भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 481-500

481

तत्र धातुसंमोहो द्वाभ्यां धर्मान्वयज्ञानाभ्यां निवर्त्यते । सत्यसंमोहश्चतुर्भिः दुःखज्ञानादिभिः । अर्थसंमोहः संवृतिज्ञानेन । चित्तसंमोहः परचित्तज्ञानेन । जातिसंमोहः क्षयज्ञानेन । पुनरुत्पत्तिसंमोहो ऽनुत्पादज्ञानेनेति दशैव ज्ञानानि भगवानवोचत् । नातिभूयांसि नाल्पीयांसीति ॥
अत्र पुनः
परिज्ञाताद्यवगमः दुःखादौ क्षयधी फलम्

482

"दुखं परिज्ञातं समुदयो मे प्रहीणः,................
..............मिति वादविपक्षेण वा अनारम्भिणां संसारेणैव शुद्धिरिति वादविपक्षेण प्रतिपदाकारः । लौकिकवैराग्यमार्गमारसंज्ञाविपक्षेण वा अनात्यन्तिकवैराग्यगमनविप्रलम्भात् सर्वत्राबहुमानविपक्षेण नैर्याणिकाकारः ॥
अथाकारो नाम क एष धर्मः । किं वा तेनाकार्यत इति ? तदुभयं निर्दिश्यते-
धीराकारः सदाकार्यं साकारास्त्ववलम्बिनः

483

प्रज्ञा खल्वाकार इत्युच्यते । न तर्हि प्रज्ञा साकारा भवति द्वयोः प्रज्ञयोः यौगपद्याभावात् । ततश्च न सर्वे चैतसिकाः साकाराः प्राप्नुवन्ति । न खलु ब्रू मः प्रज्ञासंप्रयोगात्साकारा वैकाकारा वा । किं तर्हि ? स्ववृत्तिभिराकरणादालम्बनग्रहणादित्यर्थः ।
किं पुनस्तदाकार्यम् ? सदाकार्यम् । यत्किञ्चिद् द्रव्यतः प्रज्ञप्तितो वा विद्यते तदाकार्यते । चित्तचैत्तास्तु साकाराः विषयग्राहिण इत्यर्थः ॥
किं पुनर्ज्ञानं कति स्मृत्युपस्थानानि ?
परिचित्तमतिस्त्रीणि धर्मसंज्ञं निरोधधीः ।
चत्वारि स्मृत्युपस्थानान्यतो ऽन्यज्ज्ञानमिष्यते

484

परचित्तज्ञानं खलु त्रीणि वेदनाचित्तधर्माख्यानि । निरोधज्ञानं धर्मस्मृत्युपस्थानम् । परचित्तनिरोधज्ञानाभ्यामन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानि ॥
अथ कतमस्य ज्ञानस्य कति ज्ञानान्यालम्बनम् ?
मार्गधर्मान्वयज्ञानगोचरो नवशो धियः

485

मार्गधर्मान्वयज्ञानानां प्रत्येकं नवज्ञानान्यालम्बनम् । मार्गज्ञानस्य तावत्संवृतिज्ञानं हित्वा । धर्मज्ञानस्यान्वयज्ञानम् । अन्वयज्ञानस्य धर्मज्ञानम् ।
दुःखहेतुधियोर्द्वे द्वे
दुःखसमुदयज्ञानयोः संवृतिज्ञानं सास्रवं च परचित्तज्ञानमालम्बनम् ।
चतुर्णां दश
संवृतिपरचित्तक्षयानुत्पादज्ञानानां सर्वाण्येव दशज्ञानान्यालम्बनम् ।
नापरम् ॥
निरोधज्ञानं खलु नैव ज्ञानालम्बनम् ॥
पुनरपि दशधर्मान् स्थापयित्वा कस्य ज्ञानस्य कति धर्मा विषय इति वाच्यम् । कथम् ? तदुच्यते-
पञ्चधर्मास्त्रिधात्वाप्तान् मार्गरूपान् सनातनान् ।
व्युत्पत्त्यर्थं द्विधा कृत्वा दर्शयेज्ज्ञानगोचरम्

486

त्रैधातुकान् धर्मान् प्रत्येकं द्विधा कृत्वा संप्रयुक्ता विप्रयुक्ताश्च, अप्रतिसंयुक्तांश्च द्विधा कृत्वा संयुक्तविप्रयुक्तभेदेनैव, असंस्कृतमपि द्विधाकृत्वा कुशलाव्याकृतभेदेनैवं कृत्वा दश भवन्ति ।
तत्र तावत्संवृतिज्ञानस्य सर्व एव दशधर्मा विषयः । धर्मज्ञानस्य पञ्च ( जैनि_378 ) कामप्रतिसंयुक्तानास्रवाः संप्रयुक्तविप्रयुक्ताकुशलं चासंस्कृतम् । अन्वयज्ञानस्य सप्त रूपारूप्यप्रतिसंयुक्तानास्रवाः संप्रयुक्तविप्रयुक्तकुशलं चासंस्कृतम् । परचित्तज्ञानस्य त्रयः कामरूपप्रतिसंयुक्तानास्रवासंप्रयुक्ता एव । दुःखसमुदयज्ञानयोः षट्कामरूपारूप्यप्रतिसंयुक्तासंप्रयुक्तविप्रयुक्ताः । निरोधज्ञानस्यैको ऽसंस्कृतमेव कुशलम् । मार्गज्ञानस्य द्वावनास्रवः संप्रयुक्तो विप्रयुक्तश्च । क्षयानुत्पादज्ञानयोर्नव धर्मा विषयो ऽसंस्कृतमव्याकृतं मुक्त्वा ॥
इदमिदानीं वक्तव्यम् । कः कतिभिर्ज्ञानैः समन्वागतः ? सर्वस्तावत्पृथग्जनः संवृतिज्ञानेनैव । अयं तु नियमः-
दृङ्मार्गे प्रथमे ज्ञाने त्रिभिर्ज्ञानैः समन्वितः ।
द्वितीयक्षणे त्रिभिः संवृतिज्ञानदुःखज्ञानधर्मज्ञानैः ।
चतुर्ष्वेकैकवृद्ध्योर्ध्वं विरक्तो ऽन्यमनो धिया

487

अतः परं चतुर्षु चित्तक्षणेष्वेकैकं ज्ञानं वर्धते । तद्यथा दुःखे ऽन्वयज्ञाने ऽन्वयज्ञानं वर्धते । समुदयधर्मज्ञाने समुदयज्ञानम् । निरोधधर्मज्ञाने निरोधधर्मज्ञानम् । मार्गधर्मज्ञाने मार्गधर्मज्ञानं वर्धते । समुदयनिरोधमार्गान्वयज्ञानेषु क्षान्तिषु च नास्त्यपूर्वज्ञानवृद्धिः । सर्वत्र तु वीतरागस्य परचित्तज्ञानं वर्धत इति वाच्यम् ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य प्रथमः पादः ॥
सप्तमाध्याये
द्वितीयपादः ।
इदमिदानीं वक्तव्यम् । कस्यां भूमौ कस्यां वावस्थायां कस्य वा पुद्गलस्य कति ज्ञानानि भाव्यन्ते ? तदारभ्यते-
त्रिध्यानकामवैराग्ये पश्चिमे मुक्तिवर्त्मनि ।
मौलध्यानप्रयोगे च ज्ञेयानागतभावना

488

बालस्य स्मृत्युपस्थानध्यानाद्युत्पादने तथा ।
प्रयोगमुक्तिमार्गेषु संवृत्यान्यमनोधियः

489

बालस्य खल्वाद्यध्यानत्रयवैराग्ये पश्चिमे विमुक्तिमार्गे मौलध्यानप्रयोगमार्गे च स्मृत्युपस्थानादिकुशलमूलोत्पादने च प्रयोगविमुक्तिमार्गे च संवृतिज्ञानस्य परचित्तज्ञानस्य चानागतभावना वेदितव्या ॥
आर्यस्य तु
क्षान्तिज्ञानानि भाव्यन्ते स्वजातीयानि दृक्पथे ।
दर्शनमार्गे खलु यद्येव संमुखीभूतं भवति क्षान्तिर्वा ज्ञानं वा तज्जातीयमेवानागतं भाव्यते । नान्यजातीयमन्यविषयं वा पृथक्कार्यत्वात् ।
सांवृतं चान्वयज्ञाने दुःखहेतुसमाह्वये

490

संवृतिज्ञानं खलु दर्शनमार्गे त्रिषु चित्तेषु दुःखसमुदयनिरोधान्वयज्ञानाख्येषु भाव्यते । न धर्मज्ञानेषु, अकृतार्थत्वादालम्बनाकारपरिजयो हि नाद्यापि परिसमाप्तः ॥
कस्मात्पुनः संवृतिज्ञान तत्र भावनां गच्छति ? तदुच्यते-
समानप्रतिपक्षत्वात्तेषु मार्गायितत्वतः ।
यथैवान्वयक्षान्तिज्ञानानि त्रीणि तत्प्रहातव्यक्लेशप्रतिपक्षः, तथा तान्यपि संवृतिज्ञानानि प्रतिपक्षः । तैरपि तत्र मार्गायितं निर्वेधभागीयावस्थायाम् ।
अतो ऽभिसमयात्याख्यं तत्त्रिसत्यान्तलाभतः

491

अत एव तदाभिसमयान्तिकं संवृतिज्ञानमित्याख्यायते । धर्मज्ञानेषु खलु तद्भावनायामभिसमयमध्यानि स्युरिति । तच्चैतदनुत्पत्तिधर्मकमपि सद्धर्मतया चिन्त्यते ।
कस्मात्पुनस्तदनुत्पत्तिधर्मकमेव ? श्रद्धाधर्मानुसार्याश्रयेण तदुत्पत्तिप्रतिबद्धत्वात् । दर्शनमार्गे च संमुखीभूते तन्नोत्पन्नम् । तस्मादनुत्पत्तिकधर्ममेव भावनां गच्छति । तत्पुनरेतत्सप्तभूमिकं कामावचरं दर्शनमार्गसमानभूमिकं च । उक्ता दर्शनमार्गभावना ॥
भावनामार्गे वक्तव्या ।
मार्गाख्ये त्वन्वयज्ञाने षड् भाव्यन्ते ऽथ सप्त वा ।
षोडशेतु वर्तमानान्वयज्ञानचित्ते भावनावर्त्मन्यवीतरागस्य षड् भाव्यन्ते । संवृतिपरचित्तक्षयानुत्पादज्ञानानि हित्वा । वीतरागस्य तु सप्तानागतानि भाव्यन्ते परचित्तज्ञानं वर्धयित्वा ।
आनन्तर्यपथे चोर्द्ध्वं भाव्यते नान्यचित्तधीः

492

सरागस्यापि भावनामार्गे तस्मात् षोडशात्क्षणादूर्ध्वं यावत्कामे वीत रागो भवति तावत्सर्वेषु प्रयोगानन्तर्यविमुक्तिविशेषमार्गेषु सप्त ज्ञानानि भाव्यन्ते । अन्यत्र परचितक्षयानुत्पादज्ञानेभ्यः ॥
प्रहाणमुक्तिमार्गेषु विनान्त्याया विमुक्तितः ।
भवाग्रप्रतिपक्षत्वात्संवृतस्य न भावना

493

ध्यानचतुष्ट्वारूप्यत्रयवैराग्ये पञ्चस्वभिज्ञासु, अकोप्याप्रतिवेधे च व्यवकीर्णभाविते च ध्याने । शैक्षस्य सर्वेष्वानन्तर्यविमुक्तिमार्गेषु सप्तैव ज्ञानानि ............. ।
........अभिधर्मदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य द्वितीयपादः समाप्तः ॥
सप्तमाध्याये
तृतीयपादः ।.....
.........स्थानवस्तुहेतुविपाकप्रतिविस्तरैर्बोद्धव्यम् । तत्रातीतानागते प्रत्युत्पन्ने च तदाक्षेप्ताक्षेपवैचित्र्यं प्रतिकर्मसमादानं ( जैनि_383 ) भवति । किचिद्धि सहसा प्रत्ययवशात्क्रियते । किञ्चिद् दृष्टचेतसा । किञ्चित्पुनः समादाय क्रियते तेन कर्मणा मया जीवितव्यमिति । तथा धर्मो ऽयमधर्मो वेति समादायासमादाय करोति । स्थानादिप्रविभागतश्च गाम्भीर्यं बोद्धव्यम् । तत्र स्थानमायत्युत्पत्त्यायत्तानामवकाशकारणात् । हेतुरपि येन हेतुना क्रियते । यथोक्तम्- "वस्तु स्थानाधिकरणमुच्यते । साधिकरणं वस्तु स्थानम् । तद्यथा प्राणिवधकर्मणः स्वभावः । स च प्राणी यस्य चार्थे वध्यते यया प्रत्ययसामग्र्या सर्वमेतद्वस्तु सम्भवति । कुतः ? स्थानहेतुविपाकानां पृथगुक्तेः । यस्य खल्वेतत् स्थानं यच्चास्य स्थानं क्रियते यस्य तत्कर्म हेतुः, यद्धेतुकं च तत्, अयं चास्य कर्मणो विपाको ऽयमन्यस्य" इति । तदेतदष्टज्ञानस्वभावं निरोधमार्गज्ञाने हित्वा ॥
ध्यानादीनां स्वभावादावव्याघातविसारि यत् ।
ध्यानादिज्ञानसंज्ञं तन्नवज्ञानमयं बलम्

494

ध्यानविमोक्षसमाधिसमापत्ति ज्ञानबलं खलु यत्संक्लेशव्यवदानव्यवस्थानविशुद्धिषु निवृत्तिपक्षे ध्यानानां विमोक्षाणां समाधीनां समापत्तीनां च संक्लेशव्यवदानव्यवस्थानविशुद्धिषु यद्बलमव्याहतम् । तत्र संक्लेशादिचतुष्टयं हानविशेषस्थितिनिर्वेधभागीयं सास्वादशुद्धकानास्रवादिभेदात् । तदेतद्ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं नवज्ञानात्मकं बोद्धव्यम् ॥
यत्सत्त्वाक्षमृदुत्वादौ परिच्छेदे प्रवर्तते ।
अक्षोत्तमावरज्ञानबलं तन्नवधीमयम्

495

इन्द्रियपरापरज्ञानबलम् यत्सर्वसत्त्वानां श्रेयःप्राप्तिशक्तित्रैविध्ये ज्ञानमव्याहतं तदिन्द्रियपरापरज्ञानबलं नवज्ञानात्मकं निरोधज्ञानं हित्वा ॥
यत्सत्त्वाधिरुचित्रैधे हीनादौ सम्प्रवर्तते ।
नानाधिमुक्तिधीसंज्ञे बलं तच्च नवात्मकम्

496

यत्खलु सर्वसत्त्वानां हीनमध्यमोत्तमाधिमुक्तिष्वव्याहतं ज्ञानं तच्च नानाधिमुक्तिज्ञानबलं नवज्ञानात्मकमेव निरोधज्ञानं हित्वा ॥
यन्नानाधात्वपेक्षाख्यं सत्त्वार्थाय प्रवर्तते ।
नवज्ञानमयं तद्वत्तन्नानाधातुधीबलम्

497

ते पुनः पूर्वाभ्यासवासनाधातवः पूर्वजन्मसु गुणदोषविद्याशिल्पकर्माभ्यासेभ्यो या वासनास्ताः खल्विह धातवो विशेषेण बोद्धव्याः । गोत्रार्थेनावस्थानां त एवाशया इत्यवगन्तव्याः, तद्वशाच्चरतीत्युच्यते । उक्तं च भगवता- "धातुशः सत्त्वाः संस्यन्दन्ते" इति ॥
गतिधर्मार्यभेदं यद्वेत्ति प्रत्ययभेदतः ।
तद्धियो दश सर्वत्रगामिनीप्रतिपद्बलम्

498

यत्खलु सत्त्वोपपत्तिनिर्वर्तकेषु तत्क्षयकरेषु च धर्मेषु ज्ञानमव्याहतं तत्सर्वत्रगामिनीप्रतिपज्ज्ञानबलम् । भव्यविशेषौषधवद् द्रष्टव्यम् । मोक्षभव्यानां नानाधातूनां सत्त्वानामनेकधातूनां सर्वक्लेशप्रहाणायौषधविशेषवत्सामान्यप्रतिपक्षविशेषप्रतिपक्षं च सर्वत्र जानीते गतिहेतुं चानेन धातुरेकसन्ताने यो यद्गतचित्तस्तद्वशेन तदवतरणभव्यो ऽभव्यश्च भवति तत्सर्वं यथावत्प्रतिजानातीति सर्वाकारज्ञताप्युक्ता भवति । तदेतत् सफलमार्गप्रहाणाद्दशज्ञानात्मकं भवति । केचित्तु केवलमार्गग्रहणान्नवज्ञानात्मकम् ॥
यत् स्वान्यातीतजन्मेक्षिसंवृतिज्ञानसंज्ञकम् ।
प्राग्जात्यानुस्मृतिज्ञानबलं तत्सफलं मतम्

499

स्वपरसन्ता निकानामतीतजन्मपरम्पराणां विचित्रसुखदुःखेषु प्राणिष्वयममुष्यकर्मणो विपाको ऽयममुष्यस्वप्ननिमित्तध्यायिमनसिकारचिह्नार्थावधारणवदनेकविधसम्बन्धावबोधवशित्वमस्य सूचितं भवति । यथा खलु भव्यार्थसूचकान् स्वप्नाननेकशो दृष्ट्वा तांश्चार्थानभिनिष्पन्नान् प्रायशः सदृशानपेक्ष्य निश्चयो भवति तद्वदिति । यथा च ध्यायिनां मनसिकारेषु धर्मचिह्नान्युत्पद्यन्ते तैश्च सुव्यक्तो धर्मपरिच्छेदो भवति । तद्वत्सर्वधर्मेषु मुद्रा भगवतो विदिता । किं पुनस्तत्कर्म विपाकसम्बन्धमुद्रास्विति ? तदेतद्बलं संवृतिज्ञानात्मकमेव ॥
सत्त्वानां च्युतिसम्भूत्योर्ज्ञानमन्याध्ववृत्ति यत् ।
तच्च्युत्युत्पत्तिबुद्ध्याख्यं बलं पूर्ववदुच्यते

500

दिव्यचक्षुराश्रयाच्च ज्ञानात्कर्मफलवैचित्र्यचरितावतरणज्ञानपरप्रत्ययो भवति । प्रत्युत्पन्नविषयमप्येवम् । तद्दिव्यचक्षुराश्रयज्ञानं सह प्रणिधिज्ञानेनापरान्ते प्रभाव्यते । तदेतत्संवृतिज्ञानात्मकमेव ॥
आस्रवक्षयधीसंज्ञं षड्ज्ञानान्यथवा दश ।
अत इदानीं भगवतो विनेयकार्यं किमवशिष्टम् ? आस्रवक्षयः । तस्मिन्यज्ज्ञानं यस्य यदा यैरवतरणदेशनाविधिभिरकृच्छ्रेण संपद्यते तद्भगवान् सर्वाकारमनेन ज्ञानेन वेत्ति नान्यः कश्चित् । अतो ऽस्यैव तद्बलं नान्यस्य । तत्पुनरेतत् षड्ज्ञानस्वभावं दशात्मकं वा । यद्यास्रवक्षये ज्ञानम्, षड्भवन्ति । ( जैनि_387 ) परचित्तदुःखसमुदयमार्गज्ञानानि हित्वा । अथ सोपाये क्षये ज्ञानं दर्शनं भवति, दशज्ञानानि भवन्ति ।
उक्तो दशबलस्वभावः ।
आकारनियमो वक्तव्यः । सो ऽयमुच्यते-
षोडशाकारमत्राद्यमन्यैश्चाप्युत्तरं भुवा

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc