अभिधर्मदीप (टीका सहित) · श्लोक 561-580
हिंसानृतलोभादयो हि दोषाः कुगतिगमनहेतवो न स्वर्गापवर्गगमनोपायाः । शास्त्रचोदिता हिंसा नाधर्म इति चेत् । न । शास्त्रलक्षणापरिज्ञानात् । कथम् ? यस्मात्
युक्तार्थचोदनाद् दुःखत्राणाद्दोषानुशासनात् ।
शास्त्रमित्युच्यते ऽतो ऽन्यज्ज्ञेयं वातिकभाषितम्
यत्खलु प्रमाणत्रयविरुद्धार्थं वाक्यम्, यच्च पापकेभ्यः कर्मेभ्यः कुगतिगमनहेतुभ्यो निवारणेन त्रायते, यच्च रागद्वेषमोहाननुशास्ति तद्वाक्यं ( जैनि_418 ) शास्त्रमित्युच्यते । नान्यदिति । तस्मादन्यदनाप्तवचनम् । न । वेदमन्त्राणां विषोपशमनसामर्थ्यदर्शनात् । प्रत्यक्षं हि प्रमाणं बलीयस्तत्पूर्वके च द्वे प्रमाणे त्रयीधर्माभिहिते प्रमाणमिति । तत्रेदं प्रत्युच्यते-
पारसीकादिमन्त्राणां विषोत्सदबलं क्वचित् ।
दृश्यते न तु सर्वस्मिन्नरिष्टाद्यनिवर्तनात्
दृष्टं हि सामर्थ्यं पारसीकशबरकापालिकादिमन्त्राणामपि न तु तैर्मन्त्रैः पापनाशो ऽभ्युपगभ्यते भवद्भिः, न च सर्वस्य विषमं प्रशमयन्ति; तद्गतारिष्टादिना मरणदर्शनात् । यदि च शास्त्रचोदिता हिंसा मन्त्रसामर्थ्याद्धर्माङ्गं सम्पद्यते कस्मान्न मन्त्रसामर्थ्यादेव पशुं घातयति ? किं शस्त्रपातनगलाम्रेडकाद्युपक्रमानुष्ठानेन ? मन्त्रसामर्थ्यादेव च पिष्टकृतपुरोडाशानां स्वर्गगमनहेतोरपूर्वस्याभिव्यक्तिर्भवत्वलं पश्वादिवधेनेति । दृष्टं च मन्त्राणां विषोपशमने सामर्थ्यं न तु विनाहारपानादिभिः क्षुत्तृष्णप्रशमनादिषु । एवं मन्त्राणां विषोपशमने सामर्थ्यं भवतु । मा भूत्पापविनाशन इति ।
यदप्युच्यते भवद्भिः । वैतानकर्मानुष्ठातारो ब्राह्मणा एव मोक्षवर्त्मन्यधिक्रियन्ते नेतरे वर्णा इति तदपि डिम्भाभिहितमेव सतां प्रतिभाति । यस्मात् ।
रागाद्यैर्दूष्यते चित्तं श्रद्धाद्यैश्च विशुध्यते ।
विप्रस्यापि यतस्तस्माद् गुणवानेव मुच्यते
तद्यथौषधं विशुद्धकोष्ठस्यैवारोग्यं जनयति नोल्बनवातादिदोषस्य । तस्माद्भव्यजातीयः श्रद्धादिगुणपरिभावितात्मा कुम्भकारो ऽपि मोक्षवर्त्मन्यधिक्रियते । न चतुर्वेदो रागद्वेषमोहादिदोषोररीकृतचित्तभूमिरिति । अलमतिप्रसङ्गेन प्रकृतमेव प्रस्तूयताम् । तदिदमारभ्यते-
शुद्धं चतुर्विधं हानभागीयादि यथाक्रमम् ।
न्यूनतुल्यबलोत्कृष्टनिर्मलानुगुणं हि तत्
चतुर्विधं खलु शुद्धकं हानभागीयं स्थितिभागीयं विशेषभागीयं निर्वेधभागीयम् एवमारुप्यमन्यत्र भवाग्रात् । तद्धि त्रिविधं विशेषभागीयं हित्वा ॥
किं पुनरेषां लक्षणम् ?
क्लेशस्वोपरिमस्थाननीरजस्कानुवर्ति वा ।
यथाक्रमं खलु क्लेशोत्पत्त्यनुगुणं हानभागीयं, स्वभूम्यनुगुणं स्थितिभागीयमूर्ध्वभूम्यनुगुणं विशेषभागीयमनास्रवानुगुणं निर्वेधभागीयम् । तस्मादनास्रवमुत्पद्यते ।
अथैषां चतुर्णां कति कस्मादनन्तरमुत्पद्यन्ते ?
द्वे त्रीणि त्रीणि च द्वे वा हानपक्ष्याद्यनन्तरम्
हानभागीयस्य खल्वनन्तरं द्वे उत्पद्येते हानस्थितिभागीये । स्थितिभागीयस्य त्रीण्यन्यत्र निर्वेधभागीयात् । विशेषभागीयस्यापि त्रीण्यन्यत्र हानभागीयात् । निर्वेधभागीयानन्तरं तदेवैकमिति ॥
व्युत्क्रान्तकसमापत्तिरर्हतो ऽकोप्यधर्मणः ।
स खल्वेषार्हतो ऽकोप्यधर्मण एव निष्क्लेशत्वात्समाधिवशित्वाच्च । दृष्टिप्राप्तस्य यद्यपि तीक्ष्णेन्द्रियत्वात्समाधौ वशित्वं न तु निष्क्लेशा सन्ततिः । समयविमुक्तो यद्यपि निष्क्लेशो न त्वस्य समाधौ वशित्वमिति ।
कथं पुनरियमुत्पाद्यते ?
तत्प्रयोगो द्विधा भूमिर्गत्वागम्यजिगीषया
धर्मभूम्युत्क्रमेणाष्टौ शुद्धकाख्यादनास्रवम् ।
शुद्धकाच्च तृतीयं स्वं निष्ठा शुद्धाच्च निर्मलम्
ऽगत्वेऽत्यनुलोममष्टौ भूमीः समापद्य । ऽआगम्येऽति प्रतिलोमे समापद्य । ऽद्विधेऽति सास्रवानास्रवा । ऽजिगीषयेऽति जयं चिकीर्षन्धर्मभूम्युत्क्रमेण जेतुकामः । शुद्धकादनास्रवं ऽशुद्धकाच्च तृतीयं स्वं ।ऽ; ऽनिष्ठाऽ; तु शुद्धादनास्रवम् । स खल्वेवं विजित्यानास्रवाश्च सप्त पश्चात्सास्रवा प्रथमाद्ध्यानात्सास्रवं तृतीयं समापद्यते । तस्मादाकाशानन्त्यायतनं तस्मादाकिञ्चन्यायतनमेवं पुनः प्रतिलोमं निर्जित्यानास्रवा अप्येकविलङ्घिता अनुलोमं प्रतिलोमं च समापद्यते । एष प्रयोगो व्युत्क्रान्तसमापत्तेः ।
यदा तु प्रथमाः सास्रवाः तृतीयमनास्रवं ध्यानं समापद्यते तस्मात्सास्रवमाकाशानन्त्यायतनं तस्मादनास्रवाकिञ्चन्यायतनमेवं पुनः प्रतिलोमम् । तदा विसभागतृतीयद्रव्यगमनादभिनिष्पन्ना भवति । अतिविप्रकृष्टत्वान्न चतुर्थं समापद्यते । तां च त्रिषु द्वीपेषु समापद्यते ॥
स्वोर्ध्वा एवोपजन्यन्ते ध्यानारूप्यभवः शुभाः ।
भवाग्रस्थस्त्वगत्यादौ निर्मलामवलम्बते
भवाग्रं भवाग्रे च संमुखीक्रियते । अधश्च यावत्कामधातोरेवं शेषाणि स्वस्यां च भूमावधश्चेति । ऊर्ध्वो पपन्नो नाधरां समापत्तिं संमुखीकरोति वैयर्थ्यात् । न हि तत्रानास्रवो मार्गो ऽस्ति संसारमूलत्वात् । न च विनानास्रवेण मार्गेण तत्रत्याः क्लेशा हन्तुं शक्यन्ते । चैतन्यरूपं पुरुषमालम्ब्य तद्वैराग्यमिति चेत् । न । युष्मत्पुरुषस्य क्रियावत्त्वे सत्त्वानेकत्वैकत्वोपपत्तेः संसर्गिधर्मित्वोपपत्तेः बुद्धिवदिति विज्ञानज्ञानोपलब्धे च..............................................ति ॥
कस्य पुनर्ध्यानस्य प्राप्त्या कतरद्भाव्यते ? तदनुक्रम्यते-
बालाद्यध्यानसंप्राप्तौ लौकिकस्यैव भावना ।
यदा खल पृथग्जनः प्रथमं ध्यानं लभते तदास्यानागतं लौकिकमेव भाव्यते ।
ऊष्मादिवर्ज्ये चालब्धे ध्यानान्तरसमुद्भवे
चरमभविकस्योष्मादिवर्जिते ऽ.....................गिकस्वा(?)नुचितम् । तत्र ध्यानान्तरे प्रथमं सास्रवमेव भाव्यते । उचिते तु वैराग्यलब्धत्वान्न भाव्यते । ऊष्मगतादिषु तु न भाव्यते । तान्येव ध्यानान्तरसंगृहीतानि भाव्यन्ते प्रथमं नानागम्यम् ॥
वीतरागस्य चालब्धे पूर्वसामन्तके तथा ।
वीतरागस्यानागम्ये ऽप्यलब्धे ऽनुचिते प्रथमं भाव्यते......................अ नागम्यसंगृहीतानि भाव्यन्ते न प्रथमार्यमार्गसादृश्यात् ।
विरक्तस्य तु पूर्वस्य निर्मलस्यैव भावना
वीतरागस्य त्वार्यस्य प्रथमस्यानास्रवस्यैव भावनान्यामे वा ऽभिसमयान्तिकक्षणवर्ज्येषु अनास्रवमेव भाव्यते । शैक्षस्य च द्वाभ्यां क्षणाभ्यामक्षविवर्धने भवाग्रे च सप्तदशसु .................. । एवं नवप्रकारतयाकोप्यप्रतिवेधे तत्पृष्ठे च यत्किञ्चिद्भावनामयं संमुखीकरोत्यलब्धं तत्रानास्रवमेव प्रथमं भाव्यते नोभयभावनोच्यते ॥
न्याममार्गान्वयज्ञाने शैक्षस्याक्षविवर्धने ।
आनन्तर्याह्वये मार्गे दृङ्मार्गे द्वादशक्षणाः
भवाग्रस्य च वैराग्ये क्षयज्ञानविवर्जिते ।
आकोप्या ................................
आर्यस्य कामवैराग्ये चरमे मुक्तिवर्त्मनि ।
ज्ञानत्रये त्रयाख्ये च न्यामे ऽनागम्यवर्जिते
शैक्षस्य रागिणः पूर्वत्रिभूमीन्द्रियवर्धने ।
प्रयोगमुक्तिमार्गेषु कामाद्यध्यानजस्य च
द्विविधार्हत्वसंप्राप्तौ मुक्तिवर्त्मनि पश्चिमे ।
विरक्तानां च शैक्षाणामव्यग्रान्यत्रिभूजये
भावना द्विविधस्यापि
........................सु सास्रवानास्रवस्यापि प्रथमस्य ध्यानस्य भावना भवतीति ।
नोभयस्य तु भावनाम् ।
अनागम्याश्रये न्याम तद्भागीयोद्भवादिषु
यद्यनागम्यं निःश्रितो नियाममवक्रामति, तस्यानागम्यमेव भाव्यते न तु प्रथमं ध्यानं किञ्चिदपि भाव्यते । यदा खल्वप्यनागम्यानिर्वेधभागीयान्युत्पादयति................भावनया भाव्यते न तु प्रथमं ध्यानं दर्शनमार्गसादृश्यादित्याविष्कृतमेतदिति ॥
द्वितीयादिष्वनेनैव विधिनाभ्युह्य युक्तितः ।
अभिधर्मनयज्ञाने ज्ञेयानागतभावना
द्वितीयादिषु खल्वधिध्यानेष्वनयैव प्रथमध्यानानागताभावनानीत्या तत्र युक्तिमनुसरता यथातन्त्रम............ ।
ध्यानं कस्य किमालम्बनमित्यत इदमनुक्रम्यते ।
सास्वादः स्वभवालम्बः शुभं ध्यानं समन्तदृक् ।
आरुप्याः कुशला मौला नाधोलोकावलम्बिनः
आस्वादनास्रंप्रयुक्तः स्वभूमिकं भवमालम्बते सास्रवं वस्त्वित्यर्थः । नाधरांभूमिमालम्बते वीतरागत्वान्नोत्तरां तृष्णापरिच्छिन्नत्वात् । नानास्रवं कुशलत्वप्रसङ्गात् । कुशलं तु ध्यानं शुद्धकमनास्रवं वा सर्वालम्बनं यत्किञ्चिदस्ति संस्कृतमसंस्कृतं वा । मौलानां तु कुशलारूप्याणामधोभूमिकं च सास्रवं वस्तु नालम्बनम् । स्वभूम्योर्ध्वभूम्यालम्बनत्वात् । अनास्रवं त्वालम्बनम् । सर्वान्वयज्ञानपक्षो न धर्मज्ञानपक्षो नाधोभूमिनिरोधः । सामन्तकानन्तर्यमार्गाणां त्वधराभूमिरालम्बनम् ॥
एषाञ्च पुनस्त्रिविधानां ध्यानारूप्याणाम्
ध्यानारूप्यैः प्रहीयन्ते निर्मलैर्मानसो मलाः ।
अधोभूमेस्तु लभ्यन्ते सामन्तैरपि शुद्धकैः
अनास्रवेणैव ध्यानारूप्येण क्लेशाः प्रहीयन्ते न कुशलेन । कुत एव क्लिष्टेन ? वीतरागवन्नाधः प्रहीयन्ते तस्यैव तदप्रतिपक्षत्वात्, न स्वभूमौ ( जैनि_423 ) विशिष्टरतरत्वान्नोर्द्ध्वमिति । ध्यानारूप्यसामन्तकेन शुद्धकेनापि क्लेशाः प्रहीयन्ते ऽधोभूमिप्रतिपक्षत्वात् ॥
पुनश्च । सर्वं समाधिं संकलय्य त्रयः समाधय उक्ताः सूत्रे-
सवितर्कविचाराद्यास्त्रयः प्रोक्ताः समाधयः ।
ध्यानान्तरे स चारोधः सद्वयो ऽन्यत्र निर्द्वयः
मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0