भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 521-540

521

परचित्ताभिज्ञा त्रीणि स्मृत्युपस्थानानि कायस्मृत्युपस्थानं हित्वा । चित्तचैत्तालम्बना खल्वेषा । ऋद्धिश्रोत्रचक्षुरभिज्ञाः कायस्मृत्युपस्थानं रूपालम्बनत्वात् । ऋद्धिः खलु चतुर्बाह्यायतनालम्बना । दिव्यश्रोत्रचक्षुषी यथाक्रमं शब्दरूपायतनालम्बने ।
कुशलादिभेदेन तु
दिव्यमव्याकृतं श्रोत्रं नेत्रं चान्या शुभा मताः ।
दिव्यश्रोत्रचक्षुषी किलाव्याकृते । तच्च न । अभिज्ञानां विमुक्तिमार्गस्वभाव्याच्चक्षुःश्रोत्रविज्ञानयोश्चाविकल्पत्वाद्विमुक्तिज्ञानानुत्पत्तिः । चतुर्षु ध्यानेषु तु अस्ति प्रज्ञाविशेषः स्वभूमिकभूतफलो यत्संमुखीभावात्स्वभूमिकफलमेव चक्षुःश्रोत्रं संमुखीभावं गच्छति । यत्तच्चक्षुःश्रोत्रविज्ञानयोराश्रयी भवति तस्मान्न तद्विज्ञाने संप्रयुक्ता प्रज्ञाभिज्ञेति ।
कथं पुनरेतयोरभिज्ञाशब्दः ? तदुच्यते-
अभिज्ञाफलताभिज्ञा मनोविज्ञानप्रज्ञया

522

अभिज्ञाफलमत्राभिज्ञाशब्देनोक्तम् । मनोविज्ञानसंप्रयुक्तया तु प्रज्ञयाभिजानातीति । सैवाभिज्ञा निरूपकत्वात् ।
कति पुनरासां विद्या ?
तिस्रो विद्या मतास्त्र्यध्वसंमोहादिव्युदस्तये ।
एका स्वभावतो ऽशैक्षी द्वे त्वशैक्षाश्रयोदयात्

523

पूर्वनिवासच्युत्युपपादास्रवक्षयज्ञानतत्साक्षात्क्रियास्तिस्रः खल्वशैक्ष्यो विद्या उच्यन्ते । कस्मादेता एव ? एत एव तिस्रो विद्याः यस्मादाभिरविद्यात्रयं विनिवर्तते । पूर्वेनिवासाभिज्ञाज्ञयापूर्वान्तसंमोहः निवर्तते । च्युत्युपपादाभिज्ञया त्वपरान्तसंमोहो निवर्तते । आस्रवक्षयाभिज्ञया मध्याध्वसंमोहः ।
यद्यपि च तिस्रो ऽप्यशैक्षास्तथापि ऽएका स्वभावतो ऽशैक्षी द्वे त्वशैक्षाश्रयोदयात्ऽ; । अन्त्या वाशैक्षी स्वभावतः सन्तानतश्च । आद्ये द्वे त्वशैक्षसन्तानादशैक्षावित्युच्यन्ते ।
कति पुनरासां प्रातिहार्याणि ?
ऋद्धिचित्तक्षयाभिज्ञा प्रतिहार्यत्रयं स्मृतम् ।
हरतो द्वे कुशास्तृभ्यो मारेभ्यो हरते परम्

524

ऋद्ध्यादेशनाप्रातिहार्ये खलु कुशास्तृभ्यः कपिलोलूकाक्षपादादिभ्यो विनेयजनचित्तमपहृत्य बुद्धे भगवति परमार्थशास्तरि संनियोजयतः । अनुशासनाप्रतिहार्यं मारेभ्यो ऽपहृत्य सर्वज्ञं मार्गदेशिके प्रवरे प्रतिष्ठापयति ॥
का पुनरियमृद्धिः ?
समाधी ऋद्धिरित्युक्ता फलमैश्वर्यष्टधा ।
द्विधैतद्गतिनिर्माणे त्रिविधा गतिरिष्यते

525

ऋद्धिः खलु समाधिरूपा तत्फलत्वात्तु प्रातिहार्यमृद्धिरत्युक्तं सूत्रे । अङ्गपरिगृहीते समाधौ सति सर्वमेतत्प्रातिहार्य मृद्ध्यति । तस्मात्समाधिरेव ऋद्धिः । तस्याः फलमष्टगुणमैश्वर्यमणिमादि ।
यच्च सूत्रे ऽपदिष्टमेकानेकयथेच्छितरूपावस्थानादिस्तत्पुनरेतमृद्धिफलं द्विविधं गतिश्च निर्माणं च । गतिरपि त्रिविधा । तत्र
मनोमयी गतिः शास्तुरिच्छामात्रप्रवृत्तितः ।
अधिमोक्षकृतान्येषां ततो देहाभिवाहिनी

526

मनोजवाःखलु ऋद्धिर्बुद्धस्यैव । मनस इव जवस्तस्याः । यावता कालेन चक्षुर्विज्ञानं नीलं प्रतिपद्यते यावता कालेन भगवाञ्च्छरीरेण सर्वलोकान्तराणि व्याप्नोत्यनन्तर्द्धिशरीरा हि बुद्धा भगबन्तो ऽनाभोगेन यथेच्छिताभिप्रायसिद्धेः भगवतो बुद्धस्य । श्रावकादीनां पुनः शरीरवाहिनी गतिर्भवति यथा देवानां पक्षिणां वा । आधिमोक्षिकी च दूरमप्यासन्नमधिमुच्यास्तगमनं संपद्यते । बाहुप्रसारणमात्रेण सुमेरुमूर्द्धनि प्रादुर्भवति । व्याख्यातं समाधिफलम् ॥
गमनं निर्माणमिदानीं वक्तव्म् । तद्द्विविधं कामावचरं रूपावचरं च । तत्र तावत्-
रूपगन्धरसस्पर्शाः कामे निर्माणमिष्यते ।
रूपस्पर्शौ मतौ रूपे स्वेशरीरे ऽथ वा बहिः

527

कामावचरं खलु बाह्यमायतनचतुष्टयं निर्मीयते । नान्यदीश्वरकर्तृत्ववादाभ्युपगमप्रसंगात् । रूपावचरं त्वायतनद्वयं तत्र गन्धरसाभावात् । तत्पुनरेतत् स्वशरीरे परशरीरे च द्रष्टव्यम् । एतच्चतुर्विधं निर्माणं कामधातावेवं रूपधातौ द्रष्टव्यम् । इत्यष्टविधं निर्माणम् ।
किं खलु निर्माणमभिज्ञया निर्मीयते ? किं तर्हि ?
अभिज्ञाफलचित्तेन तत्तानि तु चतुर्दश ।
आद्यध्यानफलं द्वे तैरूर्ध्वभूम्येकवृद्धितः

528

प्रथमध्यानफले खलु निर्माणचित्ते कामावचरं प्रथमध्यानभूमिकं च, द्वितीयध्यानफलानि त्रीणि, तृतीयध्यानफलानि चत्वारि, चतुर्थध्यानफलानि पञ्च ॥
कथं पुनर्निर्माणचित्तानि लभ्यन्ते ?
तल्लाभो ध्यानवत् ज्ञेयः
यथा खलु ध्यानानि वैराग्यत उपपत्तितः प्रयोगतश्च लभ्यन्ते तथा निर्माणचित्तानि ।
कथं पुनस्तदुत्पद्यते ?
शुद्धकाच्च स्वतश्च तत् ।
शुद्धकाद् ध्यानादनन्तरं निर्माणचित्तमुत्पाद्यते निर्माणचित्तादेव वा नान्यतः । ततः खल्वपि निर्माणचित्तादनन्तरं शुद्धकध्यानं निर्माणचित्तं चोत्पद्यते नान्यत् । सर्वस्य च निर्मितस्य
स्वभूमेनैव निर्माणमधरेणापि भाषणम्

529

न खल्वन्यभूमिकं निर्माणमन्यभूमिकेन निर्माणचित्तेन निर्मीयते । भाषणं तु स्वभौमेनाधरभौमेन च । कामधातुप्रथमध्यानभूमिको हि निर्मितः स्वभूमिकेनैव चित्तेन भाषते । ऊर्ध्वभूमिकास्तु प्रथमध्यानभूमिकेन, तत्रैव विज्ञप्तिसमुत्थापकचित्तसद्भावात् ॥
किं पुनर्निर्मितनिर्मात्रोः क्रमेण वाग्भाषणं भवत्यथ युगपत् ? तदुच्यते-
निर्मात्रैव सहैतेषां भाषणं सुगतादृते ।
उक्तं हि
"एकस्य भाषमाणस्य सर्वे भाषन्ति निर्मिताः ।
एकस्य तूष्णीं भूतस्य सर्वे तूष्णीं भवन्ति ते ॥ "
भगवतस्तु इच्छातः पूर्वं पश्चाद्युगपद्वा निर्मिता भाषन्ते । तेषां पुनः
एकस्य ब्रुवतः सर्वे निर्मिता ब्रुवते समम्

530

अधिष्ठाय तु निर्माणं भाषन्ते ऽन्येन चेतसा ।
ऽअधिष्ठाय तु निर्माणंऽ; संस्थाप्येत्यर्थः । अन्येन चेतसा विज्ञप्तिसमुत्पादकाख्येन वाचं प्रवर्तयतीत्यतो ऽपि नास्ति निर्माणान्तर्धानो दोषः । तत्पुनरेतदधिष्ठानं न केवलं जीवत एव । किं तर्हि ?
अधिष्ठानं मृतस्यापि स्थिरस्यैव तु वस्तुनः

531

आर्यमहाकाश्यपाधिष्ठानेन तदस्थिशंकलापस्थानश्रवणात् स्थिरस्यास्थिलक्षणस्य न मांसरुधिरादीनामस्ति ॥
किं पुनरेकचित्तेनैकं निर्मितं निर्मिणोत्यथ बहून् ?
अजय्येकमनेकेन जयिणस्तद्विपर्ययः ।
आद्याभिनिर्हारैर्बहुभिर्निर्माणचित्तैरेकं सोपादानं च निर्मितं निर्मिणोति । ( जैनि_403 ) र्जितायां त्वभिज्ञायां निर्मातुरिच्छया बहूनप्येकचित्तेन निरूपादानमपि च निर्मिणोति ।
तत्पुतरेतन्निर्माणचित्तं द्विविधं भावनामयमुपपत्तिप्रातिलम्भिकञ्च । तत्र
अव्याकृतमभिज्ञोत्थं उपपत्त्य त्वयं त्रिधा

532

यत्खलु भावनाफलं निर्माणचित्तं तदव्याकृतं भवति । उपपत्तिप्रातिलम्भिकं तु कुशलादिना त्रिप्रकारम् । तदुपपत्तिफलं दशातिशययुक्तम् ।
अर्हतां दशधा त्वेतदैश्वर्यमुपपद्यते ।
सर्वास्रवक्षयज्ञानविमुक्तिद्वययोगतः

533

यदेततदणिमादिशैक्षान्तं दशविधमैश्वर्यसुखं तदतिशययुक्तमर्हतामेवोपपद्यते ॥
यदि तर्हि त्रयाणामर्हतामेतदैश्वर्यं समानमस्ति कस्तर्हि विशेषः शास्तृशिष्ययोः ? तत्रेदमुपदिश्यते-
ऐश्वर्यपि समानेस्मिन्यथोक्ते शास्तृशिष्ययोः ।
अन्तरं सुमहच्छास्तुर्यत्तत्पूर्वमुदाहृतम्

534

दशबलाद्यावेणिकबुद्धगुणचिन्तायां चतुष्प्रत्ययता नद्युत्तरणे गन्धहस्त्य श्वशशकदृष्टान्तैश्च विशेषान्तरं बोद्धव्यमिति ॥
अभिधर्मप्रदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य चतुर्थः पादः ॥
समाप्तश्च ज्ञानविभागो नाम सप्तमो ऽध्यायः ॥
अष्टमो ऽध्यायः ।
प्रथमः पादः ।
व्याख्याता हि विस्तरशो विदर्शना । शमथ इदानीं वक्तव्यः । स खल्वेष शमथश्चतुर्थध्यानारूप्यसंगृहीतः । तत्र तु
साङ्गा चित्तस्थितिर्ध्यानं तच्चतुर्धाङ्गभेदतः ।
शमथः खलु साङ्गा कुशला चित्तैकाग्रता ध्यानमित्युच्यते । यस्य खलु धर्मस्याङ्गपरिगृहीततो(स्यो ?) द्रेकात् चित्तचैत्तान्यालम्बनान्तरं न प्रतिपद्यन्ते स धर्मश्चैतसिकः समाधिरित्याख्यायते । तदङ्गभेदेन चतुर्विधमिति वक्ष्यामः । तस्यां पुनश्चित्तस्थितौ
ध्यानोक्तिराञ्जसी तत्र भाक्ती तत्सहभूष्वपि

535

समाधिस्वभावं खलु परमार्थेन ध्यानम् । सपरिवारं तु गृह्यमाणं पञ्चस्कन्धस्बभावम् । भक्तिकल्पनया तत्सहभूष्वपि धर्मेषु ताच्छब्द्यम् ॥
संक्षेपादियमाख्याता ध्यानजातिश्चतुर्विधा ।
प्रथमं ध्यानं द्वितीयं तृतीयं चतुर्थमिति ।
द्रव्यभेदानहं तस्याः प्रवक्ष्यामि यथागमम्

536

द्रव्यभेदस्तु ध्यानजातेश्चतुर्विधायाः समापत्तिजातेश्च तावत्या एव समासेन वक्ष्यामि ॥
तत्र तावत् ।
सहारूप्यचतुष्ट्वेन समापत्तिर्मताष्टधा ।
चतुः पञ्चेषु स्कन्धेषु तदुक्तेर्वर्गवृत्तितः

537

पञ्चस्कन्धेषु वर्गीभूतेषु ध्यानसमापत्तिः प्रज्ञाप्यते । चतुःपञ्चेष्वारूप्यसमापत्तिरिति ॥
भेदेन तु समापत्तिद्रव्याणि दश सप्त च ।
सामन्तकैः सहाष्टाभिर्ध्यानान्तरिकयापि च

538

अष्टानां खलु समापत्तिभूमीनामष्टानामेव सामन्तकद्रव्याणां तत्प्रवेशोपायभूतानि ध्यानान्तरिका च प्रथमध्यानसंगृहीता । एतानि खलु सप्तदश यथास्थौल्यं भिद्यमानानि सप्तदश भवन्तीत्यत आह-
तद्भेदाः खल्विमे ऽन्येपि वक्ष्यन्ते शास्त्रचोदिताः ।
अन्ये ऽपि खलु समापत्तिभेदास्तदन्तर्गता एव सूत्राभिधर्मोदिता वक्ष्यन्ते ।
बुद्धबुद्धेस्तु ते सर्वे तत्त्वेनायान्ति गोचरम्

539

भगवानेब हि सर्वप्रथमध्यानसमापत्त्यादिभेदेषु, अनन्तस्वभावप्रभावक्रियाफलेष्वपरोक्षबुद्धिवृत्तिरिति ॥
त एते ध्यानारूप्यास्त्रिप्रकाराः कथम् ? तदारभ्यते-
त्रिधा ध्यानानि मौलानि सास्वादादिप्रभेदतः ।
तथैव त्रय आरूप्या भवाग्रं तु द्विधा मतम्

540

तत्र मौलानि तावद् ध्यानानि त्रैविध्यान्यास्वादनासंप्रयुक्तशुद्धकानास्रवभेदात् । एवं त्रयो मौला आरूप्याः । भवाग्रं तु नास्त्यनास्रवम् । कामधातोर्भवाग्रस्य च भवमूलत्वात् ॥
सामन्तानि द्विधा सप्त प्रथमं तु त्रिधा मतम् ।
ध्यानान्तरं त्रिधा तद्वदक्लिष्टं त्वधराश्रयम्

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc