धिश्च पृथग्वा सह वाप्नुयात् ।
द्वादशाध्यात्मिका ज्ञेयाः बाह्याष्षड्विषयात्मकाः

40

त्रयो ऽन्त्यास्त्रिविधाः शेषा भावनापथसंक्षयाः ।
न रूपमस्ति दृग्घेयं नाक्लिष्टं नाविकल्पकम्

मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc