भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 41-60

41

पृथग्जनत्वमिति चेत् । न । तस्यानिवृताव्याकृतत्वात, समुच्छिन्नकुशलमूलवीतरागाणामपि तत्समन्वागमात् । आपायिकं च कायवाक्कर्मरूपस्वभावं तदप्यार्यमार्गविरोधित्वाद्विहीनं न तु प्रहीणं तस्मादुभयं न दर्शनहेयं सत्येष्वविप्रतिपत्तेः । दुःखधर्मज्ञानक्षान्तौ पृथग्जनत्वप्रसंगाच्च ।
पञ्चविज्ञानकाया अविकल्पकास्ते ऽपि न दर्शनहेयाः ॥
कति सभागाः कति तत्सभागाः ?
सभाग एव धर्माख्यः शेषास्तूभयथा स्मृताः ।
धर्मधातुवर्ज्या अन्ये धातवो द्विधा । सभागास्तत्सभागाश्च ॥
कः पुनः सभागार्थः को वा तत्सभागार्थः ?
सभागस्तत्सभागत्वे स्वक्रियाभाक्तु तुल्यते

42

यः स्वक्रियां भजते स सभाग इत्युच्यते । यः स्वक्रियाविरहितः स तत्सादृश्यमात्रभजमानत्वात् तत्सभाग इत्याख्यायते ।
अत्र सभागस्त्रिविधः । अध्वसु स्वक्रियाभेदेन वाच्यः । एवं तत्सभागः क्रियाविरहितो वाच्यः । अनुत्पत्तिधर्मकं चतुर्थमिति काश्मीराः ॥
कति दृष्टिः कति न दृष्टिः ?
चक्षुः सधर्मधात्वंशं नवधा दृष्टिरूच्यते ।
चक्षुस्तावल्लोके ऽपि दृष्टिरिति प्रतीतम् । धर्मधातोरपि प्रदेशो दृष्टिस्वभावो ऽष्टविधः क्लिष्टाक्लिटप्रज्ञात्मकः । शेषस्तु न दृष्टिः ।
पाञ्चविज्ञानकी प्रज्ञा न दृष्टिरनितीरणात्

43

नितीरिका हि दृष्टयो विचारणाश्रयात् । सा त्वविकल्पिका जडस्वभावा । अत्यल्पमिदमुच्यते । मनोविज्ञानभौम्यनिरासादिसंप्रयुक्ता न दृष्टिरित्युपसंख्यातव्यम् ॥
कथं पुनरेताः प्रज्ञाः पश्यन्ति ? तदिदमाविष्क्रियते ।
समेघामेघरात्र्यह्नोर्दृश्यं चक्षुर्यथेक्षते ।
क्लिष्टाक्लिष्टदृशौ तद्वच्छैक्षाशैंक्षे च पश्यतः

44

यथा समेघायां तिमिरपटलावगुण्ठितचन्द्रनक्षत्रचक्रप्रायां रजन्यां रूपाणि दृश्यन्ते तथा क्लिष्टाः पञ्चदृष्टयो ज्ञेयं पश्यन्ति । यथा तु विगतरजांसि निशाकरकिरणांशुकावगुण्ठितायां त्रियामायां रूपाणि दृश्यन्ते, तथा लौकिकी सम्यग्दृष्टिः पश्यति । यथा तु मेघपटलावगुण्ठिते दिवाकरकिरणानुद्भासिते दिवसे रूपाणि दृश्यन्ते तद्वच्छैक्षी दृष्टिः पश्यति । यथा तु द्रव्यकनकरसावसेकपिञ्जरदिनकरकिरणप्रोत्सारिततिमिरसंचये दिवसे चक्षुष्मतो देवदत्तस्य रूपं चक्षुरीक्षते, तथा बुद्धानामर्हतां प्रज्ञाचक्षुरविद्याक्लेशोपक्लेशमलदूषिकातिमिरपटलवर्जितं ज्ञेयं पश्यतीति ।
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ प्रथमस्याध्यायस्य तृतीयः पादः ॥
प्रथमाध्याये
चतुर्थपादः ।
आह । यदुक्तम्- चक्षुर्दर्शनमष्टप्रकारा च प्रज्ञा दृष्टिरिति । अथ विज्ञानं पश्यत्यथ न पश्यति ? यदि पश्यति दशधर्मा दृष्टिस्वभावा भवन्ति । अथ न पश्यति दार्ष्टान्तिकपक्षस्तर्ह्युज्झितो भवति । देवा एनं ग्रहीष्यन्ति ग्रहीतव्यं चेन्मंस्यन्ते ।
यत्तूक्तं दशधर्मा दृष्टिस्वभावाः प्राप्नुवन्तीत्यत्र विज्ञानस्य मुख्यदर्शनकल्पनाप्रतिषेधमुपरिष्टात् करिष्यामः । इदं तु वक्तव्यम् । चक्षुश्चक्षुर्विज्ञानप्रज्ञासामग्रीणां कः पश्यति ? कुतः संशय इति चेत् । सर्वत्र दोषदर्शनात् । यदि तावच्चक्षुः पश्यति यावत्कायः स्पृशति ततो युगपत् सर्वविषयोपभोगप्रसंगः । अथ चक्षुर्विज्ञानं पश्यति कस्तर्हि विजानाति ? व्यवहितमपि किं न पश्यति, अप्रतिघत्वात् ? अथ प्रज्ञा पश्यति श्रोत्रविज्ञानादिष्वपि प्रज्ञा विद्यत इति तत्रापि दर्शनप्रसंगः । अथ चक्षुरादिसामग्री पश्यति सापि खलु चक्षुरादिसामग्र्यङ्गव्यतिरिक्ता स्वभावक्रियाभावान्न विद्यते ।
चक्षुरादिसामग्र्यङ्गानामपि प्रत्येकं दर्शनशक्तिक्रियाभावो ऽन्धशतवदित्यसत्त्वम् । सर्वसामग्रीणां सर्वकार्यकरणापत्तित्वात्, विशेषाभावात् ।
हेतुप्रत्ययसामग्रीं प्रतीत्य क्रियामात्रं विज्ञानमुत्पद्यत इति चेत् । न । जनिकर्तृभावे जन्मक्रियास्वातन्त्र्यानुपपत्तेः, नश्यादिवत् । हेतुप्रत्ययानां परतन्त्राणां स्वात्मन्यवस्थितानां निरात्मकानां निरात्मककरणशक्त्ययोगात् ।
किञ्च, विज्ञेयाभावे विज्ञानानुपपत्तेः, दाह्यदहनवत् ।
किञ्च, विज्ञानक्रियाश्रिताभावे तदभावाच्चित्रकुड्यवत् । जन्मनाशयोर्द्धर्मिधर्मत्वे विरुद्धानामन्यतरोपपत्तिर्विनाशस्य वा सजातिहेतुत्वप्रसंगः । यज्जात्यनुवृत्तिस्तद्बीजमिति चेत् । न । कुशलाकुशलादिचित्तनिरोधे बीजत्वानुपपत्तेः, सामग्रीपक्षोत्सर्गात्सांख्यमताभ्युपगमदोषाच्च । तेषामपि प्रधानाख्याद्बीजादेकस्मान्निरपेक्षात्सर्वं संभवति । निमित्तान्तरापेक्षा शक्तशक्तेरिति चेत् । न । अक्षणिकत्वदोषात् । सर्वसामग्र्यङ्गबीजाभ्युपगमे कार्यस्वभावादिवैचित्र्यप्रसंगः । तस्मान्निर्दोषः पक्षो वक्तव्यः । सो ऽयं प्रक्रम्यते ।
चक्षुः पश्यति विज्ञानं विजानाति स्वगोचरम् ।
आलोचनोपलब्धित्वाद्विशेषः सुमहांस्तयोः

45

चक्षुर्द्रव्यं हि द्रष्टृस्वभावम् । तस्य हेतुप्रत्ययसामग्रीपरिग्रहप्रबोधितशक्तेः रूपदर्शनक्रियामात्रमुत्पद्यते । द्रव्यक्रिययोश्चान्यत्वं सिद्धसाध्यमानरूपत्वान्निरपेक्षसापेक्षव्यपदेशित्वाच्च द्रष्टव्यम् । तत्र चक्षुर्मूर्तिक्रियावद्विज्ञानाधिष्ठितं दर्शनक्रियामारभते । न विज्ञानशून्यम् । यथैव चक्षुर्विज्ञानमालोचनाधिष्ठितक्रियं विजानाति, न केवलम्, परम्परानुग्रहबलाद्ध्यनयोः प्रदीपादिप्रत्ययान्तरपरिगृहीतयोर्युगपदेकस्मिन् विषये वृत्तिलाभो भवति ।
यस्त्वेतदतिपत्यैवं कल्पयति- ऽकारणभूताभ्यां प्रागुत्पन्नाभ्यां चक्षूरूपाभ्यां कार्यभूतं विज्ञानं सहैकस्मिन् काले नावतिष्ठतेऽ; इति तस्य सक्षाद्विषयानुभवनाभावादनुमानागमाभावप्रसंगः । अनुभवज्ञाने चासति मनोविज्ञानस्मृतिगोचराभावादनुत्पत्तिप्रसंगः । नियतविषयस्मरणाभावाच्च । तस्माद्विज्ञानं नियताश्रयालम्बनलब्धप्रतिष्ठं सहकारिकारणसामग्रीसन्निपातोपजनितक्रियं साक्षाद्विषयमुपलभते । चक्षुरप्यालोचयति प्रदीपस्तत्कालमेवावभासयति । य एते विज्ञानचक्षूरूपादयः स्वहेतुसामग्रीप्रबोधितशक्तयः ते विषयप्रतिविज्ञप्त्यालोचनावभासनाख्यां युगपत् सौधीं सौधीं वृत्तिं प्रतिपद्यन्त इति युक्तिमती नीतिः ।
तस्मात्सत्स्वप्यन्येषु प्रत्ययेषु दर्शनक्रियायाश्चक्षुषः प्राधान्यात्, तदेवाञ्जसा पश्यतीत्युच्यते । यथा वा देवदत्तः स्थालीजलज्वलनतण्डुलादिषु सत्स्वपि पाके प्रवर्तमाने स्वस्यामधिश्रयणोदकासेचनतण्डलावपनदर्वीपरिघट्टनाचामनिस्रावणक्रियायां लब्धसामर्थ्यः साधनसन्नियोगे च परप्राप्तैश्वर्यो देवदत्तः प्राधान्यात्पचतात्युच्यते । यदा पुनस्तण्डुलानां ( जैनि_33 ) विक्लेदो विवक्षितः पाको वा तदा जलानलयोः प्राधान्याद्व्यपदेशो भवत्यम्बु क्लेदयत्यग्निः पचतीति । तस्मात्सामग्र्यां सत्यां दर्शने प्रवर्तमाने प्राधान्याच्चक्षुः पश्यतीत्युच्यते । कथं प्राधान्यमिति चेत् ? तत्प्रकर्षे दर्शनप्रकर्षात् । तुल्ये हि प्रथमध्यानचक्षुर्विज्ञाने द्वितीयादिषु चक्षुष्प्रकर्षाद्दर्शनप्रकर्षो दृश्यत इति । तस्माद्युक्तम्- "चक्षुः पश्यति नयनं पश्यति मनसि तु भक्त्या प्रज्ञावृत्तिरुपचर्यते मनसा पश्यति" इति ।
तत्रयदुक्तं कोशकारेण- "किमिदमाकाशं खाद्यते । सामग्रयां हि सत्यां दृष्टमित्युपचारः प्रवर्तते । तत्र कः पश्यति ?" इति । तदत्र तेत भदन्तेन सामग्र्यङ्गक्रियापहरणं ? क्रियते । अभिधर्मसंमोहाङ्कस्थानेनात्माप्यङ्कितो भवत्ययोगशून्यताप्रपाताभिमुख्यत्वं प्रदर्शितमिति ॥
किं पुनरेकेनापि चक्षषा पश्यति, आहोस्विद् द्वाभ्यामेवेति ? नात्र नियमः । यस्मात्
एकस्य चक्षुषः कार्यं विज्ञानमथवा द्वयोः ।
इति द्विचन्द्रदर्शनादेर्विज्ञानस्य .......... ॥
प्राप्तग्राहीणि आहोस्विदप्राप्तग्राहीणीति ? तदुच्यते ।
अप्राप्यार्थं मनश्चक्षुः श्रोत्रं च त्रीण्यतो ऽन्यथा

