भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 81-100

81

तत्र स्पर्शाश्रयश्चक्षुरादीनि षडिन्द्रियाणि । प्रादुर्भावः स्त्रीपुरुषेन्द्रियाम्याम् । आधारो जीवितेन्द्रियेण । संभोगो वेदनाभिः पञ्चभिः । अतस्तावच्चतुर्दशोक्तानि । स्वर्गोपपत्तिनिमित्तानि श्रद्धादीनि पञ्च । अपवर्गकारणानि त्रीण्यनाज्ञातमाज्ञास्यामीन्द्रियादीनि अत एतावन्त्येव ॥
यद्याधिपत्यार्थ इन्द्रियार्थः कस्माच्छन्दस्पर्शमनस्कारसंज्ञाचेतनामहाभौमानां सत्याधिपत्ये नेन्द्रियत्वम् ? उक्तं हि भगवता- "छन्दमूलकाः सर्वधर्माः स्पर्शजातीयाः मनस्कारप्रभावाः ।" संज्ञाचेतनयोश्च संक्लेशव्यवदानयोराधिपत्यमुक्तमेव कुशलचेतनायाश्च । एवं क्लेशानामपि संसारहेतुप्रवर्तने आधिपत्यम् । निर्वाणस्य च धर्माग्र्यत्वे कस्मान्नेन्द्रियत्वम् ? तदिदमुच्यते-
छन्दं वीर्याङ्गभूतत्वात् स्पर्शो वित्त्यनुबृंहणात् ।
संज्ञा प्रज्ञाभिभूतत्वान्नेन्द्रियं मुनिरभ्यधात्

82

छन्दो हि कर्तुकामता सा च वीर्याङ्गभूता । वीर्यं तु साक्षात् क्रिययाभिसंबध्यते । तदेवेन्द्रियमुक्तम् । स्पर्शो ऽपि "स्पर्शप्रत्यया वेदना" इति तदुत्पत्तौ परिक्षीणशक्तिः । संज्ञापि प्रायो ऽपि (प्रायो) लोकव्यवहारपतिता । सा प्रज्ञया परमार्थैकरसयाभिभूतेति नेन्द्रियमुक्ता ॥
श्रद्धादीनां विदां चैव दोषः शुद्धौ मलोदये ।
प्रधानत्वान्मनस्कारो नेन्द्रियं समुदाहृतम्

83

योनिशो मनसिकारः खलु श्रद्धादीनां सङ्गीभवति । अयोनिशो मनसिकारो ऽपि वेदनादीनां रागादिसंप्रयुक्तानामिति सो ऽपि नेन्द्रियम् ॥
संभावनानुकूलत्वादधिमोक्षो ऽपि नेन्द्रियम् ।
अधिमोक्षो ऽपि श्रद्धोपकारीति नेन्द्रियम् ॥
कालान्तरफलोत्पादसंदेहाभ्यां न चेतना

84

चेतनायाः खल्वपि कालान्तरेण फलमिति तस्य नासति फले शक्तिराविर्भवति । लोकोपि तस्याः फलसत्त्वाविनाशं दृष्ट्वा विप्रतिपन्नः । कश्चिद् ब्रूते निर्हेतुकं फलमिति कश्चिदीश्वरकृतं कश्चिददृष्टादिहेतुकमिति । चेतनायाः फलमनभिव्यक्तमिति । ईशित्वं भगवता जानानेनाप्यतस्तस्यास्त्रैलोक्यकारणत्वे ऽपि सति चेतना नेन्द्रियेषु व्यवस्थापिता ॥
कुशलमहाभौमेभ्यो ऽपि
नाप्रमादो ऽप्यसौ वीर्यात्, न ह्रीः प्रागल्भनिग्रहात् ।
नोपेक्षा नापि चालोभो वीर्यश्रद्धाभिभूतितः

85

अप्रमादस्तावद्वीर्यस्य भाण्डागारिकस्थानीयः । वीर्यं कुशलान् धर्मानुपाजेयति सतान् रक्षति । ह्रीरपि वैशारद्यसपत्नभूता नववधूरिवाप्रगल्भा । तस्याः कुत आधिपत्यम् ? उपेक्षापि श्रद्धाभिभूता । अलोभश्व वीर्यविरोधीति नेन्द्रियम् ॥
न प्रस्रब्धिर्विदौत्कट्याद्विनिन्द्यत्वाच्च नास्रवाः ।
प्रस्रब्धिः खलु वेदनायाः वृत्तिप्राधान्येनाभिभूता । सापि नेन्द्रियम् । अकुशलानामपि धर्माणां विनिन्द्यत्वात्तु नास्रवाश्चण्डालराजवत् ॥
विप्रयुक्तानामपि
जात्यादयो न पारार्थ्यात्
परतन्त्रा हि जात्यादयो धर्माः परिचारकवत् तेषां कुतः प्रभुत्वम् ?
निष्क्रियत्वान्न निर्वृतिः

86

निर्वाणमपि निष्क्रियमसत्फलं सत्क्रियाश्च धर्माः फलवन्त आधिपत्ययुक्ता इति भगवता निर्वाणं नेन्द्रियं व्यवस्थापितमिति । नात्र किञ्चिदुपसंख्येयं नाप्यपनेयमिति ॥
लक्षणमिदानीमिन्द्रियाणां वक्तव्यम् । तत्र चक्षुरादीनामुक्तम् । जीवितश्रद्धादीनां संप्रयुक्तविप्रयुक्तेषूच्यमानेषु वक्ष्यते । दुःखादीनां त्वधुनोच्यते ।
कायस्य बाधनं दुःखं दौर्मनस्यं तु चेतसः ।
बाधनमिति वर्तते ॥
सुखं च सुमनस्ता च सातं शारीरमानसम्

87

सातमिति प्रह्लादनापर्यायः ।
वैशिष्ट्यान्मानसं सातं सुखं क्वचिदुदाहृतम्

88

तृतीये ध्याने मानसं सातं सुखमित्युदाहृतं भगवता पञ्चेन्द्रियसुखातिशयत्वात् । सौमनस्यं तु प्रीतिस्वभावं सा च तृतीयध्याने नास्तीति सुखं च तत्रोक्तमिति ।..........
......... भौमम् तदपदिश्यते-
षट्सु भूमिषु विज्ञेयं नीरजस्काद्यमिन्द्रियम् ।
अनाज्ञातमाज्ञास्यामीन्द्रियं षट्षु भूमिषु, चतुर्षु ध्यानेष्वनागम्ये ध्यानान्तरिकायां च ।
तदन्ये निर्मले त्वक्षे द्रष्टव्ये नवभूमिके

89

आज्ञेन्द्रियमाज्ञातावीन्द्रियं च नवसु भमिषु- आस्वेव षट्षु त्रिषु चाद्यास्वारूप्यभूमिषु ॥
अथ कानि द्वाविंशतिरिन्द्रियाणि कानि र्कि प्रहातव्यानि ? दुदाह्रियते-
दौर्मनस्यं द्विहातव्यं
दर्शनभावनाप्रहातव्यम् ।
मनोवित्तित्रयं त्रिधा ।
मनैन्द्रियं सुखसौमनस्योपेक्षाश्च दर्शनभावनाहेयाश्चाहेयाश्च ।
नवाभ्यासप्रहेयाणि
चक्षुरादीनि जीवितावसानान्यष्टौ दुःखेन्द्रियं च ।
द्विधा पञ्च
श्रद्धादीनि भावनाहेयान्यहेयानि च । सास्रवानास्रवात् ।
न तु त्रयम्

90

त्रीण्यनास्रवाण्यप्रहेयान्येव निर्दोंषत्वात् ॥
यदि तर्हि श्रद्धादीनि सास्रवानास्रवत्वात्प्रहेयानि चाप्रहेयानि च द्विधा भवन्ति, त्रयमेवानास्रवम् । इदं तर्हि सूत्रं कथं नीयते ? यदुक्तं भगवता- ( जैनि_54 ) "यस्येमानि पञ्चेन्द्रियाणि सर्वेण सर्वं न सन्ति तमहं बाह्यं पृथग्जनपक्षावस्थितं वदामि" इति ?
अनास्रवाधिकारादज्ञापकमेतत् । अनास्रवाणि खल्वधिकृत्यैतदुक्तम् । यस्मादार्यपुद्गलव्यवस्थानं कृत्वा "यस्येमानि" इति भगवानवोचत् । पृथग्जनो वा द्विविधः । आभ्यन्तरश्चासमुच्छिन्नकुशलमूलः, बाह्यश्च समुच्छिन्नकुशलमूलः । तमधिकृत्योक्तम्- "बाह्यं पृथग्जनपक्षावस्थितं वदामि" इति । "सर्वेण सर्वाणि" इति वचनाद्वा ऽयस्य लौकिकान्यपि न सन्तिऽ; इत्याकूतम् । बाह्यमित्यशाक्यपुत्रीयं पृथग्जनपक्षावस्थितमित्यार्यधर्मविपक्षावस्थितम् । अन्यथा ह्येवमवक्ष्यत्- ऽयस्येमानि पञ्चेन्द्रियाणि न सन्ति तमहं पृथग्जनपक्षावस्थितं वदामिऽ; इति । उक्तं हि- "सन्त्रसन्ति सत्त्वा लोके जाता लोके वृद्धास्तीक्ष्णेन्द्रिया अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपि" इत्यप्रवर्तित एव धर्मचक्रे । पुनश्चोक्तम्- "यावच्चाहमेषां पञ्चानामिन्द्रियाणां समुदयं चास्तङ्गमं चास्वादं चादीनवं च निःसरणं च यथाभूतं ( जैनि_55 ) नाप्यज्ञासिषं न तावदहमस्मात्सदेवकाल्लोकात्" इति विस्तरः । न चायमनास्रवाणां धर्माणां परीक्षाप्रकारः ।
वयं त्वत्रेममागमं ब्रूमः- "त्रीणीमानि श्राद्धस्य श्रद्धालिङ्गानि" इति विस्तरः । कथं कृत्वा ज्ञापकम् ? श्रद्धायां ह्यसत्यामार्याणां दर्शनकामता न भवेत् । सद्धर्मश्रोतुकामता च, विगतमात्सर्येण चेतसा अगारमध्यवस्तुकामता च । यस्य च पृथग्जनस्यैतानीन्द्रियाणि न सन्ति स सर्वथा बाह्यपृथग्जनो भवति कुशलधर्मोपनिषद्धेतुवैकल्यात् । तस्मात्सास्त्रवाणीति सिद्धम् ॥
उक्तः प्रकारभेदः । लाभ इदानीं वक्तव्यः । कतीन्द्रियाणि कस्मिन् धातौ विपाकः प्रथमतो लभ्यते ? तदिदमारभ्यते ।
पूर्वं क्रमोद्भवैः कामे विपाको लभ्यते द्वयम् ।
कामधातौ क्रमोद्भवैः - अण्डजजरायुजसंस्वेदजैः पूर्वं इन्द्रियद्वयं लभ्यते । कायेन्द्रियं जीवितेन्द्रियं च । एतद्धि द्वयं तस्मिन् शुक्रशोणितबिन्दौ प्रथमं विपाकजं भवति । क्लिष्टत्वात्तु न मनौपेक्षेन्द्रिये विपाकः ।
अन्यैः षट् सप्त वाष्टौ वा
औपपादुकैः पुनः षट् । चक्षुरादीनि पञ्च जीवितेन्द्रियं च । यद्यव्यञ्जना भवन्ति यथा प्राथमकल्पिकः । सप्त पुनर्यद्येकव्यञ्जना यथा देवादिषु । अष्टौ वा यद्युभयव्यञ्जना भवन्ति यथापायेषु । एवं तावत् कामधातौ ।
षड् रूपे
रूपधातौ पुनः षडिन्द्रियाणि विपाकः प्रथमतो लभ्यन्ते । चक्षुरादीनि पञ्च जीवितेन्द्रियं च ।
अन्त्ये तु जीवितम्

91

आरूप्ये जीवितेन्द्रियं विपाको लभ्यते । उक्तो लाभः ॥
त्यागो वक्तव्यः । सो ऽयमाविष्क्रियते-
म्रियमाणैर्निरोध्यन्ते त्रीण्यन्ते
जीवितम्, मनः, उपेक्षा चेति ।
अष्टौ तु मध्यमे ।
रूपधातौ म्रियमाणैरष्टौ निरुध्यन्ते । तानि च त्रीणि, चक्षुरादीनि च पञ्च ।
दशाष्टौ नव चत्वारि कामे पञ्च शुभानि वा

92

उभयव्यञ्जनैर्दश निरोध्यन्ते । तानि चाष्टौ स्त्रीपुरुषेन्द्रिये च । एकव्यञ्जनैर्नव । अव्यञ्जनैरष्टौ । सकृन्मरणे खल्वेष न्यायः । क्रमेण तु म्रियमाणैश्चत्वारि निरोध्यन्ते कायजीवितमनौपेक्षेन्द्रियाणि । न ह्येषां पृथङ्निरोधः । एप च विधिः क्लिष्टाव्याकृतचित्तस्य मरणे द्रष्टव्यः । कुशले तु चित्ते सर्वत्र श्रद्धादीनि पञ्चाधिकानि । एवमारूप्येष्वष्टौ, रूपेषु त्रयोदश । इत्येवं विस्तरेण गणयितव्यानि ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः ॥
द्वितीयाध्याये
द्वितीयपादः ।
इन्द्रियप्रस्तावे सर्व इन्द्रियधर्मा विचार्यन्त इत्यतः पृच्छति । अथैषां कुशलानामिन्द्रियाणां कतरेणेन्द्रियेण कतरच्छ्रामण्यफलं प्राप्यत इति ? तदिदं प्रस्तूयते-
आद्यन्तलाभो नवभिः सप्ताष्टाभिश्च मध्ययोः ।
या खल्वेषा चतुष्फलमयी माला तस्याः प्रथमं स्त्रोतआपत्तिफलमन्त्यमर्हत्त्वं मध्ये सकृदागाम्यनागामिफले । तत्राद्यान्तयोः फलयोर्नवभिरिन्द्रियैर्लाभः । स्त्रोतआपत्तिफलस्य तावत्- श्रद्धादिभिः पञ्चभिराज्ञास्यामीन्द्रियाज्ञेन्द्रियाभ्यामेकमनयोरानन्तर्यमार्गाद्, द्वितीयं विमुक्तिमार्गाद्वेदितव्यम् । प्रथमेन क्लेशप्राप्तिच्छेदो द्वितीयेन विसंयोगप्राप्त्याकर्षणम् । मनौपेक्षेन्द्रियाभ्यां चेति । अर्हत्त्वस्य पुनः श्रद्धादिभिराज्ञास्यामीन्द्रियवर्ज्जैः, मनैन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेन ।
ऽसप्ताष्टाभिश्च मध्ययोः ।ऽ; सकृदागाम्यनागामिफलयोः पुनः सप्तभिरष्टाभिर्नवभिश्चेति ऽचऽशब्दात् । तत्र सकृदागामिफलं तावद्यद्यानुपूर्विको लभते, स च लौकिकेन मार्गेण तस्य सप्तभिर्लाभः । पञ्चभिः ( जैनि_58 ) श्रद्धादिभिः, मनौपेक्षेन्द्रिभ्यां च । अथ लोकोत्तरेण मार्गेण तस्याष्टाभिः, आज्ञेन्द्रियमष्टमं भवति । अथ भूयोवीतरागः प्राप्नोति, तस्य नवभिर्यैरेव स्त्रोतआपत्तिफलस्य । अनागामिफलं यद्यानुपूर्वीकः प्राप्नोति, स च लौकिकेन मार्गेण, तस्य सप्तभिर्यथा सकृदागामिफलस्य ।
अथ लोकोत्तरेण, तस्याष्टाभिस्तथैव । अथ वीतरागः प्राप्नोति, तस्य नवभिर्यथा स्त्रोतआपत्तिफलस्य । तस्य तु निश्रयविशेषात् सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमद्भवति । यदाप्ययमानुपूर्विको नवमे विमुक्तिमार्गे ध्यानं प्रविशति लौकिकेन मार्गेण, तदाप्यष्टाभिरिन्द्रियैरनागामिफलं लभते । तस्य नवमे विमुक्तिमार्गे सौमनस्यमष्टमं भवति, आनन्तर्यमार्गे तूपेक्षेन्द्रियमेव । नित्यमुभाभ्यां हि तस्य प्राप्तिः । अथ लोकोत्तरेण प्रविशति, तस्य नवभिराज्ञेन्द्रियं नवमं भवति ॥
यत्तर्ह्यभिधर्मे पठ्यते- "अर्हत्फलस्यैकादशभिः" इति । तत्कथमुच्यते ऽनवभिस्तस्य प्राप्तिःऽ; इति ? नैव दोषः । यस्मात्-
एकादशभिराप्तिस्तु फलस्यान्त्यस्य हानितः

93

परिहाय परिहायायं समयविमुक्तो ऽर्हन्निश्रयविशेषात्पुनर्लभते । कदाचित् तृतीयं ध्यानं निश्रित्य । कदाचिद् द्वितीयं प्रथमं वा । कदाचिच्चतुर्थमनागम्यं वा । इत्यतस्तिसृणां वेदनानां संभवादेकादशभिरुक्तम् ॥
अथैषां त्रयाणां कामरूपारूप्यधातूनां कतरधातुभूम्यालम्बनेन मार्गेण कतरस्य धातोः परिज्ञानं भवतीति ? तदाविर्भाव्यते ।
स्वस्य धातोः परिज्ञानं स्वविपक्षदृशा पथा

94

स्वविपक्षदृशा च मार्गेणानास्रवेण परिज्ञानं भवति । तत्र स्वधातुदृशा तावद् दुःखसमुदयालम्बनेन, स्वविपक्षदृशा निरोधमार्गालम्बनेन त्रैधातुकपरिज्ञानं भवति । सास्रवेण त्वानन्तर्यमार्गेण संगृहीतेन सन्निकृष्टाधोभूमिविषयेणोर्ध्वसन्निकृष्टभूम्यालम्बनेन च विमुक्तिमार्गसंगृहीतेनाधोभूमिपरिज्ञानं भवति । आनन्तर्यमार्गाणामधोभूमिविषयत्वाद्विमुक्त्याख्यानामूर्ध्वभूम्यालम्बनत्वाच्च । अनास्रवाणां तूभयेषामेकभूमिगोचरत्वादिति ।
अथ कतिभीरिन्द्रियैः कामधातुपरिज्ञानं कतिभी रूपारूप्यधातुपरिज्ञानमिति ? तदिदं प्रतायते-
कामधातुपरिज्ञानं प्रायः सप्तभिरिष्यते ।
समलैर्निर्मलैस्त्वर्थैरष्टाभिरभिधीयते

95

कामधातोस्तावत्- सास्रवैः सप्तभिः परिज्ञानं भवति प्रहाणमित्यर्थः । पञ्चभिः श्रद्धादिभिः मनौपेक्षेन्द्रियाभ्यां च । प्रायो ग्रहणात्सौमनस्येन्द्रियेणापि कस्यचित्समापत्त्यभिप्रायस्य योगिनो मौलभूमिप्रवेशात् । अनास्रवैस्त्विन्द्रियैरष्टाभिः । एभिरेव सप्तभिराज्ञेद्रियेण च । प्रायो वचनात्सौमनस्येन्द्रियेण च नवमेन ॥
रूपधातुपरिज्ञानमिष्टं दशभिरिन्द्रियैः ।
पञ्चभिः श्रद्धादिभिः, मन इन्द्रियेण, तिसृभिर्वेदनाभिः, निश्रयविशेषादाज्ञेन्द्रियेण च ॥
अन्त्यधातुपरिज्ञानमेकादशभिरुच्यते

96

यथोक्तैर्दशभिराज्ञातवदिन्द्रियेण च । उभाभ्यां तस्य परिज्ञानमेकं वज्रोपमसमाधिसहचरम्, द्वितीयं क्षयज्ञानसहगतमिति ॥
इदमिदानीं वक्तव्यम्- कः कतिभिरिन्द्रियैः समन्वागत इति ? तत्र तावदयं नियमः-
सर्वसत्त्वास्त्रिधातुस्था उपेक्षायुर्मनो ऽन्विताः ।
एभिस्त्रिभिः सर्वसत्त्वाः समन्वागताः ।
त्वक्स्त्रीत्वव्यञ्जनैः कामे
कामावचराः सत्त्वाः कायपुरुषस्त्रीन्द्रियैरेभिः पूर्वाक्तश्च ।
रूपिणश्चक्षुरादिभिः

97

रूपिणः खलु सत्त्वाश्चक्षुरादिभिस्त्रिभिश्चोपेक्षायुर्मनोभिः ॥
कामिनः खलु दुःखेन तद्रागी दुर्मनस्तया ।
अवीतरागः कामधातौ दुःखदौर्मनस्याभ्यां समन्वागतः ।
ऊर्ध्वजस्तु सुखेनार्यः शुभाह्वाधरजौ तथा

98

ऊर्ध्वजो रूपारूप्यधातुज आर्यः सुखेन समन्वागतः । अनास्रवेण शुभकृत्स्नपरीत्तशुभाप्रमाणशुभाः क्लिष्टाक्लिष्टेन ॥
प्रीत्याभाह्वाधरोद्भूतौ
आभास्वरेषूपपन्नस्तदधरजश्च प्रीत्या समन्वागतः ।
शुभैः स शुभमूलकः ।
श्रद्धादिभिः पञ्चभिः कुशलैरनुच्छिन्नकुशलमूलः सर्वत्र समन्वागतः ।
शैक्षाभ्यां मोक्षमार्गस्थौ
द्वाभ्यां शैक्षाभ्यां इन्द्रियाभ्यां दर्शनभावनामार्गस्थौ ॥
अशैक्षो ऽर्हन् स्वमार्गगः

99

अथ नियमेन कः कतिभिरिन्द्रियैः समन्वागत इति ? तदिदमुपदर्श्यते-
उपेक्षायुर्मनोयुक्तो ऽवश्यं त्रयसमन्वितः ।
एभिरेव त्रिभिः । न ह्येषामन्योन्येन विना समन्वागतः । शेषैरनियमः ।
तत्र तावच्चक्षुरादिभिः सप्तभिरारूप्योपपन्नो न समन्वागतः । कामधातौ च येनाप्रतिलब्धविहीनानि । सुखेन्द्रियेण चतुर्थध्यानाद्युपपन्नाः पृथग्जनाः, सौमनस्येन तृतीयाद्युपपन्नाः पृथग्जनाः, सुखेन्द्रियेण रूपारूप्योपपन्नाः, दौर्मनस्येन कामवीतरागः, श्रद्धादिभिर्निःशुभः, अनास्रवएस्त्रिभिः पृथग्जना न समन्वागताः ।
चतुर्भिः कायसुखवान्
यः कायेन्द्रियेण सो ऽवश्यं चतुर्भिस्तैश्च त्रिभिः कायेन्द्रियेण च । यो ऽपि सुखन्द्रियेण स चतुर्भिः- तैश्च त्रिभिरुपेक्षादिभिः सुखेन्द्रियेण च ।
चक्षुष्मानपि पञ्चभिः

100

ऽअपिऽशब्दाच्छोत्रघ्राणजिह्वेन्द्रियैर्वेदितव्यम् । यश्चक्षुरिन्द्रियेण सो ऽवश्यं पञ्चभिः- उपेक्षाजीवितमनोरूपेन्द्रियैश्चक्षुषा च ॥
स्त्रीन्द्रियाद्यन्वितो ऽष्टाभिः
तैश्च सप्तभिः स्त्रींन्द्रियेण च । आदिग्रहणात् पुरुषेन्द्रियदौर्मनस्यश्रद्धादीनां ग्रहणं वेदितव्यम् । तद्वानपि प्रत्येकमष्टाभिः- तैश्च सप्तभिः पुरुषेन्द्रियेण चाष्टमेन । एभिश्च कायजीवितमनोभिश्चतसृभिर्वेदनाभिः, दौर्मनस्येन्द्रियेण च । श्रद्धा दिभिस्तैश्च पञ्चभिरुपेक्षाजीवितमनोभिश्च ।
दुःखी युक्तस्तु सप्तभिः ।
यो दुःखेन स सप्तभिः- कायजीतिमनोभिश्चतसृभिर्वेदनेन्द्रियैर्दौर्मनस्यं हित्वा, तद्वीतरागस्य नास्तीति ।
एकादशभिरन्त्याभ्यां
द्वाभ्यामन्त्याभ्यां युक्तो ऽवश्यमेकादशभिः, प्रत्येकं सुखसौमनस्योपेक्षाजीवितमनःश्रद्धादिभिराज्ञेन्द्रियेण च । एवमाज्ञातवदिन्द्रियेण तेन तैश्चेति ।
सप्त षड्भिस्तदाद्यवान्

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc