भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप · श्लोक 161-180

161

विगतावणे ज्ञाने बुद्धोक्तेर्मुख्यकल्पना ।
तदाश्रये फले चापि विज्ञेया गुणकल्पना

162

शाश्वतत्वशुभत्वाभ्यां सर्वानर्थनिवृत्तितः ।
मुख्यकल्पनया तद्वद्धर्मो निर्वाणमुच्यते

163

आर्याः शिष्यगुणाः संघस्तथैव परमार्थतः ।
एतान्यो याति शरणं स याति शरणत्रयम्

164

मिथ्याचारः सतां गर्ह्यात्परत्राकरणाप्तितः ।
पापिष्ठत्वान्मृषावादो मद्यपानं स्मृतिक्षयातू

165

सर्वेभ्यो वर्तमानेभ्यो द्विविधेभ्यो ऽपि कामजः ।
त्रिकालेभ्यस्तु मौलेभ्यो लभ्येते भावनामयौ

166

सर्वेभ्यः सत्त्वजातिभ्यः संवरो वाङ्गकारणैः ।
सर्वेभ्यो संवराङ्गेभ्यः सत्त्वेभ्यश्च न कारणैः

167

क्रिययासंवरप्रप्तिः स हाभ्युपगमेन वा ।
अविज्ञप्तिरतो ऽन्यस्याः क्षेत्राङ्गादिविशेषतः

168

कामाप्तसंवरत्यागः शिक्षानिक्षेपणादिभिः ।
पतनीयरपीत्येके तन्नेत्यन्ये त्वयोगतः

169

अयोगो नांशुविध्वंसात्पटद्रव्यं विनश्यति ।
सूत्रे ध्वंसोक्तिरन्यार्था यथेर्ष्याशठनादिषु

170

सद्धर्मान्तर्द्धितो ऽन्ये ऽन्ये नापूर्वाप्रतिलम्भतः ।
भूसंचारेण हान्या च त्यज्यते ध्यानजं शुभम्

171

तथारूप्याप्तमार्यन्तु फलाप्त्यक्षविहानिभिः ।
असंवरो दमप्राप्तिर्जीवितोत्सर्जना दिभिः

172

चित्तवेगादिविच्छेदैरविज्ञप्तिस्तु मध्यमा ।
कामाप्तं कुशलं नाम त्रिभिर्मूलच्छिदादिभिः

173

प्रतिपक्षोदयात्क्लिष्टं त्रिधात्वाप्तं विहीयते ।
सर्वे कामेषु रूपे द्वावेको ऽरूपिषु लाभतः

174

यदिष्टफलदं कर्म कुशलं तदुदाहृतम् ।
विपर्ययेणाकुशलमव्याकृतमतो ऽन्यथा

175

कामाप्तं प्रथमं पुण्यमपुण्यमशुभात्मकम् ।
ऊर्ध्वभूमिकमानेज्यं विपाकं प्रत्यनेजनात्

176

सुखवेद्यं शुभं कर्म ध्यानादर्वाक्तुरीयकात् ।
उपेक्षावेद्यमन्यत्र दुःखवेद्यन्तु पापकम्

177

अधो ऽपि मध्यमं कर्म ध्यानेनान्त्येपि निर्वृतेः ।
युगपत्त्रिविपाकेष्टेर्ध्यानान्तरविपाकतः

178

पुनश्चतुर्विधं कर्म दृष्टवेद्यादिभेदतः ।
जन्मनस्त्रिभिराक्षेपो दृष्टधर्माह्वयादृते

179

चतुर्णामपि चाक्षेपः सर्वत्र नरकादृते ।
न तत्रेष्टफलाभावाच्छुभं यस्माद्विपच्यते

180

नोत्पद्यवेद्यकृत्तत्र यद्विरक्तः पृथग्जनः ।
स्थिरो नापरकृच्चार्यश्चलो ऽपि भवमूलयोः

मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc