अभिधर्मदीप · श्लोक 361-380
अविद्याख्यस्तु मूलत्वादविद्या सार्वधातुकी ।
तथौघयोगा दृग्वर्ज्जं तत्पृथक्त्वन्तु पाटवात्
साविद्या द्वे उपादाने यथाक्तौ द्वे तु दृङ्मये ।
चतस्रो ऽप्येकमन्त्यैकं कुमार्गादिसमाश्रयात्
शेषास्त्रैधातुकास्त्वन्त्ये सात्मभावप्रवृत्तितः ।
संयोजनादिभिः शब्दैर्दर्शिताः पञ्चधा पुनः
नव संयोजनान्यस्मिन्नीर्ष्यामात्सर्यमेव च ।
द्रव्यामर्षणसामान्याद् दृशः संयोजनद्वयम्
शेषाण्यनुशयाः पञ्च पञ्चधा पञ्चधा पुनः ।
जगादावरभागीयमूर्ध्वभागीयमेव च
आद्यन्त्ये द्वे दृशौ काङ्क्षाकामच्छन्दो द्विरेव यः ।
द्वाभ्यां कामानतिक्रान्तिः पुनरानयनं त्रिभिः
द्व्येकदृग्घेयकार्योक्तेर्दृष्टिहेयमुखग्रहात् ।
सर्वदृग्घेयभाक्त्वे ऽपि त्रयमेतदुदाहृतम्
सर्वानर्थनिदानत्वान्मार्गप्रत्यर्थिभावतः ।
तथ्योहाविधुरत्वाच्च त्रिसंयोजनदेशना
द्वौ रूपारूपजौ रागौ मानमोहोद्धवास्त्रयः ।
त्रिवेदनानुशायित्वाद् दृढत्वाद्बन्धनत्रयम्
द्विपक्षग्रन्थनाद् ग्रन्थाश्चत्वारः समुदाहृताः ।
अभिध्याख्यास्तथा द्वेषः परामर्शद्वयं तथा
उपक्लेशास्तु विज्ञेयाः संरम्भाद्या यथोदिताः ।
सर्वे वा चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः
मूलक्लेशमलास्त्वन्ये षडुपक्लेशसंज्ञिताः ।
शाठ्योपनाहप्रदाशमायामदविहेठनाः
म्रर्क्ष्येर्ष्याह्र्यनपत्राप्यस्त्यानमिद्धोद्धवक्रुधः ।
मात्सर्यं कुकृतत्वं च दशधा पर्यवस्थितिः
एभ्यो ऽनुनयनिष्यन्दा आह्रीक्यौद्धततादयः ।
म्रक्षानपत्रपास्त्यानमिद्धाद्या मोहसंभवाः
कौकृत्यं विचिकित्सोत्थं क्रोधाद्या द्वेषसम्भवाः ।
प्रमादस्तम्भमार्द्व(?)क्ष्य मायाशाठ्यविजृम्भिकाः
कायदुष्ठूलताद्याश्च ज्ञेया व्यामिश्रसम्भवाः ।
प्रदाशो दृक्परामर्शनिष्यन्दः शठता दृशः
सौमनस्येन रागस्य संप्रयोगः सुखेन च ।
द्वेषस्य दौर्मनस्येन दुःखेन च निगद्यते
सर्वैर्मोहस्य वित्तिभ्यां चैतसीभ्यामसद्दृशः ।
काङ्क्षा च दौर्मनस्येन शेषाणां सुमनस्तया
उपेक्षया तु सर्वेषाम् कामाप्तानामयं विधिः ।
इतो ऽन्यधातुजानां तु प्रतिभूम्यन्तरं स्वकैः
ईर्ष्यया दौर्मनस्येन कौकृत्यस्य तथा क्रुधः ।
प्रदष्टेश्चोपनद्धेश्च विहिंसायास्तथैव च
मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0