अभिधर्मदीप (टीका सहित) · श्लोक 461-480
न्यामावक्रान्तितत्प्रथमता, वैराग्यतत्प्रथमता, फलप्राप्तितत्प्रथमता, इर्न्द्रियान्तरविवृद्धितत्प्रथमता तासु खल्वेतासु चतसृषु तत्प्रथमतासु-
अष्टानां नीरजस्कानां मार्गाङ्गानां यथायथम् ।
तास्वेकस्याध्वसु ज्ञेयौ लाभालाभौ नवाश्रयौ
बोधिपक्ष्यभावनाप्रयुक्तस्यावेत्यप्रसादप्रतिलम्भो ऽवश्यम्भावीत्यतो वक्तव्यं कस्मिन् सत्ये दृश्यमाने कस्यावेत्यप्रसादस्य लाभः ? तदिदं निर्दिश्यते-
त्रिसत्याधिगमे लाभः शीलधर्मप्रसादयोः ।
मार्गसत्येक्षणे बुद्धसङ्घगोचरयोरपि
दुःखसत्यमभिसमागच्छन्नार्यकान्तानि च शीलानि प्रतिलभते धर्मे चावेत्यप्रसादः । कतरस्मिन् धर्मे ? तस्मिन्नेव दुःखसत्ये । धर्ममात्रमिदं सर्वं द्वादशायतनमात्रमित्यर्थः । नात्र कश्चिदेकः सर्वभेदान्वयी जातिद्रव्याख्यो धर्मी विद्यते । न चात्र सन्ति पुरुषजीवपुग्दला भूतकोटयः शशविषाणकल्पा निरात्मान इति । एवं समुदयमभिसमागच्छतो द्वयोरेव लाभः । तद्विन्निरोधं समागच्छतो द्रष्टव्यम् । मार्गसत्येक्षणे तु बुद्धे भगवति प्रसादो लभ्यते तत्सङ्घे च । सद्भूतमार्गाख्यायी भगवान्मार्गज्ञो मार्गदेशिकः । येपि च तं मार्गं प्रतिपन्नाः श्रावकाः शैक्षाशैक्षाः पुरुषवृषभाः ये च सप्तसद्धर्मादिप्रदीपप्रकाशितबुद्ध्याशयसा(?)च बोधिसत्त्वसिंहाः दर्शनमार्गगुहाध्यासिनः तेषु च प्रसादो भवति द्व्याकारश्रद्धास्वरूपः । सो ऽयं विस्तरेणोच्यते ॥
बौद्धात्सङ्घादृते मार्गाद्या श्रद्धा सत्यगोचरा ।
धर्मावेत्यप्रसादोसौ संप्रतीत्यप्रभावतः
स पुनर्धर्मो निर्वाणं बोधिसत्त्वसन्तानिकश्च मार्गः ॥
कः पुनरेष बुद्धः को वा तत्प्रसाद इत्यपदिश्यते-
मोहनिद्रातमोनाशाद्धीनेत्रोन्मीलनात् स्वयम् ।
बुद्धो यस्तद्गुणे श्रद्धा प्रसादः स जिने मतः
द्विप्रकारो हि बुद्धशब्दस्यार्थो मुख्यो गौणश्च । तत्राद्यो बुद्धकारका बुद्धस्याशैक्षा धर्माः । गौणस्तु तदाधारेपि शरीरे तत्फलभूतेषु चाष्टादशस्वावेणिकेषु बुद्धगुणेषु बुद्धशब्दसाधुत्वं पूर्वमेव प्रदर्शितम् ॥
शैक्षाशैक्षगुणाढ्यानां पुद्गलानां य आकरः ।
तद्गुणालम्बना श्रद्धा प्रसादः सङ्खगोचरः
उक्तं हि सूत्रे- "कति भदन्त लोके दक्षिणीयाः ? द्वौ गृहपते शैक्षा अशैक्षाश्च । तत्राष्टादश शैक्षाः नव शैक्षाः ।" इति विस्तरः ॥
शीलानां यत्तु वैमल्यं तत्प्रसादस्तथैव तु ।
कति पुनरेषां द्रव्यतः कति नामतः ?
