अभिधर्मदीप · श्लोक 321-340
वर्तमानाध्वसंपातात् सामग्र्याङ्गपरिग्रहात् ।
लब्धशक्तेः फलाक्षेपः कारित्रमभिधीयते
न वर्तमानता रूपमतीताजातता न च ।
यतो ऽतो नाध्वसंचाराद् रूपात्मान्यथतेष्यते
अवस्था जायते काचिद्विद्यमानस्य वस्तुनः ।
तथा शक्तिस्तथा वेला तथा सत्ता तथा क्रिया
परिकल्पैर्जगद्व्याप्तं मूर्खचित्तानुरञ्जिभिः ।
यस्तु विद्वन्मनोग्राही परिकल्पः स दुर्लभः
अन्यसर्वत्रगैर्बद्धः प्रहीणे दुःखदृक्क्षये ।
प्रहीणे प्राक्प्रकारे ऽपि शेषैस्तदवलम्बिभिः
धर्माः षोडश विज्ञेयाः प्रत्येकं त्रिभवात्मकाः ।
पञ्चधा निर्मलाश्चैव विज्ञानानि तथैव च
धात्वायतनसत्येषु प्रकारेषु च लक्षयेत् ।
धर्मसंग्रहविज्ञानज्ञानानुशयचोदितः
सदुःखहेतुदृग्घेयाः कामाप्ता भावनाक्षयाः ।
स्वकत्रयैकरूपाप्तिविरजाश्चित्तगोचराः
आत्मीयाधस्त्रयैकोर्ध्वनिर्मलानां तु रूपजाः ।
आरूप्याप्तास्त्रिधात्वाप्तत्रिकनिर्मलगोचराः
सर्वे स्वाधिकविज्ञेयाः समनिर्याणदृक्क्षयाः ।
निष्क्लेशास्त्रिभवाप्तान्त्यत्रयनिर्मलगोचराः
कामाप्तं पञ्चविषयो रूपाप्तं त्वष्टगोचरः ।
आरुप्याप्तं दशानां तु दशानामेव चामलम्
कामाप्तमूर्ध्वधर्मार्थे विज्ञाने स्वभुवस्त्रयः ।
रूपाप्ता भावनाहेयाः सर्वगाश्चानुशेरते
चत्वारः परिवृत्ते स्वे रूपाप्ताः खल्वपि त्रयः ।
आरूप्यावचराः सार्धं सर्वगैर्भावनाक्षयाः
तद्वदेव द्वितीये ऽपि पञ्चमे ऽपि तथैव च ।
सास्रवालम्बनाः स्वे च तृतीये ऽप्यनुशेरते
परिवृत्ते तु कामाप्ताः संस्कृतार्थावलम्बिनः ।
शेषं पूर्ववदाख्येयम् चतुर्थे ऽपि तृतीयवत्
परिवृत्ते तु कामाप्ताश्चत्वारो ऽन्यत्र पूर्ववत् ।
रूपाप्ते प्रथमे ऽधस्तात् त्रयः स्वे खल्वपि त्रयः
आरूप्याः सर्वगाः सार्धं भावनापथसंक्षयैः ।
परिवृत्ते त्रयो ऽधस्तात् चत्वारश्च स्वधातुतः
आरूप्याप्ताश्च चत्वारो निकाया अनुशेरते ।
तद्वदेव द्वितीये ऽपि पञ्चमे ऽपि तथैव च
सास्रवालम्बनाः स्वे च तृतीये ऽप्यनुशेरते ।
परिवृत्ते तु रूपाप्ताः संस्कृतार्थावलम्बिनः
अन्यत्तु पूर्ववज्ज्ञेयं चतुर्थे ऽपि तृतीयवत् ।
तृतीयवत्परावृत्ते आरूप्याद्ये निबोधयेत्
मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0