भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 101-120

101

प्रथमेन त्वनास्रवेण यः समन्वागतः सो ऽवश्यं त्रयोदशभिर्मनोजीवितकायेन्द्रियैश्चतसृभिर्वेदनाभिः श्रद्धादिभिस्तेन चेति ॥
अथ सर्वबहुभिः कियद्भिः समन्वागताः ? तदुच्यते-
त्रिद्वीपनरकोत्पन्ना मिथ्यात्वनियता अपि ।
बहुभिः ह्येकान्नविंशत्या स्वल्पैरष्टाभिरन्विताः

102

अन्तराभविकप्रेततिर्यक्श्रद्धानुसारिणः ।
त्र्यधिकैर्दशभिर्युक्ता दशभिर्वा नवाधिकैः

103

स्वल्पैस्त्रयोदशभी रूपभिः पञ्चभिः श्रद्धादिभिश्च जीवितमनौपेक्षाभिश्च । नारकस्य तूच्छिन्नशुभबीजस्य चक्षुरादीनि पञ्चैकं व्यञ्जनं वेदनाश्च पञ्च जीवितं मनश्च । तिरश्चां नास्त्युच्छेदः । य इहोच्छिनत्ति सो ऽवश्यमवीचिं गच्छति । तेन नत्र नरके श्रद्धाद्या न सन्ति । पञ्च चक्षुरादीनि पञ्च च वेदा, एकं व्यञ्जनं जीवितं मनश्चेति त्रयोदश भवन्ति । स्युर्बहुभिश्चान्तराभविकाद्याः पृथग्जनास्त्रीण्यमलानि हित्वैकान्नविंशतिभिः, आर्यास्तु श्रद्धानुसारिणो द्वे अमले हित्वैकं च व्यञ्जनमित्येकान्नविंशतिभिरेव समन्वागताः ॥
सम्यक्त्वनियता ये तु ये च श्रद्धाधिमुक्तिकाः ।
त एकादशभिर्युक्ता दशभिर्वा नवाधिकैः

104

तत्र सम्यक्त्वनियता आर्या इत्यर्थः । ते पञ्चभिः श्रद्धादिभिर्मनोजीविताभ्यां च तिसृभिर्वेदनाभिरेकेन चानास्रवेण । सर्वप्रभूतैः पुनरेकान्नविंशतिभिरेकलिङ्गद्व्यमलवर्जितैः ॥
प्रज्ञाविमुक्तनामार्हत् कायसाक्ष्युभयाह्वयाः ।
अक्षैकादशकोपेता यदि वाष्टादशान्विताः

105

सर्वाल्पैरेकादशभिः श्रद्धादिभिः सुखसौमनस्योपेक्षाजीवितमनोभिरेकेन चानास्रवेण । बहुभिस्त्वष्टादशभिः, द्वे अनास्रवे दौर्मनस्यमेकं च व्यञ्जनं हित्वा ॥
कामदेवा मृताः स्वल्पैर्दशभिः सप्तकाधिकैः ।
अनास्रवत्रयं हित्वा दौर्मनस्यं च । तत्रत्यः पृथग्जनो यदि वैराग्यं गच्छति स देवर्षिर्भवति । एकं च व्यञ्जनं हित्वा परिशिष्टैः सप्तदशभिः समन्वागतः ।
त एवैकोनविंशत्या युक्ता बहुभिरिन्द्रियैः

106

द्वे अनास्रवे हित्वैकं च व्यञ्जनम् । अत्रापि हि सत्यानि दृश्यन्ते ॥
द्विर्ध्यान जास्तु सर्वाल्पैर्दशभिः पञ्चकाधिकैः ।
प्रथमद्वितीयध्यानोपपन्नानां पृथग्जनानां दुःखदौर्मनस्ये हित्वा द्वे च व्यञ्जने त्रीणि चामलानि, पञ्चदशभिः समन्वागमः ।
दशभिः सचतुष्कैस्तु शुभकृत्स्नाः समन्विताः

107

शुभकृत्स्नेषु पृथग्जनस्य सौमनस्यं च हित्वा चतुर्दशभिः समन्वागमः ।
बृहत्फला हि अत्यल्पैस्त्रयोदशभिरन्विताः ।
बृहत्फलेषु पृथग्जनस्य सुखं च हित्वा दुःखादीनि पूर्वोक्तानि त्रयोदश भवन्ति ।
युक्ताः षोडशभिस्त्वेते सर्वभूरिभिन्द्रियैः

108

यद्यार्या भवन्ति तेषां सुखसौमनस्याभ्यामनास्रवाभ्यां समन्वागम इति षोडश भवन्ति ॥
अष्टाभिर्दशभिः सैकैरारूप्याः स्वल्पभूरिभिः ।
स्वल्पैरष्टाभिः । पृथग्जनस्याष्टाः स्वल्पानि भवन्ति । पञ्च श्रद्धादीनि, जीवितं मनौपेक्षा च । बहुभिरेकादशभिरार्यस्य समन्वागमः । पञ्चभिः श्रद्धादिभिः, द्वाभ्यां सुखसौमनस्याभ्यामनास्रवाभ्याम्, जीवितमनौपेक्षेन्द्रियैश्चतुर्भिरनास्रवेण चैकेन ।
सदेवकौरवाः सत्त्वास्त्रयोदशभिरन्विताः

109

पञ्चभिः श्रद्धादिभिः पञ्चभिः सुखादिभिः, कायमनोजीवितैश्च त्रिभिः ॥
अष्टाभिर्निःशुभो युक्तो दशभिर्वा त्रयाधिकैः ।
उच्छिन्नशुभमूलो निःशुभः सर्वाल्पैरष्टाभिः समन्वागतः । सुखादिभिः पञ्चभिः कायजीवितमनोभिश्च । सर्वप्रभूतैस्तु त्रयोदशभिर्यथोक्तैरष्टाभिश्चक्षुरादिभिश्चतुर्भिरेकेन च व्यञ्जनेन ।
द्विलिङ्गाः पश्चिमैः स्वल्पैर्विशत्याप्येकया परम्

110

उभयव्यञ्जनस्त्रयोदशभिः स्वल्पैः सुखादिभिः कायजीवितमनोभिः श्रद्धादिभिश्च पञ्चभिः । चक्षुरादीनामलब्धविहीनत्वादनियमः । सर्वबहुभिस्त्वेकोनविंशतिभिस्त्रीण्यमलान्यपास्य । समाप्तो ऽयं मत्स्यकग्रन्थसमुद्रः ।
व्याख्यात इन्द्रियाणां धातुगतिप्रभेदप्रदर्शनागतानां विस्तरेण प्रभेदः । अधुना तु मोमांस्यते । किमेते संस्कृता धर्मा यथा भिन्नस्वभावाः, एवं भिन्नोत्पादा अथ नियतसहोत्पादा अपि केचिद्विद्यन्त इति ? विद्यन्त इत्याह ।
तत्र संक्षेपेण पञ्चेमा धर्मजातयः- रूपं चित्तं चैतसिकाश्चित्तविप्रयुक्ता असंस्कृतं च ।
तत्रासंस्कृतं नोदेति न च व्येति ।
रूपिणां तु धर्माणामयं नियमः-
सप्तद्रव्याविनिर्भागी परमाणुर्बहिर्गतः ।
कामेष्वेकाधिकः काये द्व्यधिकश्चक्षुरादिषु

111

सर्वसूक्ष्मः खलु रूपसंस्कारोपादानसंचयभेदपर्यन्तः परमाणुरिति प्रज्ञाप्यते । स तु सप्तद्रव्याविनिर्भागी चतुर्भिर्भूतैस्त्रिभिश्चोपादायरूपैस्त्रिभिस्त्रिभिर्वा भूतैश्चतुर्भिश्चोपादायरूपैरविनिर्भागवर्त्यसावष्टम इति ।
कोशकारस्त्वाह- "सर्वसूक्ष्मो रूपसंघातः परमाणुः" इति । तेन संघातव्यतिरिक्तं रूपमन्यद्वक्तव्यम् । यदि नास्ति संघातो ऽपि नास्ति । अतः सिद्धं ऽसर्वसूक्ष्मं रूपपरमाणुःऽ; इति ॥
कायेद्रियसहगस्त्वष्टाभिश्चक्षुरादिसहितो नवभिः ॥
एवं रूपे ऽपि विज्ञेयो हित्वा गन्धरसद्वयम् ।
रूपधातौ बहिर्गतः पञ्चद्रव्याविनिर्भागी गन्धरसौ हित्वा । कायसहगतस्तु षड्भिश्चक्षुरादिषु सप्तभिरविनिर्भागिभिः । यदा पुनस्सशब्दकः स संधातो जायते, तदा सर्वत्र यथोक्तेषु शब्दो ऽधिको गणयितव्यः ।
अत्र पुनर्महाभूतानि सर्वोपादायरूपाश्रयभावप्राधान्याच्चतस्रो द्रव्यजातयो विवक्ष्यन्ते । उपादायरूपधातुचतुष्टयं तु घटादिद्रव्यप्रज्ञप्तिनिमित्तत्वादायतनगणनया गण्यत इति विवक्षितापरिज्ञानान्नास्ति चोद्यावकाशः ॥
अरूपिणां पुनः
चित्तं चैतसिकैः सार्धं
अविनिर्भागेण जायत इति वर्तते ।
संस्कृतं तु स्वलक्षणैः

112

सर्व हि संस्कृतं स्वलक्षणैः सह जात्यादिभिरुत्पद्यत इति वेदितव्यम् ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्यअध्यायस्य द्वितीयः पादः ॥
द्वितीयाध्याये
तृतीयपादः ।
यदुक्तं चैतसिकास्तु सहोत्पद्यन्त इति तदभिधीयताम् । के पुनस्ते चैतसिका धर्माः ?
ते पञ्चप्रभेदाः- महाभौमाः, कुशलमहाभौमाः, क्लेशमहाभौमाः, अकुशलमहाभौमाः, परीत्तक्लेशमहाभौमिकाश्च । महती चित्तभूमिरेषामिति त इमे महाभौमाः । भूमिर्गतिरित्यर्थः । एव सर्वत्र विग्रहः कार्यः ।
तत्र तावन्महाभौमा निर्दिश्यन्ते ।
दशधर्मा महाभौमा वित्संज्ञाचेतनास्मृतिः ।
छन्दः स्पर्शो ऽधिमोक्षश्च धीः समाधिर्मनस्कृतिः

113

एते दशधर्माः सर्वस्यां चित्तभूमौ त्रैधातुक्यामनास्रवायां च समग्रा भवन्ति ।
तत्र वेदना सुखादिस्त्रिविधो ऽनुभवः । त्रिविधं संवेदितमिति पर्यायः । इष्टानिष्टोभयविपरीतविषयेन्द्रियविज्ञानसन्निपातजा धर्मयोनिः कायचित्तावस्था विशेषः प्रह्लाद्युपतापी तदुभयविपरीतश्च तृष्णाहेतुर्वेदनेत्युच्यते ।
निमित्तनामार्थैक्यज्ञा संज्ञा वितर्कयोनिः ।
चित्ताभिसंस्कारश्चेतना ।
चित्तव्यापाररूपा स्मृतिः । चित्तस्यार्थाभिलपना कृतकर्तव्यक्रियमाणकर्मान्ताविप्रमोषलक्षणा ।
छन्दः कर्तुकामता वीर्याङ्गभूतः ।
विषयेन्द्रियविज्ञानसन्निपातजा चित्तस्य विषयस्पृष्टिः, चैतसिकधर्मो जीवनलक्षणः स्पर्शः ।
चित्तस्य विषये ऽधिमुक्तिरधिमोक्षो रुचिद्वितीयनामा चित्तस्य विषयाप्रतिसंकोचलक्षणः ।
धीः प्रज्ञा धर्मसंग्रहाद्युपलक्षणस्वभावा ।
चित्तस्यैकाग्रता समाधिश्चित्तस्थितिलक्षणः ।
चित्तस्याभोगो मनस्कारः पूर्वानुभूतादिसमन्वाहारस्वरूपः ।
सूक्ष्मः खलु चित्तचैत्तानां विशेषो दुरवधारो रूपिणीनामेव तावदोषधीनां बहुरसानामिन्द्रियग्राह्यो ऽपि रसविशेषो दुरवधारः, किमङ्ग पुनरमूर्तानां ( जैनि_71 ) चित्तचैतसिकानां धर्माणामेककलापवर्तिनां बुद्धिगम्यः ? स तु हेतुफलस्वभावैर्मतिमद्भिरभ्यूह्य इति ॥
कुशलमहाभौमे भवाः कुशलमहाभौमाः । ते पुनः
श्रद्धापेक्षाप्रमादश्च प्रस्रब्धिर्ह्रीरपत्रपा ।
मूलवीर्यमहिंसा च शुभभूका दशस्मृताः

114

तत्र श्रद्धा चेतसः प्रसादो गुणिगुणार्थित्वाभिसंप्रत्ययाकारः, चित्तकालुष्यापनायी । तद्यथोदकप्रसादको मणिः सरसि प्रक्षिप्तः सर्वं कालुष्यमपनीयाच्छतामुत्पादयति तद्वच्चित्तसरसि जातः श्रद्धामणिरिति ।
अप्रमादः कुशलधर्मभावना तदवहिततेत्यर्थः ।
प्रस्रब्धिश्चित्तकर्मण्यता । कायप्रस्रब्धिरप्यस्ति । सा तु तदानुकूल्याद्बोध्यङ्गशब्दं लभते । तद्यथा प्रीतिः । प्रीतिस्थानीयाश्च धर्माः प्रीतिबोध्यङ्गमुक्तं भगवता । सम्यग्दृष्टिसंकल्पव्यायामाश्च प्रज्ञानुकूल्यात् प्रज्ञास्कन्ध इत्युक्ताः । तद्वत्कायकर्मण्यता चित्तकर्मण्यता बोध्यङ्गावाहकत्वात्तच्छब्देनोक्ता ।
उपेक्षा चित्तसमता चित्तानाभोगः संस्कारानिमित्ताभोगमध्युपेक्षानिमित्तप्रवणता ।
ह्रीः स्वात्मापेक्षा । अकार्यकरणे लज्जा ।
अपत्राप्यन्तु परापेक्षा ।
द्वे तु कुशलमूले अलोभाद्वेषौ । अमोहस्तु प्रज्ञास्वभावत्वान्महाभौमेषूक्त इति न गण्यते ।
वीर्वं कुशलाकुशलधर्मोत्पादनिरोधाभ्युत्साहः, संसारनिमग्नस्य चेतसो ऽभ्युन्नतिरित्यर्थः ।
अविहिंसा सत्त्वाविहेठना ।
उक्ताः कुशलमहाभौमाः ॥
स्त्यानं प्रमत्तिराश्रद्ध्यमालस्यं मूढिरुद्धतिः ।
क्लिष्टे षट्
तत्र
स्त्यानं कायचित्ताकर्मण्यता ।
प्रमादः कुशलानां धर्माणामभावना । भावनाविपक्षभूतो धर्मः ।
आश्रद्ध्यं चित्ताप्रसादः, चित्तकालुष्यमित्यर्थः । गुणेषु गुणवत्सु चासंप्रत्ययो ऽनर्थित्वं च ।
कौसीद्यं चित्तस्यानभ्युत्साहः ।
मूढिरविद्यानुकारासंप्रख्यानरूपा ।
औद्धत्यं चित्तस्याव्युपशमः ।
उक्ताः षट् क्लेशमहाभौमाः ।
अभिधर्मे तु दश पठ्यन्ते- "आश्रद्धय्म्, कौसीद्यम्, मुषितस्मृतिता, चेतसो विक्षेपः, अविद्या, असंप्रजन्यम्, अयोनिशो मनसिकारः, मिथ्याधिमोक्षः, औद्धत्यम्, प्रमादश्च" इति ।
तत्र मुषितस्मृतिविक्षेपासंप्रजन्यायोनिशोमनसिकारमिथ्याधिमोक्षाः पञ्चमहाभौमेषु पठिताः । क्लिष्टाक्लिष्टानामुभयेषां स्मृत्यादिस्वाभाव्यादितीह न पृथग्गण्यन्ते । तस्मात् षडेव क्लेशमहाभौमाः ।
अशुभे तु द्वे आह्रीक्यमनपत्रपा

115

अकुशले तु चेतसि आह्रीक्यमनपत्राप्यं च द्वौ धर्मावकुशलमहाभौमिकौ भवतः । तत्राह्रीक्यं ह्रीविपक्षभूतो धर्मः । अनपत्राप्यमपत्राप्यस्येति । अकार्यं कुर्वाणस्यालज्जा स्वात्मनो ऽह्रीः । परेभ्यो ऽलज्जा अनपत्राप्यमित्यपरे ।
परीत्तक्लेशमहाभौमा निर्दिश्यन्ते ।
मायाशाठ्यमदक्रोधविहिंसेर्ष्याप्रदष्टयः ।
सूक्ष्मोपनाहमात्सर्याण्यल्पक्लेशभुवो दश

116

एते हि क्लेशा भावनाहेयेनाविद्यामात्रेण मनोभूमिकेनैव संप्रयुज्यन्ते ।
एषां तु लक्षणमुपक्लेशचिन्तायां पञ्चमे ऽध्याये ऽभिधायिष्यते ॥
कथं पुनरिदं विज्ञायते चित्तादर्थान्तरभूताश्चैतसिकाः ? चित्तमेव हि तद्वेदनादिनामभिर्व्यपदिश्यत इत्येवं चेष्यमाने बुद्धसूत्रमनुलोमितं भवति । यदुक्तं भगवता- "षड्धातुरयं भिक्षवः पुरुषपुद्गलः" इत्यत्र विज्ञानधातुरेवोक्तः । तस्मान्नार्थान्तरभूताश्चैतसिका इति भदन्तबुद्धदेवः । तं प्रतीदमभिधीयते-
पृथिव्यादि यथा द्रव्यं नीलादिगुणयोगतः ।
तैस्तैर्विशेष्यते शब्दैश्चैत्तयोगान्मनस्तथा

117

यथा हि पृथिवीधातुरब्धातुर्वा रूपरसगन्धाद्युपादायरूपैर्विशेष्यते । नीला ग्रावाणः, नीलमुदकं मधुरा द्राक्षा मधुराः खर्जूरा मधुरतरो गुड इत्येवं सुखितं चित्तं दुःखितं चित्तं समाहितं चित्तं सोत्साहं कुसीदं मूढं रक्तं द्विष्टमित्येवमादिभिः शब्दैश्चैतसिकैर्धर्मैर्योगाद्विशेष्यते । साध्यसमत्वादयुक्तमिति चेत् । न । उक्तोत्तरत्वात् । विहितमत्र- भूतभौतिकान्यत्वचिन्तायामुत्तरमिति । तस्माद्विशेषप्रत्ययानामनाकस्मिकत्वात्सिद्धमन्यत्वं चैतासिकानामिति ।
इतश्च चित्तचैतसिकान्यत्वम्-
भूतभौतिकनानात्वं स्वरूपेहाकृतं यथा ।
तथैव चित्तचैत्तानां पृथक्त्वमुपधार्यताम्

118

यथा खलु भूतानां भौतिकस्य च रूपस्य स्वभावभेदात्, क्रियाभेदाच्चान्यत्वम्; तथा चित्तस्य चैत्तानां च स्वभावक्रियाभेदादन्यत्वं द्रष्टव्यम् ॥
यथा संबन्धिसंबन्धाद्विकारो ऽम्भसि लक्ष्यते ।
तथा संसर्गिसंसर्गाच्चेतोविकृतिरीक्ष्यताम्

119

यथा खलु वह्निहरीतकीगुडलवणादिद्रव्यसंबन्धाद्विकारो ऽम्बुनि दृश्यते, उष्णमम्ब्लं कषायं मधुरं लवणमिति । तद्वच्चैतसिकसंबन्धाच्चित्तमपि सुखितं दुःखितं प्रसन्नमभ्युन्नतं सालोकं सान्धकारमिति ।
सूत्रे ऽपि चान्यत्वमुक्तम्- "संज्ञा च वेदना च चैतसिक एष धर्मः" इति ॥
इदमिदानीं वक्तव्यम् । युगपदुत्पन्नानां चित्तचैतसिकानां धर्माणां कथं चैतसिका धर्मा इत्युच्यन्ते ? को वा धर्मार्थः? तदपदिश्यते-
गुणो विशेषणं धर्मो मात्रावृत्तिस्तथाश्रयी ।
इत्येवमादयः शब्दाः प्रधानापेक्षवृत्तयः

120

प्रधानं हि द्रव्यं विशेष्यभूतमपेक्ष्य गुणधर्मविशेषेण मात्रावृत्तयः शब्दाः प्रवर्तन्ते । कि पुनरत्र प्रधानम् ?
चित्तं प्रधानमेतेषां
कुत इति चेत् ।
वस्तुमात्रग्रहादिभिः ।
वस्तूपलब्धिमात्रं हि चित्तं तेनोपलब्धे वस्तुनि संज्ञास्मरणे लक्षणानुस्मरणाभिनिरूपणादयो विशेषाः संज्ञाप्रज्ञास्मृत्यादिभिर्गृह्यन्ते । ऽआदिऽग्रहणादत्रात्माभिनिवेशाद्राजस्थानीयत्वाच्च । किञ्च,
बीजं चैतत्प्रवृत्तीनां शुद्धिसंकरयोरपि

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc