अभिधर्मदीप · श्लोक 141-160
सति जन्मनि तद्भावाद् द्रव्यकारित्रनाशतः ।
आगमादुपपत्तेश्च विनाशो ऽपि सहेतुकः
वाक्छब्दाधीनजन्मानः स्वार्थप्रत्यायनक्रियाः ।
संज्ञाद्यपरनामानस्त्रयो नामादयः स्मृताः
अन्ये नामादयः शब्दादप्राप्तार्थप्रकाशनात् ।
अनित्यास्ते तु विज्ञेयाः सापेक्षार्थविभावनात्
स्वरूपं वेदयंश्च्छब्दो व्यञ्जनादीनि च ध्रुवम् ।
अर्थप्रत्यायकः प्राज्ञर्भक्तिकल्पनयोच्यते
परमाणुस्वभावत्वाद् घोषैकत्वं न युज्यते ।
तादात्म्यं प्रतिघातित्वात् तत्सिद्धिर्वरणादिभिः
स्फोटाख्यो नापरो घोषाच्छब्दो नित्यः प्रसिद्ध्यति ।
क्रमवृत्तेर्न शब्देन कश्चिदर्थो ऽभिधीयते
न श्रुत्या श्रूयते शब्दस्तदन्या च गतिः श्रुतेः ।
यो ब्रूयात्स स्वमात्मानं विद्वद्भिरपहासयेत्
प्रतिद्योत्यं यथायोगं नियतानियताश्च ते ।
नियतोद्भावनाद् बुद्धः सर्वज्ञ इति गम्यते
सत्त्वाख्याः कामरूपाप्ता निष्यन्दाव्याकृतास्तथा ।
तथैव च विपाकश्च साभाग्यं प्राप्तयो द्विधा
सत्त्वाख्योपद्रवाभावान्न चतुर्थे ऽस्ति सूत्रतः ।
विमानस्य समत्वस्य प्रध्वंसान्नित्यता कुतः
सप्त तेजोभिरेकाद्भिर्गते ऽद्भिः सप्तके पुनः ।
तेजसा सप्तकान्त्यैका वायुसंवर्तनी ततः
आग्नेयात्सप्तकादेकः पावनीकिमनन्तरम् ।
आयुष्परिग्रहादेवं शुभकृत्स्नायुरेधनम्
वातादिदोषसाधर्म्यात्सत्त्वानां तद्विनाशकाः ।
आध्यात्मिकेति सारूप्यान्न भूसंवर्तनी मता
सत्त्वोपपत्तिहेतूनां विपत्संपद्विधायिनाम् ।
लोकवचित्र्यकर्तृणां कर्म हेतुरितीष्यते
कायिकं वाङ्मयं चैव चेतनाख्यं च मानसम् ।
कर्माण्येतानि लोकस्य कारणं नेश्वरादयः
वैश्वरूप्यात्क्रमोत्पादात्तद्वदन्यत्प्रसङ्गतः ।
नान्यापेक्षा तपोयोगो पक्षहान्यादिदोषतः
कर्मणां बोध्यते शक्तिर्विधिकालग्रहादिभिः ।
यतो ऽतस्तेषु ताच्छब्द्यं गौण्या वृत्त्या प्रयुज्यते
पूर्वे विज्ञप्त्यविज्ञप्ती चेतना मानसी क्रिया
अन्नमत्यग्निनिर्दग्धं यथा स्थाली च संस्कृता ।
पापदृष्टेस्तथा शीलं शाठ्येर्ष्यादिक्षतात्मनः
संवृत्सद्दृष्ट्युपेतातो भिक्षुत्वं परमार्थतः ।
एकसम्पत्तु संवृत्या द्वयाभावे द्विधापि न
मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0