46

घ्राणरसनकायेन्द्रियाणि प्राप्तग्राहीणीत्यर्थः ॥
अत्र काणादः पश्यति । नाप्राप्तग्राहीणीन्द्रियाणि । चक्षुषो हि रश्मिर्गत्वा पश्यति । श्रोत्रं त्र सर्वगतं प्राप्यैव सर्वं श्रृणोति । तं प्रतीदमुच्यते ।
अप्राप्तग्राहिणः सिद्धा दूरासन्नसमग्रहात् ।
यावता हि कालेन देवदत्तः स्वपाणितललेखां पश्यति तावतैव चन्द्रलेखाम् । न चायं गतिमतां धर्मः । गतिमन्तो हि देवदत्तादयो दूरं चिराद्गच्छन्त्यासन्नं क्षिप्रमिति । न । प्रदीपवत् तत्सिद्धेः ।
प्रदीपादिप्रभावश्चेत्
यथा खलु यावता कालेन प्रदीपो नेदिष्ठं रूपमभिव्यनक्ति तावता दविष्ठं तद्वदिति । तत्र प्रत्यवस्थानम्-
न समं तत्समुद्भवात्

47

यदि प्रदीपो गच्छेत्, तत्राप्येष दोषः प्रसज्येत । प्रभादिमध्यान्तेषु च तापविशेषदर्शनात् तदेकत्वासिद्धिः । तस्य पुनः प्रतीत्य युगपत् सर्वप्रदीपप्रभामुपादाय रूपपरमाणूनामुत्पत्तिस्तस्यैष दोषो नास्ति ॥
सर्वग्रहप्रसंगश्चेन्नायस्कान्तादिदर्शनात् ।
यद्यप्राप्तग्राहि चक्षुः ब्रह्मलोके ब्रह्माणं कस्मान्न पश्यति ? तत्रेदमुच्यते । नायस्कान्तवत्तत्सिद्धेः । यथा तुल्ये ऽप्यप्राप्ताकर्षणे न प्राचीनो ऽयस्कान्तो मणिरुदीचीनमयः समाकर्षति तद्वदिति ॥
अत्र पुनर्विन्ध्यवासी पश्यति सर्वगतत्वमिन्द्रियाणाम् । तं प्रतीदमुच्यते ।
सर्वगत्वाददोषश्चेन्नायोगात्तिलतैलवत्

48

को ह्यनुन्मत्तो ब्रूयात्तिलेषु तैलं सर्वगतमस्तीति ? तद्वक्चक्षुःश्रोत्राद्यधिष्ठानेभ्यो बहिरिन्द्रियाणि कः कल्पयेदमूढचेताः ?
इदं वक्तव्यम् । यत्र काये स्थितश्चक्षुषा रूपाणि पश्यति किं तानि कायचक्षूरूपविज्ञानानि एकभौमानि, आहोस्तिदन्यभौमिकान्यपि ? सर्वेषामनियमः । तत्र कामधातूपपन्नस्य तावत् स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभौमम् । तस्यैवास्य ध्यानचक्षुषा स्वरूपाणि पश्यतः कायरूपे स्वभूमिके द्वयं प्रथमाद्ध्यानात् । प्रथमध्यानभूमीनि पश्यतो रूपाण्यपि तत्रत्यानि । द्वितीयध्यानचक्षुषा समीक्षमाणस्य कायरूपे स्वभूमिके, चक्षुर्द्वितीयाद् ध्यानात्, विज्ञानं प्रथमात् । प्रथमध्यानभूमीनि पश्यतो विज्ञानरूपे प्रथमाद्ध्यानात्, कायः कामावचरः, चक्षुर्द्वितीयाद्ध्यानात् । द्वितीयध्यानभूमीनि पश्यतश्चक्षूरूपे द्वितीयध्यानभूमिके कायः कामावचारो विज्ञानं प्रथमध्यानात् । एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकाधरभूमिकानि रूपाणि पश्यतो विज्ञातव्यम् । प्रथमध्यानोपपन्नस्य स्वेन चक्षुषा स्वानरूपाणि पश्यतः सर्वं स्वभूमिकम् । अधराणि रूपाणि पश्यतस्त्रयं स्वभूमिकं रूपाणि कामावचराणि । द्वितीयध्यानचक्षुषा स्वानि रूपाणि पश्यतस्त्रयं स्वभूमिकं चक्षुर्द्वितीयात् । कामावचराणि पश्यतः कायविज्ञाने स्वभूमिके, कामावचराणि रूपाणि, चक्षुर्द्वितीयात् । द्वितीयध्यानभूमीनि पश्यतश्चक्षूरूपे तद्भूमिके शेषं स्वभूमिकम् एवं तृतीयादिध्यानचक्षुषा योज्यम् । द्वितीयादिध्यानोपपन्नस्य स्वपरचक्षुर्भ्यां स्वपरभूमिकानि रूपाणि पश्यतो यथासंभवं द्रष्टव्यम् ॥
नियतस्त्वयम्-
न ह्यूर्ध्वं चक्षुषः कायो न रूपं नाक्षिजं मनः ।
विज्ञानस्य तु नेत्रार्थस्तौ च कायस्य सवंतः

49

पञ्चभौमानि कायचक्षूरूपाणि द्वयोः सवितर्कसविचारयोर्भूम्योश्चक्षुर्विज्ञानम् । तत्र यद्मूमिकः कायस्तद्भूमिकमूर्ध्वभूमिकं वा चक्षुर्भवति न त्वधोभौमिकम् । यद्भूमिकं चक्षुस्तद्भूमिकमधरभूमिकं वास्य रूपं गोचरी भवति नोर्ध्वभूमिकम् । एवं चक्षुर्विज्ञानं नाधरिमे चक्षुषि संमुखीभवति । अस्य तु चक्षुर्विज्ञानस्य रूपं सर्वतो विषयीभवति । कायस्याप्युभे रूपविज्ञाने सर्वतो भवत इति ॥
एवं
नोपरिष्टाच्छ्रु तेः कायो न शब्दो न स्वकं मनः ।
विज्ञानस्य तु निह्रादस्तौ च कायस्य सर्वतः

50

घ्राणादीनां पुनः
त्रयाणां त्रीण्यपि स्वानि
कायगन्धादिविषयविज्ञानानि स्वभूमिकान्येव । उत्सर्गस्यायमपवादः क्रियते ।
तनोर्विज्ञानमप्यधः ।
कायस्पृष्टव्ये स्वभूमिके एव । कायविज्ञानं तु केषाञ्चिदधरभूमिकम् । यथा द्वितीयादिध्यानोपपन्नानामिति ।
मनस्त्वनियतं
समापत्त्युपपत्तिकालेषु कायस्य सर्वतो भावात् । त्रैकालिकाध्वनिर्मुक्तसर्वधर्मविषयित्वात् ॥
किमर्थं पुनरयमल्पार्थः सुमहाग्रन्थसन्दर्भविधिरारभ्यत इति ? ( जैनि_37 ) कोशकृदाचष्टे- नह्यत्र किञ्चित्फलमुत्प्रेक्ष्यत इति । तं प्रतीदं फलमादर्श्यते । तत्र खलु
योगिवैश्वरूप्यं प्रदर्शितम्

