भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 61-80

61

धर्मधातुः खलु कश्चित्कामावचर एव यथा प्रतिघादयः । कश्चित्कामे प्रथमध्यानयोर्यथा वितर्कविचारादयः । कश्चित्कामे प्रथमद्वितीयध्यानयोर्यथा प्रीतिः । कश्चित्कामे तृतीयध्यानयोर्यथा सुखेन्द्रियम् । कश्चित्त्रैधातुको यथा जीवितेन्द्रियादयः । अत उच्यते ऽयथायोगं विनिर्दि शेत् । एवमन्यानपि धातूननेनैव यथोक्तेन न्यायेन ऽयथायोगं विनिर्दिशेत्ऽ; इति ॥
इदमिदानीमन्यद्वक्तव्यम् । यदा पृथग्जनश्चक्षुर्धातुं रूपाप्तं परिजानाति तदा कतमाद्धातोर्वैराग्यमाप्नोति ? कति च कुत्रत्याननुशयान् जहाति ? कानि च संयोजनानि पर्यादाय जहाति ? तदाविष्क्रियते-
चक्षुर्धातुं हि रूपाप्तं परिजानन् पृथग्जनः ।
कृत्स्नाद्रूपमयाद्धातोर्वैराग्यमधिगच्छति

62

तस्मादनुशयान्धातोरेकत्रिंशज्जहाति च ।
पर्यादत्ते न किञ्चित्तु संयोजनमसौ तदा

63

अनुशयानां हि धातुपरिच्छेदो न संयोजनानाम् ।
रूपवैराग्यमाप्नोति जहात्यनुशयत्रयम् ।
सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्साख्यं रूपधातुपर्यापन्नम् ।
तदा संयोजनं त्वार्यः पर्यादत्ते न किञ्चन

64

अनुशयत्रयं कतरदार्यो जहाति भवरागमानाविद्याख्यम् ? भावनाप्रहातव्यं संयोजनं तु न धातुपरिच्छिन्नमिति न किञ्चित्तदा जहाति ॥
चक्षुर्विज्ञानधातुं तु परिजानंस्तमेव च ।
परिजानात्यवश्यं च ब्रह्मलोकाद्विरज्यते

65

न तु संयोजनं किञ्चित्पर्यादत्ते तदा ह्यसौ ।
गन्धधातुं रसाख्यं च परिजानन् पृथग्जनः

66

कामवैराग्यमाप्नोति ध्रुवं ह्यनुशयानपि ।
तदा जहाति षट्त्रिंशद्वर्तिसंयोजनत्रयम्

67

कामावचराच्छट्त्रिंशदनुशयाञ्जहाति । त्रीणि च संयोजनानि प्रतिघसंयोजनमीर्ष्यामात्सर्यसंयोजने च । गन्धरसधातूपरिजानन् पृथग्जनः ॥
आर्यस्तु कामवैराग्यं करोत्यनुशयानपि ।
चतुरः परिजानाति
प्रतिघकामरागमानाविद्याख्यान् भावनाहेयान् ॥
पर्यादत्ते ऽपि च त्रयम्

68

प्रतिघेर्ष्यामात्सर्यसंयोजनाख्यम् ॥
परिजानन्मनोधातुमारूप्येभ्यो विरज्यते ।
आर्य इति वर्तते ।
जहात्यनुशयांस्त्रींश्च
रागमानाविद्याख्यान् ।
पर्यादत्ते त्रयं तथा

69

एतदेव ॥
परिजानन्खलु प्रीर्ति तामेव प्रजहात्यसौ ।
आभास्वराच्च वैराग्यं याति हन्ति तु नास्रवान्

70

तस्यास्तदुपर्यभावात् ।
परिजानन्सुखं योगी प्रजहाति तदेह च ।
शुभकृत्स्नाच्च वैराग्यं याति क्लेशान्न हन्ति तु

71

सुखेन्द्रियस्य ततीयाध्यानादुपर्यभावादकृत्स्नधातून्न क्लेशाञ्जहाति ॥
गमतेतत्प्रयोजनागतं प्रकरणम् । प्रकृतमेवोच्यताम् । अथैषां धातूनां के कति विज्ञानविज्ञेयाः ? तदारभ्यते-
द्विविज्ञेयाः गुणाः पञ्च
पञ्चरूपादिगुणाख्या धातवश्चक्षुरादिविज्ञानमनोविज्ञानविज्ञेयाः । शेषा मनोविज्ञानविज्ञेयाः ॥
कति हेतुः कति न हेतुः ? तदाख्यायते-
हेतुः सर्वे क्षराक्षराः ।
सर्वधर्मा हि कारणहेतुस्वभावाः । क्षरास्तु यथायोगं चिन्त्याः ॥
कतीन्द्रियात्मकाः ? कति नेन्द्रियस्वभावाः ? तदाविष्क्रियते-
अन्यत्र धर्मधात्वर्धाच्छड्बाह्या नेन्द्रियात्मकाः

72

अर्थादायातमाध्यात्मिकाः सर्वे धातवः । बाह्याः पञ्चरूपशब्दगन्धरसस्पर्शधर्मधातोश्चार्धं नेन्द्रियस्वभावं जीवितेन्द्रियश्रद्धादिसुखादिपञ्चकवर्जमिति ।
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ प्रथमो ऽध्यायः ।
द्वितीयो ऽध्यायः
प्रथमः पादः ।
द्वाविंशतिप्रकारस्य कृत्स्नस्येन्द्रियपर्वणः ।
संक्षेपेणाभिधास्यन्ते धर्मा निर्वचनादयः

73

चक्षुरादीन्याज्ञातावीन्द्रियपर्यन्तानि खल्विन्द्रियाणि एतावानिन्द्रियग्रामो न भूयान्नाल्पीयान् ।
उक्तं हि भगवता- "द्वाविंशतिरिन्द्रियाणि कतमानि द्वाविंशतिः ? चक्षुरिन्द्रियं श्रोत्रेन्द्रियं यावदाज्ञातावीन्द्रियम्" इति ।
तस्येन्द्रियराशेर्निर्वचनानुक्रमधातुभूम्यादिप्रकारभेदाः संक्षेपेणाभिधायिष्यन्त इति ॥
किं पुनर्द्रव्यतो द्वाविंशतिरिन्द्रियाण्यथ नामतः ? तदिदमाख्यायते-
नाम्ना द्वाविंशतिस्तानि द्रव्यतो दश सप्त च ।
यस्मान्नान्यद्द्वयं कार्यात्सुखादिनवकत्रयम्

74

कायेन्द्रियप्रदेश एव हि कश्चित्स्त्रीपुरुषेन्द्रियाख्यं लभते, विशिष्टक्लिष्टविज्ञानसंन्निश्रयभूतत्वात् । श्रद्धादीनां च नवानां समुदायेषु त्रिष्वनाज्ञातमाज्ञास्यामीन्द्रियादित्रयाख्याः ॥
अन्ये पुनः पश्यन्ति-
नामसल्लक्षणाभावात्तन्नाम्नः सार्थकत्वतः ।
त्रयाणां वर्गवृत्तित्वे ऽप्यर्थमभ्येष्यते परैः

75

यत्खलु संवृतिसत्यस्य लक्षणं तत्तेषां नास्ति क्रियापौरुष्यद्वारेण तच्छब्दप्रवृत्तेः, लौकिकाग्रधर्मवत् । सार्थकत्वात्तन्नाम्नो ऽर्थवत्तत्खल्वेतन्नाम्नेति ॥
स्त्रीपुरुषेन्द्रियस्यापि-
विशिष्टबुद्धिहेतुत्वादाधिपत्यविशेषतः ।
कायेन्द्रियाद्विशिष्टत्वं द्वयोर्नेत्रेन्द्रियादिवत्

76

यथैव हि चक्षुरादीनि कायेन्द्रियविशिष्टानि विशिष्टबुद्धिजनकत्वादाधिपत्यविशेषाच्च, तद्वदनयोरपीति ॥
कः पुनरिन्द्रियार्थस्तदारभ्यते-
ऐश्वर्यार्थो विपश्चिद्भिरिन्द्रियार्थो ऽभिधीयते ।
केषु पुनरर्थेषु केषामीशित्वम् ? वयं तावत्पश्यामः-
स्वार्थव्यक्तिषु पञ्चानां
चक्षुरादीनां पञ्चानां स्वार्थप्रकाशनक्रियायामाधिपत्यं समविषममार्गालोचनादित्यर्थः ।
चतुर्णां त्वर्थयोर्द्वयोः

77

जीवितमनस्त्रीपुरुषेन्द्रियाणां प्रत्येकमर्थद्वये । तत्र तावज्जीवितेन्द्रियस्य निकायसभागसंबन्धसन्धारणयोः । मनैन्द्रियस्यापि संक्लेशव्यवदानयोः । यथोक्तम्- "चित्तसंक्लेशात् सत्त्वाः संक्लिश्यन्ते चित्तव्यवदानहेतोर्विशुद्ध्यन्ते" ( जैनि_46 ) इति । पुनर्भवसंबन्धवशिभावानुवर्तनयोर्वा । पुनर्भवसंबन्धे तावद्यथोक्तम्- "गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरत्संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वा ।" तथा "विज्ञानं चेदानन्द मातुः कुक्षिं नावक्रामेत्" इति । वशिभावानुवर्तने यथोक्तम्- "चित्तेनायं लोको नीयते" इति विस्तरः ।
स्त्रीपुरूषेन्द्रिययोरपि सत्त्वोत्पत्तिविकल्पनयोराधिपत्यम् । सत्त्वोत्पत्तौ तावत्, प्रायस्तदधीनत्वात्तदुत्पत्तेः । सत्त्वविकल्पे ऽपि तद्वशात् । प्राथमकल्पिकानां च सत्त्वानां चेष्टा स्त्रीपुरुषस्वराचारादिविकल्पभेदात् ।
स्वगोचरोपलब्ध्यादावीशित्वमपरे विदुः ।
पौराणाः पुनराचार्याः कथयन्ति- "चक्षुरादीनां पञ्चानां प्रत्येकं चतुर्ष्वर्थेष्वाधिपत्यम् । चक्षुःश्रोत्रयोस्तावदात्मभावशोभायामन्धबधिरयोरकान्तरूपत्वात् । आत्मभावपरिकर्षणे, दृष्ट्वा श्रुत्वा च विषयविवर्जनात् । चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोरूत्पत्तौ । रूपदर्शनशब्दश्रवणयोश्चासाधारणकारणत्वे । घ्राणजिह्वाकायानां त्वात्मभावशोभायां ( जैनि_47 ) पूर्ववत् । आत्मभावपरिकर्षणे, तैः कबडीकाराहारपरिभोगात् । अन्यत् प्राग्वत् ।
चतुर्णां पुनः स्त्रीपुरुषजीवितमनैन्द्रियाणां द्वयोरर्थयोः । स्त्रीपुरुषेन्द्रिययोस्तावत्- सत्त्वभेदसत्त्वविकल्पयोः । सत्त्वभेदः स्त्रीपुरुष इति । विकल्पभेदो ऽपि संस्थानवचनगमनादि प्राग्वत् । संक्लेशव्यवदानयोर्वा । तद्वियुतविकल्पानां संवरासंवरादीनि न भवन्ति । तद्वतां तु संवरफलप्राप्तिः ।
जीवितेन्द्रियमनैन्द्रिययोरप्यर्थद्वये पूर्ववत् ॥
स्वार्थविज्ञान एवान्य आहुः पण्डितमानिनः

78

कोशकारादयः पुनराहुः- "स्वार्थोपलब्धावेव चक्षुरादीनां पञ्चानामाधिपत्यम् ।" तदेतद्वैभाषिकीयमेव किञ्चिद्गृहीतम् । नात्र किञ्चित् कोशकारकस्य स्वकर्षस्वकं दर्शनम् । वैभाषैरेव स्वार्थोपलब्धिरुक्तेति ॥
दार्ष्टान्तिकस्य हि सर्वमप्रत्यक्षम् । पञ्चानां विज्ञानकायानामतीतविषयत्वाद्यदा ( जैनि_48 ) खलु चक्षूरूपे विद्येते तदा विज्ञानमसत् । यदा विज्ञानं सत्, चक्षूरूपे तदासती, विज्ञानक्षणस्थित्यभावे स्वार्थोपलब्ध्यनुपपत्तेश्च ॥
क्लेशोत्पत्तौ सुखादीनां श्रद्धादीनां गुणाप्तिषु ।
सुखादीनामपि पञ्चानामिन्द्रियाणां रागादिक्लेशोत्पत्तावाधिपत्यम् । यथोक्तम्- "वेदनाप्रत्यया तृष्णा" इति । "सुखायां वेदनायां रागो ऽनुशेते" इति विस्तरः । श्रद्धादीनां पुनरष्टानां सर्वगुणोत्पत्तौ प्रभुत्वमिति ।
वैभाषाः पुनराहुः "संक्लेशवेदनाभिः" । तथा ह्युक्तम्- "सुखायां वेदनायां रागो ऽनुशेते" इति विस्तरः ।
व्यवदाने श्रद्धादीनां पञ्चानां तैः क्लेशान् विष्कम्भ्य मार्गोत्पादनात् । यथोक्तम्- "श्रद्धेषीकासंपन्नो बलधैर्यस्मृतिदौवारिकसंपन्नः समाहितचित्तो विमुच्यते प्रज्ञाशस्त्रेणार्यश्रावकः सर्वाणि संयोजनानि संछिनत्ति" इत्यादि ।
अनाज्ञातमाज्ञास्यामीन्द्रियादीनां तु त्रयाणामुत्तरोत्तराङ्गभावे निर्वाणे चाधिपत्यमिति ॥
कः पुनरेषामिन्द्रियाणामनुक्रमः ? ब्रूमः-
फलसंक्लेशसंभारविशुद्धित्वादनुक्रमः

79

प्राक्कर्म फलं तावदष्टौ विपाकजत्वात्तस्मात्तानि पूर्वमुक्तानि । तस्मिन् विपाके सति संक्लेशसुखादिभिः । पञ्चभिर्मार्गसंभारश्रद्धादिभिः । विशुद्धिरनास्रवैस्त्रिभिः ॥
कस्मात् पुनर्द्वाविंशतिरेव यथा परिकीर्तितान्युक्तानि न भूयांसि नाल्पीयांसीति ? तदपदिश्यते-
सत्त्वाख्या सत्त्ववैचित्र्यं धृतिः क्लेशोद्भवश्च यैः ।
मार्गोपायः फलप्राप्तिस्तेषामिन्द्रियता मता

80

सत्त्वाख्या खलु प्रवर्तते चक्षुरादिषु मनःपर्यन्तेषु षट्सु । एतद्धि मौलसत्त्वद्रव्यम् । सत्त्ववैचित्र्यं द्वाभ्यां स्त्रीपुरुषेन्द्रियाभ्याम् । धृतिर्जीवितेन्द्रियेण । क्लेशोद्भवः पञ्चभिर्वेदनाभिः । मार्गोपायः श्रद्धादिभिः । फलप्राप्तिस्त्रिभिरन्त्यैः । इत्येतस्मादेषामिन्द्रियता मता ॥
स्पर्शाश्रयोद्भवाधारसंभोगत्वाच्चतुर्दश ।
स्वर्गापवर्गहेतुत्वात् तदन्यद्वेन्द्रियाष्टकम्

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc