अभिधर्मदीप · श्लोक 281-300
नवोर्ध्वधातुकास्तेषामाद्या दृष्टिद्वयादृते ।
तेषां सहभुवो धर्माः प्राप्तिवर्ज्याश्च सर्वगाः
काङ्क्षामिथ्यादृगाभ्यां च मिश्राविद्याथ केवला ।
निरोधमार्गदृग्घेयाः षडेते निर्मलेक्षिणः
स्वभूमेरेव निर्वाणं मार्गस्थन्नवभूमिकः ।
तद्दृश्यविषयो ऽन्यो ऽन्यो हेतुत्वाद्धेतुभावतः
न रागः शक्त्यहेतुत्वान्न द्वेषो ऽनपराधतः ।
नमानो ऽतिप्रशान्तत्वान्न भावत्वाद् दृशो ऽपराः
सर्वगो ऽनुशयः कृत्स्नामनुशेते स्वधातुगः ।
स्वामालम्बनतो भूमिं स्वनिकायं त्वसर्वगः
अस्वीकाराद्विपक्षत्वान्नोर्ध्वभूमार्गगोचरः ।
संप्रयोगिणि तु स्वस्मिन्नहीने संप्रयोगतः
धात्रीवस्त्रमलन्यायैः खचराम्बुचरक्रमैः ।
एते ऽनुशेरते यस्मात्तस्मादनुशयाः स्मृताः
स्वैरिष्टादिभिराकारैः परमाणुक्षणेष्वपि ।
यतो ऽनुशेरते चैते ततश्चानुशया मताः
आद्यं दृष्टिद्वयं कामे निवृताव्याकृतं मतम् ।
धातुद्वये तु सर्वे ऽपि निवृताव्याकृता मलाः
कामेष्वकुशलाः शेषाः रागद्वेषतमांस्यतः ।
त्रीण्येवाशुभमूलानि पञ्चकारणयोगतः
अव्याकृतद्वयस्यापि त्रीणि मूलानि तत्समाः ।
अविद्या धीश्च तृष्णा च न काङ्क्षामानदृष्टयः
चलत्वादूर्ध्ववृत्तित्वादव्यापित्वाद्यथाक्रमम् ।
सूत्रस्यार्थापरिज्ञानादहेतुर्ध्यायिचोदनात्
प्रश्नव्याकरणान्याख्यच्चत्वारि वदतां वरः ।
शिष्याणां वादशिक्षार्थं स्थितीनां च चतुष्टयीम्
एकांशाख्यं विभज्याख्यं पृच्छाख्यं स्थाप्यमेव च ।
मरणप्रसवोत्कर्षजीवद्रव्यान्यतादिवत्
स्थानवादित्वसंज्ञैका परिकल्पाह्वया परा ।
अन्या प्रतिपदाख्यान्या ज्ञानवादित्वसंज्ञिता
मानप्रतिघसंरागैर्वर्तमानो ऽज्झितक्रियैः ।
जाता यत्राप्रहीणाश्च संयुक्तस्तत्र वस्तुनि
अजातैर्मानसैरेतैः सर्वत्रान्यैः स्वकाध्विकैः ।
सर्वत्राजैस्तथा शेषैः संयुक्ता स्कन्धसन्ततिः
द्वयमेवात्र निष्पन्नं तृतीयं तूपचारतः ।
सदसद्धेतुता यस्मान्मध्यस्थैश्च परिग्रहात्
सर्वमस्ति प्रदेशो ऽस्ति सर्वं नास्तीति चापरः ।
अव्याकृतास्तिवादीति चत्वारो वादिनः स्मृताः
एभ्यो यः प्रथमो वादी भजते साधुतामसौ ।
तर्काभिमानिनस्त्वन्येयुक्त्यागमबहिष्कृताः
मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0