51

एतद्वैश्वरूप्यं योगिनां यदन्यतः कायो ऽन्यतश्चक्षुरन्यतः रूपमन्यतो विज्ञानं गृहीत्वा पश्यन्ति । विभूनि च शरीराणि निर्माय मनोजवया ऋद्ध्या गत्वा बुद्धा भगवन्तो यथेच्छं लोकधात्वन्तरेषु विनेयानां बुद्धकार्यं कुर्वंति । दिव्याभ्यां चक्षुःश्रोत्राभ्यां रूपाणि दृष्ट्वा शब्दांश्च श्रुत्वा यथेच्छं युगपदनेकानि पाञ्चगतिकानि शरीराणि निर्मायानेकगतिधात्वन्तरेषु विनेयकार्यं कुर्वन्तीति ।
गतमेतत् प्रासङ्गिकं प्रकरणम् ॥
इदमधुना वाच्यम् । स्कन्धोपादानस्कन्धयोः कः प्रतिविशेषः ? तदुच्यते । स्कन्धास्त्रिभिः सत्यैः संगृहीताः । यस्मात्
सास्रवानास्राः स्कन्धा ये तूपादानसंज्ञिताः ।
सास्रवा एव ते ज्ञेयास्तत्साचिव्यक्रियादिभिः

52

कारणैरिति वाक्याध्याहारः । तस्मादुपादानस्कन्धाः सत्यद्वयसंगृहीताः । निरोधसत्यं तु स्कन्धलक्षणानुपपत्तेः स्कन्धलक्षणव्यतिरिक्तमिति द्रष्टव्यम् ॥
अध्वाद्याः स्कन्धपर्यायाः
अध्वानस्कन्धाः संस्कृताः कथावस्त्वित्येवमादयः ।
धर्माद्या वस्तुनः सतः ।
सत् वस्तु धर्मो द्रव्यमायतनं धातुरित्येवमादयः ।
ये तु सास्रवसंज्ञास्ते प्रोक्ता दुःखादिनामभिः

53

दुःखं लोको भवः समुदय इत्येवमादिभिर्नामभिः शब्दयन्ते ॥
अथ कस्माच्चक्षुःश्रोत्रघ्राणानां द्वित्वे सत्येकधातुता ? तदारभ्यते-
स्वात्म्यगोचरकार्याणामेकत्वादेकधातुता ।
चक्षुरादिद्विभावे ऽपि
त्रयाणामपि खल्वेतेषामेकस्वभावत्वादेकगोचरत्वादेककार्यत्वाच्च द्वित्वे ऽपि सत्येकाधिपत्यं चैकधातुता च निर्वर्तेते ।
द्व्युत्पत्तिः कर्मत्रित्वशात्

54

ये तु कथयन्ति "शोभार्थं तु द्वयोद्भवः" इति तेषां श्लीपदगण्डप्रभृतीनाम् अतिशोभार्थमुत्पत्तिरित्यापन्नम् ॥
इदमिदानीं वाच्यम् । चक्षुरादिकारणसामग्रीसन्निधाने सति चक्षुर्विज्ञानोत्पत्तौ कस्माच्चक्षुःश्रोत्रादिविज्ञानमित्युच्यते ? तत्र विसर्जनं क्रियते-
असाधारणवैशिष्ट्यादैश्वर्यादान्तरङ्गयतः ।
सत्यप्यनेकहेतुत्वे विज्ञानं तैर्विशेष्यते

55

चक्षुरादीन्द्रियविशेषाद्विज्ञानविशेषो दृष्टः । चक्षुरादीनां च चतुर्भिः कारणैरीशित्वं दृष्टम् । असाधारणकारणत्वेन चान्तरङ्ग्य इति ॥
अत्राह । अथ कस्मात् सर्वपदार्थानां द्रव्यस्वभावत्वे निर्वाणमेव परमार्थतो द्रव्यमित्युच्यते यतो धर्मधातुरेव तद्योगाद्द्रव्यवानित्याख्यायते । कस्माच्च सर्वसंस्कृतानां क्षणिकत्वे सति त्रय एवान्त्या धातवः क्षणिका इत्युच्यन्ते ? तदुभयं प्रदर्श्यते ।
नित्यत्वात्कुशलत्वाच्च निर्वाणं द्रव्यमञ्जसा ।
सारद्रव्येन तेनैको धर्माख्यो द्रव्यवान्मतः

56

प्रथमं निर्मलं चित्तमसाभाग्यात्क्षणः स्मृतः ।
तेनाद्भुतक्षणेनैते क्षणिकाः पश्चिमास्त्रयः

57

किं पुनरेते चक्षुरादयस्तुल्यं विषयं गृह्णन्ति, आहोस्विन्न्यूनमविकं वा ? तदाविष्क्रियते-
घ्राणं जिह्वा च कायश्च तुल्यार्थग्राह्यदस्त्रयम् ।
द्वयोश्चक्षुःश्रोत्रयोरनियम इत्याख्यातं भवति ॥
किंपुनरेषां चक्षुर्विज्ञानादीनां सहज एवाश्रयः, आहोस्विदतीतो ऽपि ? तदुच्यते ।
पश्चिमस्याश्रयो ऽतीतः
मनोविज्ञानस्य क्रियावतो नित्यमाश्रयो ऽतीतः ।
पञ्चानां तैः सहापि च

58

पञ्चानां विज्ञानकायानां तैः सहापि चातीतश्चेति ऽचऽशब्दात् ।
एवं चतुष्कोटिक आरभ्यते । ये धर्मा विज्ञाननिश्रयाः समनन्तरा अपि ते ? प्रश्नश्चतुष्कोटिकः । निश्रय एव चक्षुरादयः । समनन्तरा एव वेदनादयः । उभयं समनन्तरनिरुद्धं विज्ञानम् । नोभयमेतानाकारान् स्थापयित्वा ॥
इदमिदानीमभिधर्मसर्वस्वं कोशकारकस्मृतिगोचरातीतं वक्तव्यम् । अथैषामष्टादशानां धातूनां कतमं निश्रयं निश्रित्यानास्रवेण मार्गेण कतमो धातुर्निरुध्यते !
निश्रित्य खल्वनागम्यं निश्रयांश्चतुरो ऽथ वा ।
अनास्रवेण मार्गेंण चक्षुर्धातुर्निरुध्यते

59

नवसु भूमिषु खल्वनास्रवो मार्गः । चक्षुर्धातुस्तु पञ्चभूमिकः । तत्र प्रज्ञाविमुक्तस्यालब्धध्यानस्यार्यस्यानागम्यं निश्रित्य चक्षुर्धातुर्निरुध्यते । निरोधमार्गज्ञानात्मकस्य त्रिधातुप्रतिपक्षत्वाद्ध्यानलाभिनः पुनश्चतुरो निश्रयान्निश्रित्य ध्यानान्तरिकायाः प्रथमेन ग्रहणात् ॥
अनागम्यं तु निश्रित्य गन्धधातुर्निरुध्यते ।
ध्यानालाभिनस्तन्निरोधात् ।
मनोधातुरनागम्यं यदि वा सप्तनिश्रयात्

60

चत्वारि ध्यानानि त्रींश्चारूप्यान्, तस्य त्रैधातुकत्वात् ॥
अनागम्यं तथैवाद्यं चक्षुर्विज्ञानसंज्ञकः ।
निरुध्यत इति वर्तते । तस्य कामप्रथमध्यानसमापन्नत्वात् ।
धर्मधातोर्विचित्रत्वाद्यथायोगं विनिर्दिशेत्

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc