भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप · श्लोक 181-200

181

यदार्त्ररौद्रचित्तेन कर्माभीक्ष्णं निषेव्यते ।
सत्क्षेत्रे क्रियते यच्च फलं तस्य नियम्यते

182

क्षेत्राशयविशेषाच्च फलं सद्यो विपच्यते ।
निरोधव्युत्थितादौ च सद्यः कालफलक्रिया

183

तद्भूम्यपुनरुत्पत्तेः विपाकनियतं च यत् ।
तच्च दृष्टफलं विद्यात् कर्मादः परिपूरकम्

184

कुशलस्याविचारस्य चैतसिक्येव वेदना ।
विपाकः कायिकी त्विष्टा दुःखवेद्यस्य कर्मणः

185

सपाकमशुभं कृष्णं सपाकं रूपजं सितम् ।
शुभाशुभं द्विधा कामे निर्मलं तत्प्रहाणकृत्

186

चसस्रो दृक्पथा दृष्टौ चेतनाभावनापथात् ।
आनन्तर्यपथाः कामे कर्मैतत्कृष्णनाशकृत्

187

नवमे चेतना या तु सा कृष्णाकृष्णयाघातिनी ।
अन्तानन्तर्यमार्गस्था ध्याने ध्याने सितस्य तु

188

कायाद्यकुशलं कर्म सर्वं दुश्चरितं मतम् ।
अभिध्यादीन्यपि त्रीणि मनोदुश्चरितत्रयम्

189

शुभं तत्सानभिध्यादि प्रोक्तं सुचरितत्रयम् ।
द्वयंमौलमदः कर्म मार्गा दश शुभाशुभाः

190

कारिताः षडविज्ञप्तिर्द्व्यात्मैकस्ते ऽपि षट् कृताः ।
शुभाः सप्त द्विधा ज्ञेया एकधैते समाहिताः

191

या सामन्तेष्वविज्ञप्तिः पृष्ठेषु तु विपर्ययः ।
प्रयोगस्तु त्रिमूलोत्थः अभिध्याद्यास्त्रिमूलजाः

192

कुशलाः प्रयोगपृष्ठाश्च कुशलत्रयमूलजाः ।
द्वेषेण वधपारुष्यव्यापत्तीनां समापनम्

193

स्तेयस्यान्याङ्गनायातेरभिध्यायाश्च लोभतः ।
मिथ्यादृशस्तु मोहेन तदन्येषां त्रिभिर्मतम्

194

चतुर्णामप्यधिष्ठानं ज्ञेयमेषां यथाक्रमम् ।
प्राणिनश्चाथ भोगाश्च नामरूपं च नाम च

195

प्राणातिपातो धीपूर्वमभ्रान्त्या परमारणम् ।
अत्यक्तान्यधनादानमदत्तादानमुच्यते

196

परस्त्रीगमनं काममिथ्याचारो विकल्पवान् ।
अर्थज्ञायान्यथावादो द्रोहबुद्ध्या मृषावचः

197

दृष्टया श्रुत्यादिभिश्चाक्षैर्मनसा यच्च गृह्यते ।
दृष्टं श्रुतं मतं ज्ञातमित्युक्तं तद्यथाक्रमम्

198

पैशुन्यं भेदकृद्वाक्यं पारुष्यं तु यदप्रियम् ।
क्लिष्टं संभिन्नलापित्वमन्ये गीतकथादिवत्

199

परस्वासत्स्पृहाभिध्या व्यापादः सत्त्वगोचरः ।
विद्वेषानानन्तदृष्टिस्तु मिथ्यादृष्टिरहेतुका

200

चेतना न क्रियामार्गस्तैस्तु सत्ता प्रवर्तते ।
युगपद्यावदष्टाभिरशुभैश्चेतनैः सह

मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc