अभिधर्मदीप · श्लोक 1-20
यो दुःखहेतुव्युपशान्तिमार्गं प्रदर्शयामास नरामरेभ्यः ।
तं सत्पथज्ञं प्रणिपत्य बुद्धं शास्त्रं करिष्याम्यभिधर्मदीपम्
सत्त्वाद्यनन्यथाभावे व्यक्ताभावः प्रसज्यते ।
तद्विकाराद्विकारित्वं प्रकृतेस्तदभेदतः
न कर्म स्वकतोत्सर्गात् ज्ञव्यक्तात्मकता मलाः ।
प्राक्पक्षे मुक्त्यभावश्च द्वितीये ऽन्ये ऽप्युपप्लवाः
रूपस्कन्धो हि नेत्राद्या दशायतनधातवः ।
धर्मसंज्ञे त्रयस्कन्धाः साविज्ञप्तिर्ध्रुवत्रयाः
मनःसंज्ञकमन्यो ऽपि सप्तविज्ञानधातवः ।
आयद्वारं ह्यायतनं धातुर्गोत्रं निरुच्यते
योगरूप्यानुकूल्यादेर्द्वादशायतनीं मुनिः ।
बुद्ध्याद्येकत्वधीहान्यै धातूंश्चाष्टादशोक्तवान्
षण्णामन्यो न्यतन्त्रत्वात्कारणं यद्धि तन्मनः ।
रूप्यरूपाश्रयास्तित्वात्पञ्चानां रूप्युदाहृतः
स्कन्धायतनधातूनां स्वात्मना संग्रहः स्मृतः ।
स्वात्मना नित्यमवियोगात् समत्वं चित्तचैतसाम्
तदाख्या ये ऽन्यसूत्रोक्तास्तेषामेष्वेव संग्रहम् ।
ब्रूयाच्छास्त्रनयाभिज्ञो बुद्ध्यापेक्ष्य स्वलक्षणम्
अन्योन्यसंग्रहो ज्ञेयः स्कन्धादीनां यथायथम् ।
नाध्वस्वपतनादिभ्यो नित्यानां स्कन्धसंग्रहः
धर्मस्कन्धसहस्त्राणामशीतेरपि संग्रहः ।
ज्ञेयो ऽवतरणेष्वेव तैः सन्मार्गावतारणात्
धर्मस्कन्धप्रमाणं तु सत्यादेरेकशः कथा ।
तत्सतत्त्वं तु केषाञ्चिद्वाङ्नामापीष्यते परैः
सत्त्वप्रज्ञप्त्युपादानं मौलं षड्धातवो मताः ।
प्रोक्तास्तद्भेदतो यस्मादस्मिमानो निवर्तते
क्लिष्टमेव हि विज्ञानं द्रष्टव्यं जन्मनि श्रयात् ।
खधातुः पृथगाकाशाद्रूपायतनसंग्रहात्
नभः खलु नभो धातोरासन्नो हेतुरेष तु ।
भूतानां तानि तज्जस्य रूपस्यैतत्तु चेतसः
प्रत्यक्षवृत्तिर्यत्तत्प्रागप्राप्तग्राह्यतो ऽपि यत् ।
ततो ऽपि यद्दवीयो ऽर्थं पटिष्ठमितरादपि
सनिदर्शन आद्यार्थः मूर्ताः सप्रतिघा दश ।
अन्यत्र रूपशब्दाभ्यां त एवाव्याकृता मताः
शेषास्त्रिधा इह सर्वे ऽपि रूपधातौ चतुर्दश ।
रसगन्धौ सविज्ञानौ धातू हित्वा त्रयोन्तिमाः
सास्रवानास्त्रवा अन्त्यास्त्रयः शेषास्तु सास्रवाः ।
सालम्बप्रथमाः पञ्च सोपचारास्त्रयस्त्रिधा
निर्विकल्पगुणस्वार्थाः अस्मारादनिरूपणात् ।
मनोभौमी स्मृतिः पूर्वो द्वितीयो धीर्निरूपिका
मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0