भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 581-597

581

"सवितर्कः सविचारः समाधिः अवितर्को विचारमात्रो ऽवितर्को ऽविचारः" इति । तत्र ध्यानान्तरं तावदवितर्को विचारमात्रः । सततोधः सवितर्कः सविचारः समाविः । परतस्त्ववितर्को ऽविचारश्च ॥
पुनः
सास्रवानास्रवश्चान्य एकादशभुवस्त्रयः ।
आर्याकारमतिद्योताः शून्यताद्यः समाधयः

582

शून्यताभिधेयः समाधिरप्रणिहित अनिमित्तश्च तृतीयः ॥
कतमैः पुनरेत आर्याकाराः..........................वत् षोडशभिराकारैरित्यतस्त्रयो ऽप्यनित्यतादिषोडशाकारमतिद्योताः(?) । प्रत्येकं तु
दशाप्रणिहिताकाराः शून्यताया द्वयं मतम् ।
अनिमित्तो ऽमृताकारैश्चतुर्भिः संप्रवर्तते

583

अप्रणिहितः खलु समाधिरनित्यदुःखाकाराभ्यां संप्रयुक्तश्चतुर्भिः समुदयाकारैश्चतुर्भिश्च मार्गाकारैः..............................तानात्माकाराभ्यां संप्रयुक्तः । अनिमित्तः समाधिर्निरोधाकारैश्चतुर्भिर्निरोधाकारादिभिः संप्रयुक्तः ॥
विमुक्तेर्द्विप्रकारायाः प्राप्तये निर्मलाः पुनः ।
विमोक्षसु(मु ?)खशब्देन त एवाविष्कृतास्त्रयः

584

रागविरागाच्चेतोविमुक्तिरविद्याविरागात् प्रज्ञाविमुक्तिः । तस्य विमुक्तिद्वयस्य.................आविष्कृतानि । तत्र शून्यतायाः संप्रयुक्तः समाधिः शून्यतासमाधिः । न प्रणिधत्ते भवमित्यप्रणिहितः । दशनिमित्तापगमादनिमित्तं तदालम्बनसमाधिरनिमित्तः ॥ पुनः
त्रयो ऽपरसमाध्याख्या शून्यताशून्यतादयः ।
तेषां त्रयाणां समाधीनामुत्सर्गोपायप्रदर्शनार्थं शून्यताशून्यतादयः त्रयः समाधयो ऽभिधर्मेभिहिताः ।
द्वयमालम्बते ऽशैक्षं शून्यतो ऽनित्यतस्तथा

585

क्षयमप्रतिसंख्याख्यमन्त्यो गृह्णाति शान्ततः ।
शून्यताद्यालम्बनत्वात्तन्नाम अशैक्षं समाधिं द्वावपरसमाधी आलम्बेते । शून्यताशून्यता अशैक्षं शून्यतासमाधिमालम्बते शून्याकारेण । अप्रणिहिताप्रणिहितो ऽप्यशैक्षमप्रणिहितम् अनित्याकारेण । न दुःखतो न हेत्वादितो ऽनास्रवस्य अतल्लक्षणत्वात् । न मार्गाकारैर्दूषणीयत्वात् । अनिमित्तानिमित्तत्वात् समाधिरशैक्षस्यानिमित्तस्याप्रतिसंख्यानिरोधमालम्बते । शान्ताकारेणानास्रवस्य प्रतिसंख्यानिरोधाभावात् । न निरोधप्रणीतनिःसरणाकारैरनित्यतानिरोधसाधारणत्वादव्याकृतत्वादविसंयोगाच्च ।
ते पुनरेते समाधयः
एकादशभुवः सर्वे सास्रवा नृष्वकोपिनः

586

तत्र सास्रवा आर्यमार्गद्वेषित्वान्मनुष्येषूत्पाद्यन्ते । अकोप्यस्यार्हतः एकादशभुवश्च सप्तसामन्तकानि हित्वान्यास्वेकादशसु भूमिषु कामधात्वनागम्यध्यानान्तरध्यानारूप्येषु ।
पुनः
समाधिभावनाध्यानं सुखाय प्रथमं शुभम् ।
दर्शनायाक्ष्यभिज्ञोक्ता प्रज्ञाभेदाय यात्निकाः

587

"चतस्रः खलु समाधिभावनाः । अस्ति समाधिभावना आसेविता भाविता बहुलीकृता दृष्टधर्मविहाराय संवर्तते" इति विस्तरः । कुशलं खलु ( जैनि_426 ) प्रथमं ध्यानं शुद्धकमनास्रवं वा दृष्टधर्मसुखविहाराय समाधिभावना । तदधिकत्वात् अन्यान्यपि ज्ञेयानि । नावश्यं सम्परायसुखविहाराय, परिहीणोर्ध्वोपपन्नः परिनिर्विततदभावात् । दिव्यचक्षुरभिज्ञादर्शनाय समाधिभावना । प्रयोगजाः खलु सर्वे गुणास्त्रैधातुकानास्रवाः प्रज्ञाप्रभेदाय समाधिभावनाः ॥
यो ऽन्त्यो वज्रोपमे ध्याने सर्वक्लेशक्षयाय सा ।
यश्चतुर्थे ध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना ।
सूत्रं चैतत्समाख्यातं बुद्धेनात्मोपनायिकम्

588

अतश्चतुर्थमेव ध्यानमुक्तमिति ॥
अभिधर्मप्रदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य तृतीयः पादः समाप्तः ॥
अष्टमाध्याये
चतुर्थपादः ।
निर्दिष्टाः समाधयः । अतः परं समाधिसन्निश्रिता गुणा निर्दिश्यन्ते ।
अप्रमाणाकि चत्वारि मैत्री करुणा मुदितोपेक्षा च । अप्रमाणाः, सत्त्वाधिष्ठानप्रवृत्तेरप्रमाणपुण्यनिर्वर्तकत्वादप्रमेयेषु फलहेतुत्वाच्च ।
अथाप्रमाणानां कः स्वभावः ?
चतुर्णामप्रमाणानां मैत्र्यद्वेषस्तथा कृपा ।
मुदिता प्रीतिरेकेषामुपेक्षालोभ इष्यते

589

अद्वेषस्वभावा मैत्री । तथा करुणा अद्वेषस्वभावा । कस्तर्ह्येतयोरप्रमाणयोर्विशेषः ? उभयोरद्वेषात्मकत्वे ऽपि मैत्री सत्त्वापरित्यागवर्तिनो द्वेषस्य प्रतिपक्षो हर्षाकारप्रवृत्ता च । करुणा ताडनपीडनाभिप्रायवर्तिनो द्वेषस्य प्रतिपक्षो दैन्याकारप्रवृत्ता च । इत्यस्ति विशेषः । "सोमनस्यस्वभावामुदिता" इति पौराणाः । उपेक्षाप्यलोभात्मकैव । एषो ऽप्रमाणानां स्वभावः ।
कस्माच्चत्वार्येव न न्यूनान्यधिकानि वा ?
व्यापादस्य विहिंसाया अरतेस्तृड्द्विषस्तथा ।
प्रतिपक्षो ऽयमाख्यातो दमनार्थं स्वचेतसः

590

सूत्र उक्तम्- "मैत्री आसेविता भाविता बहुलीकृता व्यापादप्रहाणाय संवर्तते । करुणा विहिंसाप्रहाणाय । अरतिप्रहाणाय मुदिता कामरागव्यापादप्रहाणायोपेक्षा ॥ "
वृत्तिः पुनर्द्रष्टव्या-
सुखाधाने सुखा मैत्री दुःखनाशोन्मुखी कृपा ।
मुदिता मोदनानिम्ना सत्त्वा एभ्येव पश्चिमा

591

द्रष्टव्या वृत्तिरेतेषां
आकारस्तु पुनः कथं प्रतिपत्तव्य इति । तदपदिश्यते-
आकारैः सुखितादि भिः ।
सुखिता वत सन्तु सत्त्वा इति मनसि कुर्वन् मैत्रीं समापद्यते । दुःखिता वत सत्त्वा इति करुणाम् । मोदन्तां वत सत्त्वा इति मुदिताम् । सत्त्वा इत्येव मनसि कुर्वन्नुपेक्षां समापद्यते माध्यस्थ्यात् ।
एभ्यस्त्वन्यतमेनापि ब्रह्मसायुज्यमश्नुते

592

एभ्यो ऽप्रमाणेभ्य एकेनापि भावितेन ब्रह्मत्वं प्रतिलभ्यत इति ॥
किमालम्बना अप्रमाणाः, कति भूमिका वेत्यपदिश्यते-
नृषु कामावलम्बीनि ध्यानयोर्मुदिताह्वयोः ।
षड्भौमानि तदन्यानि केचिदिच्छन्ति सप्तसु

593

मैत्रीकरुणामुदितास्त्रयः कामावचरसत्त्वालम्बनाः । उपेक्षा अनियता इति । येषां तावद्भावनामयान्येतानि मुदिता च सौमनस्येन्द्रियं तेषां प्रथमद्वितीययोर्ध्यानयोर्मुदिता । नोर्ध्वं सौमनस्येन्द्रियाभावात् । अन्यानि त्रीण्यप्रमाणानि षट्सु भूमिष्वनागम्ये ध्यानान्तरे चतुर्षु ध्यानेषु । केचित् पुनः चिन्तामयान्यप्येतानि प्रमोद्यं च प्रीतेर्धर्मान्तरं इति तेषां सप्तभूमिका । प्रामोद्यस्य वेदनाद्वयसंयोगित्वात् । उक्तान्यप्रमाणानि ॥
अथ कति विमोक्षाः ।
विमोक्षाः कथिता अष्टौ तेषां द्वावशुभात्मकौ ।
तावाद्यध्यानयोरन्त्ये तृतीयो ऽलोभलक्षणः

594

रूपी रूपाणि पश्यतीति प्रथमो विमोक्षः । आध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यतीति द्वितीयो विमोक्षः । शुभं विमोक्षं कायेण साक्षात्कृत्वोपसम्पद्य विहरतीति तृतीयः । तेषां द्वावशुभस्वभावौ प्रथमौ तदाकारत्वाद् भूमितश्च तौ ससामन्तकयोः प्रथमद्वितीययोर्ध्यानयोर्ध्यानान्तरे च । ससामन्तके चतुर्थे ध्याने शुभो विमोक्षः । च चालोभस्वभाव एव न त्वशुभात्मकः, तच्छुभाकारप्रवृत्तत्वात् । सपरिवारास्त्वेते पञ्चस्कन्धस्वभावाः ॥
चत्वारः कुशलारूपा विमोक्षाख्या समाहिताः ।
निरोधाख्यसमापत्तिर्विमोक्षः कथितो ऽष्टमः

595

चत्वारो ऽन्ये विमोक्षाः समाहिताः कुशला एवारूप्याः द्रष्टव्याः । संज्ञावेदितनिरोधस्त्वष्टमो विमोक्षः । वैमुख्यार्थो हि विमोक्षार्थः, निरोधसमापत्तिः; सर्वसालम्बनप्रवृत्तिवैमुख्यात् ॥
तस्यास्तु संमुखीभावः सूक्ष्मसूक्ष्मादनन्तरम् ।
त्रिविधं हि भावाग्रिकं चित्तं संज्ञासूक्ष्मसूक्ष्माख्यभेदात् । एतद्यथाक्रममौदारिकम् । ( जैनि_431 ) अतः सूक्ष्मसूक्ष्माख्यं भवाग्रानन्तरं तां समापत्तिं समापद्यन्ते । तथा समापन्नानां तु
व्युत्थानचित्तमप्यस्याः स्वं शुद्धं निर्मलं त्वधः

596

सास्रवानास्रवत्वात् । तद्व्युत्थानचित्तस्य सास्रवेण चेद्व्युत्तिष्ठते भावाग्रिकेण । अनास्रवेण चेदाकिञ्चन्यायतनभूमिकेन ॥
अथैव विमोक्षाः किं विषयाः ?
कामावचरदृश्यार्था विमोक्षाः प्रथमास्त्रयः ।
कामावचरं रूपावचरमेषामालम्बनं यथायोगमशुभतः शुभतश्च ।
अन्ये त्वन्वयधीपक्षस्वोर्ध्वदुःखाद्यवेक्षिणाः

597

आरूप्यविमोक्षाणां स्वभूम्यूर्ध्वभूमिकं दुःखमालम्बनं तद्धेतुनिरोधौ च । सर्वचान्वयज्ञानपक्ष्यो मार्ग ऊर्ध्वाधरभूमिसंगृहीतः, अप्रतिसंख्यानिरोधश्च । उक्ता विमोक्षाः ॥
सूत्रे ऽभिभवसंज्ञाख्यं प्रोक्तमायतनाष्टकम् ।
विमोक्षाधिकवृत्त्येतच्चित्तैश्वर्यप्रदर्शकम्

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc