भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप · श्लोक 261-280

261

रागप्रतिघसंमोहमानकाङ्क्षाकुदृष्टयः ।
षडेते ऽनुशयाः प्रोक्ताः श्रेयोद्वारविबन्धिनः

262

रागद्वेधात् मताः सप्त दृष्टिभेदाद्दश स्मृताः ।
भूयो ऽष्टानवतिर्ज्ञेया धात्वाकारादिभेदतः

263

कामरागो भवाख्यश्च द्विधाः रागः प्रभिद्यते ।
प्रायो बहिष्प्रवृत्तत्वादन्तर्वत्त्यादिभेदतः

264

सत्कायान्तद्वयग्राहौ मिथ्यादर्शनमेव च ।
दृष्टिशीलव्रतामर्शावित्येताः पञ्च दृष्टयः

265

दशेह दुःखदृग्घेयाः सप्त हेत्वीक्षणक्षयाः ।
सप्तापवर्गदृग्घेयाः अष्टौ मार्गेक्षणक्षयाः

266

दृष्टिहेयावलम्बित्वात्सदाकारपरिग्रहात् ।
रागादयस्तु चत्वारो ज्ञेया मार्गद्वयक्षयाः

267

प्रतिकल्पवशोत्पत्तेर्दृष्टिकाङ्क्षे तु दृक्क्षये ।
रूपेप्येवं तथारूप्ये प्रतिघानुशयादृते

268

भवाग्रे क्षान्तिहेया ये दृग्घेया एव ते मताः ।
ज्ञानवध्यास्तु ये तस्मिन्नभ्यासेनैव तत्क्षयः

269

अहं ममेति या दृष्टिरसौ सत्कायदृक् स्मृता ।
तदुच्छेदध्रुवग्राहौ यौ सान्तर्ग्राहदृङ्मता

270

फलहेत्वपवादो यः सा मिथ्यादृष्टिरुच्यते ।
ज्ञेयो दृष्टिपरामर्शः हीनवस्तूत्तमग्रहः

271

अहेतावपथे चैव तद्धि शीलव्रताह्वयः ।
दुःखभ्रान्त्यपथादानात्तदृष्ट्युत्सार्य एव सः

272

सत्कायदृष्ट्यवच्छेदो धर्ममात्रेक्षणाद्यतः ।
दुःखाभिसमये तच्च तद्दृग्घेयैव सो ऽप्यतः

273

द्वयं दृष्टिपरामर्शादेकः सत्कायदृष्टितः ।
अन्तर्ग्राहार्धमन्यस्तु विपर्यासः प्रकल्प्यते

274

नितीरणसमारोपविपरीतप्रवृत्तितः ।
विपर्यासोक्तिरेष्वेव दृग्वशात् चित्तसंज्ञयोः

275

सप्त मानविधास्त्रिभ्यो नव मानविधास्त्रिधा ।
त्रिधात्युन्नमनादिभ्यः स्वोत्कर्षाद्यस्ति नास्तिता

276

वधादिपर्यवस्थानं कौकृत्यमशुभं विधाः ।
विभवेच्छा च नार्यस्य जायन्ते हेत्वभावतः

277

दुःखात्समुदयाच्चैव सर्वगानां व्यवस्थितिः ।
तद्दृष्टिहेयजातीनां सर्वासां द्विपदस्थितेः

278

काङ्क्षा पञ्च दृशो ऽविद्या तद्व्यामिश्राथ केवलाः ।
सप्त सर्वत्रगा दुःखाद्धेनोरेभ्यश्चतुष्टयम्

279

द्रव्यतो दश चैकश्च नाम्ना सप्त तु ते मताः ।
रागप्रतिघमानास्तु परिच्छेदप्रवर्तिनः

280

प्रकारान्तरवर्तित्वात्सकृत्सर्वस्वभूगतिः ।
धात्वन्तरावलम्बित्वात्पूर्वोक्ता एव सर्वगाः

मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc