अभिधर्मदीप (टीका सहित) · श्लोक 541-560
प्रथमध्यानसामन्तं हित्वान्यानि सप्त सामन्तानि द्विप्रकाराण्यन्यत्रानास्रवात् । प्रथमध्यानसामन्तकं तु त्रिप्रकारम् । केचित्तु आस्वादनासंप्रयुक्तं नेच्छन्ति । तद्वद् ध्यानान्तरिका त्रिधेति वर्तते । यत्तत्राक्लिष्टं तदधराश्रयं द्रव्यमिति ॥
किं पुनरेषामास्वादनादिसंप्रयुक्तानां त्रयाणां लक्षणम् ? उच्यते-
आस्वादवत्सतृष्णं यच्छद्धकं लौकिकं मतम् ।
अदो(धो?)ध्वस्तं तदास्वाद्यमतिलोकमनास्रवम्
यत्खलु सतृष्णं तदास्वादनासंप्रयुक्तमित्युच्यते । तृष्णाया आस्वादपर्यायत्वात् । यत्तु न संप्रयुक्तं तदपि तृष्णासहगतत्वादास्वादवदित्युच्यते तृष्णयैकफलत्वात् । यत्तु सास्रवं कुशलं समापत्तिद्रव्यं तच्छुद्धकमाख्यायते । क्लेशमलासंपर्कादलोभादिशुक्लधर्मयोगाच्च ।
तदेतच्छुद्धकं तस्यास्वादनासंप्रयुक्तस्यास्वाद्यम् । तेन हि तत्समनन्तरातीतमास्वाद्यते । येनास्वादयति तमापन्नो यदास्वादयति तस्माद्व्युत्थितः । अन्योन्यसंसर्गाद्धि तृष्णासमाध्योर्न्नामनिर्वृतिः । तृष्णावशात्समाधेरास्वाद नाम, समाधिवशात्तृष्णायाः ध्यान नाम, अन्यथा विप्रतिषिद्धं स्यात् । न हि कश्चित्तृष्णां समापद्यते, न च समाधिनास्वादयतोति । लोकोत्तरं तु समापत्तिद्रव्यमनास्रवमित्युच्यते ॥
आसां पुनः समापत्तीनां ध्यानान्येवाङ्गवर्ति नारूप्याः । कति पुनः कस्य ध्यानस्याङ्गानि ? तदिदं प्रस्तूयते-
अङ्गान्याद्ये शुभे पञ्च वितर्कश्चित्तसूक्ष्मता ।
प्रीतिः सुखं समाधानं क्लिष्टं सुखविवर्जितम्
प्रथमे तावच्छुभे ध्याने पञ्चाङ्गानि वितर्कविचारप्रीतिसौख्यसमाधयः । क्लिष्टे चत्वारि सुखं हित्वा ॥
साध्यात्मसप्रसादास्तु सुखप्रीतिसमाधयः ।
द्वितीये ऽङ्गानि चत्वारि क्लिष्टे श्रद्धा सुखादृते
द्वितीये कुशले ध्याने चत्वार्यङ्गानि । आध्यात्मसंप्रसादः प्रीतिः सुखं चित्तैकाग्रता च क्लिष्टे द्वे श्रद्धा सुखं हित्वा ॥
तृतीये पञ्चमे प्रज्ञा स्मृत्युपेक्षा सुखं स्थितिः ।
क्लिष्टे त्वङ्गद्वयं ज्ञेयं समाधिर्वेदनासुखम्
तृतीये शुभे ध्याने उपेक्षा स्मृतिः संप्रज्ञानं सुखं समाधिश्च । क्लिष्टे तु द्वे ऽसमाधिर्वेदनासुखम्ऽ; ॥
अन्त्ये चत्वार्युपेक्षे द्वे समाधिः स्मृतिरेव च ।
क्लिष्टे ध्याने चतुर्थे तु द्वे अङ्गे वेदना स्थितिः
चतुर्थे खलु ध्याने शुभे चत्वार्यङ्गानि । अदुःखासुखावेदना उपेक्षा च स्मृतिपरिशुद्धिः समाधिश्च । क्लिष्टे तु द्वे वेदना स्थितिश्च ॥
कति पुनरेषां द्रव्यतो भवन्ति कति नामतः ?
द्रव्यात्मना दशैकं च नाम्ना त्वष्टौ दशैव च ।
अङ्गान्येतानि कथ्यन्ते चतुष्कोटिरतः स्मृतः
द्रव्यतः खल्वेकादश भवन्ति । प्रथमे ध्यानाङ्गानि पञ्च । द्वितीये ऽध्यात्मसंप्रसादो वर्धते । तृतीये समाधिवर्ज्यानि वर्धन्ते । चतुर्थे त्वदुःखासुखावेदनेति ।
ननु च यत् तृतीये ध्याने सुखमुक्तं तथा प्रथमद्वितीययोः..........
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य प्रथमः पादः समाप्तः ॥
अष्टमाध्याये
द्वितीयपादः ।
शमथस्य च ।
ध्यानसामन्तकारूप्येष्वङ्गानामव्यवस्थितिः
ध्यानसामन्तकेषु खलु विदर्शनोदृक्ता शमथो न्यूनः । आरूप्येषु सर्वत्र शमथो ऽधिकवृत्तिर्विपश्यना न्यूनतरा । विपश्य पश्यतो संज्ञायामिति वचनादङ्गिन्यपि पश्चादुद्देशो भवति । ततः सिद्धं विपश्यनाः ॥
यदा खलु चत्वार्यपि ध्यानानि विपाकं प्रति नेञ्जन्ते कस्माच्चतुर्थमेवानेज्यमुच्यते ? तत्रापदिश्यते-
वितर्कचारविध्वंसात्प्रश्वासाश्वाससंक्षयात् ।
उपेक्षावेदिताभावादन्त्यमानेज्यमुच्यते
त्रीणि खल्वपि ध्यानानि सेञ्जितान्युक्तानि भगवता वितर्काद्यपक्षालयोगात् । वितर्कविचाराश्वासप्रश्वासौ सुखदुःखसौमनस्यदौर्मनस्यानीत्यष्टापक्षालाः । तैश्चतुर्थं ध्यानमकम्प्यमित्युक्तमभिधर्मे । वितर्कविचारप्रीतिसुखैरकम्पनीयत्वादानेज्यं चतुर्थमुक्तं सूत्रे । आभिप्रायिकः सूत्रनिर्देशो लाक्षणिकस्त्वभिधर्मे । तथाहि "सुखदुःखयोः प्रहाणात्सौमनस्यदौर्मनस्ययोश्चास्तङ्गमाच्चतुर्थं ध्यानमुपसम्पद्य विहरति" इत्युक्तम् । अभिधर्मे वितर्कविचारप्रीतिसुखान्येवेञ्जितम् ॥
इदमिदानीं वक्तव्यम् । इह ध्यानसमापत्तिषु प्रथमद्वितीययोर्ध्यानयोः सौमनस्यमुक्तं प्रीतिवचनात् । प्रीतिर्हि सौमनस्यम् । तृतीये सुखं चतुर्थे उपेक्षा । तत्किंमुपपत्तिध्यानेष्वप्येष एव वेदनानियमः ? नेत्युच्यते । किं तर्हि ?
आद्ये प्रीतिसुखोपेक्षा द्वितीये तु सुखादृते ।
सुखोपेक्षे तृतीये ऽन्त्ये उपेक्षैव विदिष्यते
प्रथमध्यानोपपत्तौ खलु तिस्रो वेदनाः । सुखं त्रिविज्ञानकायिकं, सौमनस्यं मनोभौममुपेक्षा चतुर्विज्ञानकायिकी । द्विंतीयध्यानोपपत्तौ द्वे वेदने सौमनस्योपेक्षे मनोभूमिके । नात्र सुखमस्ति पञ्चविज्ञानकायाभावात् । तृतीयध्यानोपपत्तौ द्वे वेदने मनोभूमिके । चतुर्थध्यानोपपत्तावुपेक्षैव वेदना विद्यत इति ॥
ननु च द्वितीयादिषु ध्यानेषु रूपशब्दस्प्रष्टव्यानामुपलब्धयः सन्ति विज्ञप्तिसमुत्थापकं च चित्तम् । तत्कथं तत्र त्रिविज्ञानकायिका वेदना नास्तीत्युच्यते, वितर्कविचारौ चेति ? नैष दोषः । स्वभूमिकप्रतिषेधात् । कुतस्तेन तर्हि रूपादयो विज्ञायन्ते क यविज्ञप्तिश्चोत्थाप्यते ? तदपदिश्यते-
दृक्छ्रोत्रकायविज्ञानं विज्ञप्तिजनकं तथा ।
यद्भूमावविचारायामाद्यादव्याकृतं तु तत्
द्वितीयध्यानोपपन्नाः खलु रूपशब्दस्प्रष्टव्यान्युपलिप्सवो जिगमिषवो प्रथमध्यानभूमिकानि चक्षुविज्ञानादीनि त्रीणि विज्ञानानि विज्ञप्तिसमुत्थापकं च संमुखीकृत्य निर्माणचित्तवदुपलभन्ते स्पन्दन्ते चेति । तत्पुनः प्रथमध्यानभूमिकं चित्तमव्याकृतमेव संमुखीकुर्वन्ति न कुशलं न्यूनेनाबहुमानत्वान्न क्लिष्टं वीतरागत्वात् । तद्यथा कश्चिदीश्वरो दरिद्रमित्रगृहं गतः । तेनासौ सुहृदा सर्वस्वप्रदानेनोपनिमन्त्रितो मित्रचित्तानुवर्तनया हीनोत्कृष्टं वस्तु हित्वा यत्किञ्चिद् गृह्णीते तद्वदिति । व्याख्यातस्वरूपाणि ध्यानानि ॥
आरूप्याः वक्तव्याः । तदारभ्यते-
खनिमित्तोद्ग्रहाकृष्टः प्रोक्तानन्तमनस्कृतिः ।
विसर्वरूप आरूप्य आकाशानन्त्यसंज्ञकः
अनन्ताकाशनिमित्तोद्ग्रहः तत्संज्ञाप्रवृत्तिनिमित्तं पश्चात्तु चतुःस्कन्धालम्बनास्तदन्यतमालम्बना अन्यधर्मालम्बना वा मनस्काराः संमुखीभावं गच्छन्ति । उक्तं हि भगवता- "सर्व्वशो रुपसंज्ञानां समतिक्रमात्प्रतिधसंज्ञानामस्तगमान्नानात्वसंज्ञानाममनसिकारादनन्तमाकाशमानन्त्ययायतनमुपसम्पद्य विहरति" इति ।
कः पुनरासां तिसृणां रूपादिसंज्ञानां विशेषः ? प्रपञ्चरूपसंज्ञाभिरत्र विशेषो बोद्धव्यः । तदस्मादागमाद्विविधाद्या रूपारूप्यस्कन्धाः संगृहीताः । तत्र समापत्तिलक्षणा चित्तानुपरिवर्तिना शीलेन वियुता शेषेनोपपत्ति लक्षणात् । त एत आरूप्याः प्रथमारूप्यसामन्तकं हित्वा विभूतरूपसंज्ञा भवन्ति । प्रथमसामन्तकं तु चतुर्थध्यानाविदूषितवृत्तित्वाद्गाढबन्ध मिति । अतस्तदेकं न विभूतरूपसंज्ञाख्यं लभते ।
कथं पुनर्निर्धार्यते नारूप्येषु रूपमस्तीति ? आगमाद्युक्तितश्च । ( जैनि_413 ) आगमस्तावत्- "सर्वशो रूपसंज्ञानां समतिक्रमात्" इत्याविष्कृतमिदम् । अन्यदाप्तवचनम्- "अरूपिणः सन्ति सत्त्वाः" इति । ईषद्रूपत्वादरूपिणोनुदरा कन्यावदिति चेत् । न । सर्वश इत्यपदेशात्, निःसरणोक्तेश्च । उक्तं हि "रूपाणां निःसरणमारूप्याः" इति । यथा हि "यत् किञ्चिदभिसंस्कृतमभिसंविदितं निरोधस्तस्य निःसरणम् ।" निरोधे खलु सर्वसंस्कृतवियोगो ऽम्युपगम्यते । न हि मूर्तिविग्रहलक्षणो मोक्षः तत्प्रवृत्तिनिरोधित्वात् ।
युक्तिरपि । रूपाश्रयादीन्यवधूय स्वोद्वेगमुखेन तदाश्रयाद्दस्यूपद्रुततद्वियुक्तदेशाश्रयवत् । उक्तस्तर्ह्यारूप्येभ्यो रूपिषूपपद्यमानानां रूपमुत्पद्यते हेतुप्रत्ययाधिपतिप्रत्ययबलात्, नामरूपस्यान्योन्यहेतुत्वाच्च । तत्र सभागविपाकहेत्वोरेव तयोरप्यस्तित्वात् कारणत्वं रूपप्रत्ययेन च विज्ञानोत्पत्तिदर्शनात्, चित्तविशेषोत्पादात् महाभूतेन्द्रियप्रसादादिरूपोत्पत्तिदर्शनाच्चान्योन्यहेतुत्वसिद्धिः ॥
उक्तः प्रयोगप्रथमारुप्यः । द्वितीयो ऽप्युच्यते-
तद्वच्चित्तविभुत्वेक्षी विज्ञानानन्त्यलक्षणः ।
आकाशानन्त्यसंज्ञाद्वेषी तदालम्बनानन्त्यविज्ञानाधिमोक्षाभिमुखबुद्धिरनन्तं विज्ञानानन्त्यायतनमुपसम्पद्य विहरति । अत्रापि पश्चाच्चतुःस्कन्धालम्बनास्तदन्यतस्कन्धालम्बना शाश्वतधर्मालम्बनाश्च मनस्काराः संमुखीभवन्ति । तद्विक्षिप्तसंज्ञकः
विज्ञानानन्त्यद्वेषी च अकिञ्चन्याह्वयः पुनः
स खलु योगी विज्ञानानन्त्यसंज्ञाद्वेषी तत्राकिञ्चनसंज्ञित्वादाकिञ्चन्यायतनमुपसम्पद्य विहरति । अथवा नास्ति किञ्चिंदुपेक्षाप्रयोगनिष्पत्तिराकिञ्चन्यायतनमित्युच्यते । अनन्ताकारौदारिकदर्शनो हि तद्विवेके संज्ञाविमोक्षः प्रवर्तते । अत एवाकिञ्चन्यायतनं परमोपेक्षेत्युच्यते । यस्मात्तत्रानन्ताकारानभिसंचेतना चेतसो ऽनाभोगता संतिष्ठते ॥
तद्वित्तूच्छेदशङ्की च न संज्ञासंज्ञसंज्ञकः ।
स खलु संक्षिप्तामपि विभुत्वसंज्ञां संज्ञाशल्य इति कृत्वा तामल्पामपि विस्पष्टपरिच्छिन्नरूपां संज्ञामुत्सृज्योच्छेदशङ्की च विस्पष्टरूपां सतीं नैवसंज्ञं नासंज्ञमुपसम्पद्यते । अतो नैवसंज्ञानासंज्ञायतनं समापद्यते । न संज्ञावेदितनिरोधं नापि विस्पष्टां पूर्वसमापत्तिसंज्ञाम् । सर्वैषु चारूप्येषु
आदौ तथा प्रयुक्तत्वात् तत्संज्ञा व्यपदिश्यते
न तु तन्मात्रसंज्ञा एवारूप्या इत्याविष्कृतमेतत्पूर्वमेवेति । व्याख्यातानि मौलान्यष्टौ समापत्तिद्रव्याणि ॥
सामन्तकानां पुनरादिध्यानसामन्तकस्यानागम्याख्यस्य किं रूपम् ? तदपदिश्यते-
सवितर्कविचारं यत्सापेक्षं सानुवर्तकम् ।
चित्तमार्येतराकारं तदानागम्यमुच्यते
यत्खलु प्रथममौलध्यानप्रवेशोपायचित्तं सवितर्कं सविचारमुपेक्षावेदनासंप्रयुक्तं सानुपरिवर्तकं...............
......अभिधर्मदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य द्वितीयपादः ॥ .......
अष्टमाध्याये
तृतीयपादः । ......
..........व्युत्क्रान्तकसमापत्तिं, समापद्यन्ते तदपदिश्यते-
चत्वारो ध्यायिनः प्रोक्ताश्चतुर्ध्यानविदर्शनात् ।
सम्पद्विपत्तिसंज्ञाया हानपक्ष्यादिवेदिनः
चत्वारो हि ध्यायिनो भगवतोक्ताः । "तेषामेकः समापत्तौ विपत्तिसंज्ञी, द्वितीयो विपत्तौ सम्पत्तिसंज्ञी, तृतीयः सम्पत्तौ सम्पत्तिसंज्ञी, चतुर्थो विपत्तौ विपत्तिसंज्ञी" इति । एते हानस्थितिविशेषोत्कर्षध्यानभेददर्शनयोगात् चत्वारो भवन्ति ॥
कः पुनरयं ध्याता कानि वा ध्यानध्येयध्यानफलानि ? तदाविष्क्रियते-
ध्याता प्रोक्तस्तथा ध्येयं ध्यानं ध्यानफलं तथा ।
सर्वमेतच्चतुष्टयं पूर्वमेव विस्तरेणाभिहितम् । भवतस्तु
असिद्धेरुक्तदोषत्वान्नास्त्यात्मादिचतुष्टयम्
न हि तवैतच्चतुष्टयं सिद्धम् औपनिषदसांख्यवैशेषिकादिपरिकल्पितप्रमातृप्रमाणप्रमेयप्रमाणफलानि पूर्वमेवोक्तदोषाणि ॥
किं पुनः कर्मानुष्ठानान्मोक्षो भवति, आहोस्विज्ज्ञानानुष्ठानादिति ? तत्र ब्रूमः-
कर्मानुष्ठानतो मोक्षो ज्ञानानुष्ठानतस्तथा ।
व्यापारे सति सद्भावाद्याथात्म्यावगमेपि च
त्रीणि खलु कर्माणि । दानशीलभावनाख्यान्यनुष्ठाय दश च ज्ञानानि धर्मस्वसामान्यलक्षणसंमोहप्रतिपक्षभूतान्यनुष्ठाय परं ब्रह्म प्राप्नोति नान्यथेति । तदेतदाविष्क्रियते-
कर्म त्वत्र द्विधा ज्ञेयं पुण्यापुण्यक्रियाक्रिये ।
तत्र खलु
पुण्यक्रिया त्रिधा प्रोक्ता विरतिस्तद्विधोदिता
कर्मादिचिन्तायाम् ॥
ज्ञानं तु नैष्ठिकं ज्ञेयं यथापूवंमुदाहृतम् ।
अतो ऽन्यद्भजते यस्तु खलीनं चर्वयत्यसौ
यस्तु मन्यते पश्वाद्यालंभनादिभिः कर्मभिः भोक्तृभोग्यान्तरपरिज्ञानादिभिश्च मोक्षो भवति स वक्तव्यः ऽखलीनं चर्वयति ।ऽ; यस्मात्
परपीडाप्रवृत्तत्वाद्वधलोभानृतादयः ।
अपायहेतवो ज्ञेयाः श्रेयोद्वारविबन्धिनः
मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0