भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप · श्लोक 301-320

301

इच्छत्यध्वत्रयं यस्मात् कृत्यतश्च ध्रुवत्रयम् ।
सर्वास्तिवाद इत्युक्तस्तस्मादाद्यश्चतुर्विधः

302

भावाङ्कान्यथिकाख्यौ द्वाववस्थान्यथिको परः ।
अन्यथान्यथिकश्चान्यः, तृतीयो युक्तिवाद्यतः

303

कारित्रेणाध्वनामेप व्यवस्थामभिवाञ्छति ।
तत्कुर्वन्वर्तमानो ऽध्वा कृते ऽतीतो ऽकृते परः

304

बुद्ध्या यस्येक्ष्यते चिह्नं तत्संज्ञेयं चतुर्विधम् ।
परमार्थेन संवृत्या द्वयेनापेक्षयापि च

305

सदतीतासमुत्पन्नं बुद्धोक्तेर्वर्तमानवत् ।
धीनामगोचरत्वच्च तत्सत्त्वं वर्तमानवत्

306

नासदालम्बना बुद्धिरागमादुपपत्तितः ।
अन्यापेक्ष्ये ऽथ संबन्धप्र्तिषेधो ऽश्वशृङ्गयोः

307

रूपादौ वस्तुनि क्षीणे सत्येवोत्पद्यते मतिः ।
सा ज्ञानस्यासनाकारा शास्तुस्तथान्यचित्तवत्

308

हर्षोत्पादभयोद्वेगस्मृत्युत्पत्त्यङ्गभावतः ।
साङ्गस्य शक्त्यभिव्यक्तेः सदीपघटरूपवत्

309

जनीहाकर्तृ साध्यत्वात्पञ्चभावविकारवत् ।
सतः क्रियाङ्गतादृष्टेर्विकार्यप्राप्यकर्मवत्

310

द्वितीयं जन्म जातस्य वस्तुनो नोपपद्यते ।
मुख्यसत्ता गुणाभावाद्गौणी सत्ता न विद्यते

311

साधर्म्ये सति तद्वृत्तेर्व्याहारं मधुरोक्तिवत् ।
आविष्टलिङ्गमुख्यस्य जन्मेष्टं दारकादिवत्

312

स्यात्खपुष्पैः खमुत्फुल्लं स्याञ्जटालश्च दर्दुरः ।
स्वभावो यदि भावनां प्रागभूत्वा समुद्भवेत्

313

स्थितिशक्तिपरित्यक्तान्धर्मान्नाशान्वितोदयान् ।
वद सोम्य कथं याति प्रतीत्या वस्तु वस्तुताम्

314

लोके दृष्टः सतोरेव परस्परमनुग्रहः ।
तद्वदेवोपघातो ऽपि नाश्वशृङ्गाहिपादयोः

315

यत्प्रतीत्यसमुत्पन्नं तत्स्वभावान्न विद्यते ।
न विद्यते स्वभावाद्यद्विद्यते तत्ततो ऽन्यथा

316

प्रकुर्वन्ति दशामात्रं हेतवो वस्तुनः सतः ।
राजत्वं राजपुत्रस्य सात्मकस्यैव मन्त्रिणः

317

धर्माणां सति सामग्र्ये सामर्थ्यमुपजायते ।
चितानां परमाणूनां यद्वदात्मोपलम्भने

318

कर्मातीतमसद्यस्य फलं भावि करोत्यसत् ।
व्यक्तं वन्ध्यासुतस्तस्य जायते व्यन्तरात्मजात्

319

नामसल्लक्षणाभावाद् द्रव्यसत्याङ्कसिद्धितः ।
अनागताभ्यतीतस्य नास्ति प्रज्ञप्तिसत्यता

320

को विघ्नः अङ्गवैकल्यम् न तत्सर्वास्तिता सदा ।
तत्कथं श्रूयतां सद्भ्यः दुर्बोधा खलु धर्मता

मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc