अभिधर्मदीप (टीका सहित) · श्लोक 501-520
सप्तमं षोडशाकारमविभक्ताकृतिद्वयम् ।
अष्टाकारं द्वितीयं तु नवज्ञानमयं तु यत्
तथागतबलं प्रोक्तं तज्ज्ञेयं द्वादशाकृति ।
स्थानास्थानज्ञानबलं षोडशभिराकारैः प्रवर्तते । अन्यैश्च तन्निर्मुक्तैरास्रवक्षयज्ञानबलमपि यदि सोपायं क्षयं विवक्षति तदपि षोडशाकारम् । अथ क्षयमात्रं तत्, षड्ज्ञानमयैराकारैः सर्वत्रगामिनीं प्रतिपज्ज्ञानबलं सप्तमं तदपि तथैव षोडशाकारम् । द्वयं तु पूर्वेनिवासानुस्मृतिच्युत्युपपत्तिज्ञानबलमविभक्ताकारबलम् । द्वितीयं तु कर्मविपाकज्ञानबलमष्टाकारम् । यत्तु समाधिसमापत्तिज्ञानबलं तस्य नवज्ञानस्वभावं तैरेव द्वादशभिराकारैः प्रवर्तते । अन्यद्यन्नोक्तं तदभ्यूह्यम् ।
किं पुनः किं गोचरम् ?
सर्वगोचरमत्राद्यमन्त्यं शान्त्यवलम्बि वा
सर्वविषयं स्थानास्थानबलम् । आस्रवक्षयज्ञानबलं निर्वाणविषयं वा चतुःसत्यविषयं वा ॥
द्विधा हेतुभवालम्बं सप्तमं सत्यगोचरम् ।
कर्मविपाकज्ञानबलं भवविषयम् । सर्वत्रगामिनी प्रतिपत्ज्ञानबलं चतुःसत्यालम्बनम् ।
अतीताद्यद्धि धात्वर्थमष्टमं समुदाहृतम्
पूर्वेनिवासानुस्मृतिज्ञानबलं ऽअतीताद्यद्धिऽ; धातुगोचरम् ॥
नवमं खलु रूपार्थं संस्कृतालम्ब्यते परम् ।
च्युत्युपपत्तिज्ञानबलं रूपायतनविषयम् अन्यद्यदवशिष्टं तत्संस्कृतधर्मगोचरं द्रष्टव्यम् ।
अत्र पुनः
द्व्यपेक्षो बलशब्दो ऽयं बलं त्वप्रतिघाततः
पराभिभवापेक्षश्च सर्वाप्रतिघातित्वेन च । यत्खलु अप्रतिहतसामथ्य तद्बलमित्युच्यते । मानसं बलं दशविधं भगवतो व्याख्यातम् ॥
कायिकमप्यभिधीयते-
सन्धौ सन्धौ च बुद्धस्य कायेनारायणं बलम् ।
स्प्रष्टव्यमधिकं तत्तु दश हस्त्यादिसप्तकात्
नारायणं नाम बलमुच्यते । तच्च भगवतो मर्मणि मर्मणि विद्यते । नागग्रन्थिशङ्कलाशङ्कुसन्धयश्च यथाक्रमं बुद्धप्रत्येकबुद्धचक्रवर्तिनः ।
किं प्रमाणं पुनस्तन्नारायणं बलम् ? यत्खलु दशानामितरहस्तीनां बलं तदेकस्य गन्धहस्तिनः । एवं दशोत्तरवृत्त्या महानग्नप्रस्कन्दिवराङ्गचानूरनारायणानां वाच्यम् । ऐरावणसहस्रस्येत्यन्ये । स हि देवोद्यानयात्रासमये त्रयस्त्रिंशच्छिरसमात्मानमभिनिर्मायात्यद्भुतविचित्रोद्यानायायमानानि तावन्त्येव देवकुलान्यनेकसहस्रपरिवाराणि भूर्जपत्रवदादाय गच्छःयेष बलसमुदयस्तस्य । एवं तु वर्णयन्ति मानसबलवदनन्तं कायिकमपि बलं बुद्धानां भगवतामिति । तत्पुनः कायिकं बलं स्पृष्टव्यायतनसंगृहीतम् । गुरुत्वेन बलसंग्रहो लघुत्वेन दौर्बल्यस्येति वर्णयन्ति ।
स्वपरार्थान्तसम्प्राप्तेर्वैशारद्यचतुष्टयम् ।
आद्यन्तबलरूपे द्वे द्वे कर्म प्रतिपद्धियोः
सूत्र उक्तम्- "सम्यक्सम्बुद्धस्य वत मे सत इमे धर्मास्त्वयानभिसम्बुद्धाः" इति विस्तरः । अत्र हि प्रथमद्वितीयाभ्यां स्वार्थसम्पद्भगवतोद्भाविता । पूर्वेण ज्ञानसम्पत् । द्वितीयेन प्रहाणसम्पत् । द्वाभ्यामन्याभ्यां परार्थसम्पदा दर्शिता व्यवदानसंक्लेलोद्भावनात् ।
कतरत्पुनर्वैशारद्यं कति ज्ञानात्मकम् ? तदुच्यते । स्थानास्थानबलरूपमाद्यम् । आस्रवक्षयज्ञानरूपं द्वितीयम् । कर्मस्वकज्ञानबलं तृतीयम् । सर्वत्रगामिनीप्रतिपत्ज्ञानबलं चतुर्थं वैशारद्यम् । तद्यावज्ज्ञानस्वभावान्येतानि वलानि तावत्स्वभावानि यथाक्रमं चत्वारि वैशारद्यानि बोद्धव्यानि ।
सूत्र उक्तम्- "त्रीणीमानि स्मृत्युपस्थानानि यान्यार्यः सेवते" इति विस्तरः । तेषां पुनरिदं लक्षणम्-
श्रोतृसम्पत्त्रयापेक्षा त्रिविधा स्मृत्युपस्थितिः ।
संस्माराहितसामर्थ्यसंप्रजन्यस्वलक्षणा
शुश्रूषकाशुश्रूषकादिभेदाद्विनेयानां त्रैविध्येन व्यवस्थानम् । शुश्रूषकादिवर्गत्रयाभिसन्धेः । स्वभावः पुनः स्मृतिविशिष्टसंप्रजन्यत्रयस्वभावानि त्रीणि स्मृत्युपस्थानानि । स्मृतिविशिष्टसंप्रजन्यतो हि भगवतः शुश्रूषमाणाशुश्रषमाणतदुभययुक्तेषु विनेयसमूहेषु नानन्दो भवत्याघातो वा ॥
महाकरुणा पुनः
संवृतिज्ञानरूपत्वाद्दीर्घकालानुसारतः ।
सर्वत्र समवृत्त्यादेर्बद्धस्यैव महाकृपा
यदा श्रावकस्यापि करूणा विद्यते प्रत्येकबुद्धस्यापि कस्माद् बुद्धस्यैव महाकृपेत्युच्यते ? यस्मादियं संवृतिज्ञानस्वभावा श्रावकादीनामद्वेषस्वभावा बुद्धस्य च दीर्घकालानुगता सूक्ष्मानुगता सर्वसत्त्वसमग्रहप्रवृत्ता सर्वत्रानुगता च द्वात्रिंशन्महापुरुषलक्षणविद्योतितशरीराध्यासिनी दशबलपरिगृहीता च । तस्माद् बुद्धस्यैव भगवतो महाकृपेत्युच्यते । उक्ता असाधारणगुणाः ॥
श्रावकसाधारणा उच्यन्ते-
अरणा प्रणिधिज्ञानं चतस्रः प्रतिसंविदः ।
अर्हत्सान्तानिका ह्येते पञ्च तु प्रान्तकोटिकाः
इतरैरपि सामान्या अप्रमादादयो गुणाः ।
एषां यथोपदिष्टानां शृणु वक्ष्यामि लक्षणम्
तत्र तावत् ।
अरणा संवृतिज्ञानं नृजान्त्यध्याननिश्रयात् ।
आर्यसन्तानिका जाता सवस्तुकमलेक्षिणी
इह कश्चिदर्हन्नकोप्यधर्मा सर्वक्लेशप्रहाणात्परमामृतसुखमनुभवत्येवं चित्तमुत्पादयति- कथं नाम परे ऽपि इमे सन्तानालम्बनाद् क्लेशान् नोत्पादयेयुः कथञ्च तमनिष्टफलं नानुभवेयुः । चतुर्थं ध्यानं विवृद्धिकाष्ठागतं समापद्य तथा करोति यथास्य चारविहारगतस्य सन्ताने न कश्चित्क्लेशमुत्पादयति ।
प्रणिधिज्ञानमप्येवं सर्वधर्मावलम्बि तु ।
अकोप्यधर्मणो ख्याते तथैव प्रतिसंविदः
प्रणिधिज्ञानमपि संवृतिज्ञानस्वभावं प्रान्तकोटिक चतुर्थध्यानलाभात्, अर्हद्यद्यत्प्रणिधत्ते तत्तज्जानीते प्रणिधिज्ञानस्य सर्वधर्मालम्बनत्वात् ॥
प्रतिसंविदः खल्वपि
विवक्षितार्थसम्बन्धिनामसंमोहभेदिनी ।
आद्यान्या तदभिव्यङ्ग्या ज्ञेया ज्ञानविचारिणी
तृतीया शब्दसंस्कारा ज्ञानसंमोहघातिनी ।
तुरीया तु प्रबन्धोक्तिर्ध्यानाद्युत्पादनोन्मुखी
तत्र द्वादशाङ्गप्रवचनसंगृहीतेषु वक्ष्यमाणार्थसम्बन्धिषु विवक्षितेषु नामकायादिषु यदविवर्त्यं ज्ञानं सा धर्मप्रतिसंवित् । तदवद्योत्येषु पौरूषेयापौरुषेयसम्बन्धेषु परार्थसंवृत्यर्थराशिषु यदविवर्त्यं ज्ञानं सार्थप्रतिसंवित् । नामकायादिवाचक एव वाक्छब्देष्वरूपद्रव्यलिङ्गसंख्यासाधनक्रियाकालपुरुषो पग्रहसम्बन्धिनि यदविवर्त्यं ज्ञानं सा निरुक्तिप्रतिसंवित् । धर्मार्थनिरुक्तिषु ध्यानविमोक्षसमाधिसमापत्तिवशित्वसंप्रख्याने यदविवर्त्यं ज्ञानं सा प्रतिभानप्रतिसंवित् ।
त एते षड्गुणाः प्रान्तकोटिकमित्युच्यन्ते ॥
का कति भूमिकाः पुनरासां प्रतिसंविदां का वा कति ज्ञानमयी ? तदवद्योत्यते-
अर्थाख्या खलु सर्वत्र षड्ज्ञानान्यथवा नव ।
अर्थप्रतिसंवित् सर्वासु भूमिषु कामधातौ यावद्भवाग्रे नवज्ञानस्वभावा निरोधज्ञानं वर्जयित्वा षड्ज्ञानानि निर्वाणस्यैव परमार्थत्वात्, परचित्तदुःखसमुदयमार्गज्ञानानि वर्जयित्वा ।
प्रतिभानाह्वयाप्येवं दशज्ञानमयी त्वसौ
प्रतिभानप्रतिसंविदपि सर्वासु भूमिषु दशज्ञानमयी ।
तत्र
कामे ध्यानेषु धर्माख्या तदन्या त्वाद्यकामयोः ।
धर्मप्रतिसंवित् कामधातौ चतुर्षु ध्यानेषु निरुक्तिप्रतिसंवित् कामधातौ प्रथमे च ध्याने ।
संवृतिज्ञानमय्यौ तु द्वे एते प्रतिसंविदौ
उभे अप्येते संवृतिज्ञानस्वभावे धर्मनिरुक्तिप्रतिसंविदाविति ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य तृतीयः पादः समाप्तः ॥
सप्तमाध्याये
चतुर्थपादः ।
पृथग्जनसाधारणाः इदानीमभिज्ञादयो गुणा वक्तव्याः । त इम उच्यन्ते-
ऋद्धौ श्रोत्रे ऽन्यचित्ते प्राग्भावे च्युत्युदये क्षये ।
ज्ञानसाक्षात्क्रियाभिज्ञा षड्वा धीः मुक्तिवर्त्मनि
ज्ञानसाक्षात्क्रिया खलु विमुक्तिमार्गसंगृहीताभिज्ञेत्युच्यते । केषां पुनर्गुणानां ज्ञानसाक्षात्क्रिया ? तदपदिश्यते । ऋद्धिपाददिव्यश्रोत्रचेतः- पर्यायपूर्वेनिवासानुस्मृतिच्युत्युपपादास्रवक्षयज्ञानानां या ज्ञानसाक्षात्क्रिया साभिज्ञा । अभिजानातीत्यभिज्ञायते वा तयेति अभिज्ञा ।
कस्मात्पुनर्विमुक्तिमार्ग एवाभिज्ञा श्रामण्यफलवत् न आनन्तर्यमार्गस्वभावाः ? परचित्तज्ञानस्यानन्तर्यमार्गप्रतिषेधादर्हतश्चास्रवक्षयानन्तर्यमार्गत्यागे कस्यचिन्निरभिज्ञत्वप्रसंगात् ॥
आसां पुनः
चतस्रः संवृतिज्ञानं पञ्च ज्ञानानि चित्तधीः ।
सर्वास्रवक्षयाभिज्ञा षड्ज्ञानान्यथवा दश
चेतःपर्यायास्रवक्षयाभिज्ञे हित्वा । चेतःपर्यायाभिज्ञा पञ्चज्ञानानि धर्मान्वयमार्गसंवृतिपरचित्तज्ञानानि । आस्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा षड्ज्ञानानि दश वा परचित्तदुःखसमुदयमार्गज्ञानानि हित्वाअथवा दशेऽति ॥
षष्ठी सर्वत्र पञ्चान्या मौलीषु ध्यानभूमिषु ।
आस्रवक्षयज्ञानसाक्षात्क्रिया सर्वासु भूमिषु । शेषा मौलीषु चतसृषु ध्यानभूष्विति ।
यत्नवैराग्यतो लभ्याः स्वभूम्यधरगोचराः
सर्वाः अभिज्ञाः यत्नतो लभ्यन्ते वैराग्यतश्च । तत्रानुचिता यत्नतः । उचिता वैराग्यतः । जन्मान्तराभ्यस्ताः खल्वभिज्ञा वैराग्यतो लभ्यन्ते । वैशेषिक्यो यत्नतः । ऽस्वभूम्यधरगोचराऽश्चैताः । ऋद्ध्या स्वभूमिं गच्छत्यधरां च भूमिम् । निर्मितनिर्माणमप्येवम् । दिव्यश्रोत्राभिज्ञयापि स्वभूमिकमधोभूमिकं च शब्दं शृणोति । एवं परचित्तज्ञानं पूर्वेनिवासानुस्मृतिज्ञानं च । च्युत्युपपादाभिज्ञया च स्वाधोभूमिविषयं रूपं जानाति ॥
कतमा पुनरासां कति स्मृत्युपस्थानानि ?
स्मृत्युपस्थितयस्तिस्त्रश्चेतःपर्यायधीर्मता ।
ऋद्धिश्रोत्राक्ष्यभिज्ञास्नु प्रथमा स्मृत्युपस्थितिः
मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0