अभिधर्मदीप · श्लोक 341-360
स्वे त्रयः कामधात्वाप्ता रूपाप्ताश्च त्रयस्त्रयः ।
रूपाप्तवत्परावृत्ते द्वितीये पञ्चमे तथा
तृतीये खल्वपि स्वे च सास्रवार्थावलम्बिनः ।
परावृत्ते स्वधात्वाप्ताः संस्कृतार्थावलम्बिनः
अन्यत्त्वाद्यवदाख्येयं चतुर्थे ऽपि तृतीयवत् ।
आद्यवत्तु परावृत्ते विज्ञाने निर्दिशेद् बुधः
भावनापथहातव्यो निकायः सर्वगैः सह ।
अनुशेते द्विधात्वाप्तो व्यारूप्याश्चक्षुरिन्द्रिये
निकायाः कामरूपाप्ताश्चक्षुरिन्द्रियगोचरे ।
दुःखहेतुदृगभ्यासप्रहातव्यास्त्रयस्त्रयः
आरूप्या भावनाहेयाः सर्वगाश्चानुशेरते ।
परिवृत्ते तु चत्वारः समदृक्क्षयवर्जिताः
दुःखेन्द्रिये तु कामाप्तः स्वैरेव सह सर्वगैः ।
तद्गोचरे तु विज्ञाने निकाया अनुशेरते
कामापन्नास्त्रयो रूपाः सर्वगाभ्याससंक्षयाः ।
परवृत्ते तु चत्वारः कामाप्ता अनुशेरते
त्रयो रूपभवादन्त्याद्भावनाहेयसर्वगाः ।
सकला द्विष्परावृत्तेश्चत्वारश्चानुशेरते
सुखेन्द्रिये तदालम्बे चित्ते तद्गोचरे ऽपि च ।
कामाद्याप्ताः यथायोगं सर्वगाश्चानुशेरते
त्रिधातुसंगृहीतास्तु सकला मनैन्द्रिये ।
तदालम्बिनि विज्ञाने सर्वसंस्कृतगोचराः
संस्कृतालम्बना एव परिवृत्ते ऽनुशेरते ।
विशेषो द्विःपरावृत्तौ विद्यते ऽत्र न कश्चन
दुःखं दर्शनहेयादेश्चित्ताच्चित्तानि कामिनः ।
भवत्यनन्तरं षड् वा तस्योर्द्ध्वं पञ्च पञ्च वा
रूपधातूपपन्नस्य चित्तानि तु विनिर्दिशेत् ।
एकं वा पञ्च वा षड् वा सप्त वा यदि वा दश
आरूप्यधातुजातस्य चित्तानीमानि लक्षयेत् ।
स्वधातुकानि पञ्चैव च्युतिकाले दशान्यतः
साचिव्यादनुशायित्वाच्चित्तं सानुशयं मतम् ।
द्विधा वा क्लिष्टमक्लिष्टमेकधैवापदिश्यते
मोहात्सत्कायदृक्तस्या अन्तग्राहेक्षणं ततः ।
काङ्क्षामिथ्येक्षणं तस्याः शीलामर्शस्ततो दृशः
रागः स्वदृशि मानश्व द्वेषो ऽन्यत्र प्रतायते ।
ज्ञेयः प्रवृत्तिबाहुल्यादेवमेषामनुक्रमः
सदसन्मित्रयोगात्तु तद्वृत्त्यनियमो मतः ।
क्लेश उत्पद्यते कश्चित्संपूर्णैः कारणैस्त्रिभिः
व्यविद्याः सकलाः क्लेशाः कामे कामास्रवो मतः ।
स्त्यानौद्धत्ये च हित्वोर्ध्वं समानत्वाद्भवास्त्रवः
मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0