द्रव्यतो द्वयमेवैतन्नामतस्तु चतुष्टयम्
श्रद्धा रत्नत्रयालम्बनभेदेन त्रिधा भित्वार्यकान्तानि च शीलान्येकधा कृत्वा तत्रापि वैमल्यप्रसादोक्तिः । यद्धि निर्मलं तत् प्रसन्नमित्युच्यते ॥
इदमिदानीं वाच्यम् । अथ कस्मात्समन्वागतोपि शैक्षः सम्यग्ज्ञानेन सम्यग्विमुक्त्या चाष्टाभिरङ्गैः समन्वागतः शैक्षः प्रातिपद इत्युक्तं दशभिरर्हन् क्षीणास्रव इति ? तदुच्यते-
शैक्षस्य बन्धशेषत्वाद्विमुक्तिर्नाङ्गमिष्यते ।
शैक्षस्य विद्यमानापि अनाकारित्वान्नाङ्गमुच्यते । सत्यामपि हि तस्यां क्लेशबन्धनबद्धः शैक्षो न च विमोक्षो युज्यते ।
का पुनरियं विमुक्तिः कतिधा च ? तदपदिश्यते-
मोक्षाधिमोक्षरूपत्वान्नित्यानित्यत्वतो द्विधा
स्वरूपभेदादपि द्विधा प्रकारभेदादपीति । स्वभावभेदात् मोक्षाधिमोक्षस्वभावा । प्रकारभेदोपि क्षराक्षरभेदात्, सामयिकी कान्ताकोप्यभेदाद्वा रागविरागाविद्याविरागभेदाच्च ॥
अथ सम्यग्ज्ञानं कतमत्तदुच्यते-
पूर्वोक्तैव हि या बोधिः सा सम्यग्ज्ञानमुच्यते ।
क्षयानुत्पादज्ञाने बोधिरित्युक्तम् । ते एव सम्यग्ज्ञानं वेदितव्यम् ।
कतरत् पुनश्चित्तं विमुच्यते ? किं जातनिरुद्धमथाजातनिरुद्धमथ जातमेव ?
मुच्यते ऽनागतं चित्तमशैक्षं क्लेशरोधतः
कश्चित् खल्वाह- अनागतं खलु चित्तमुत्पाद्यमानं विमुच्यते ऽध्वविमुक्त्या सर्वमेव त्वनागतं विमुच्यते । क्लेशावरणात् सन्तानविमुक्त्या । तत्पुनरशैक्षमेव क्लेशोपक्लेशप्राप्तिविबन्धापगमात् । यदपि तद्रूपारूप्यप्रतिसंयुक्तं कर्मोपपत्तिफलं तदप्यर्हत्त्वप्राप्तिविबन्धकरं तच्च सर्वं वज्रोपमेन प्रहीयत इत्यावरणविगमात् सर्वमेवानागतमशैक्षं चित्तं विमुच्यते ॥
धर्मा एव तु परमार्थतः शिक्षन्ते । यस्मात्-
धर्मव्यापारतो लोके धर्म्यपि व्यापृतो मतः ।
औष्ण्याख्यस्य धर्मस्येन्धनादिदहनव्यापारे सत्यग्नेरपि धर्मिणो व्यापार उच्यते । अग्निना काष्ठं दग्धमित्यग्निदहनव्यापारे च देवदत्तेन दग्धोस्मीत्युपचर्यते । तथा धर्माणां क्लेशप्रहाणशिक्षणे सति तत्सम्बन्धापेक्षया भिक्षुरशैक्ष इत्युच्यते ।
मार्गस्तूपात्तकारित्रो निरस्यति तदावृतिम्
ऽतुऽशब्दान्निरुध्यमान एवेत्यर्थः, वर्तमानस्य हि क्रियाबन्धात् सामर्थ्योपपत्तेः ।
अथ येयमसंस्कृता विमुक्तिः ये च त्रयो धातवः प्रहाणधात्वादयः, ते ततः किमन्ये ऽथानन्ये ? ब्रूमः-
विमुक्तिः शाश्वती यैव सा विरागादयस्त्रयः ।
आख्याता धातवः सूत्रे त्रिधा भेदो ह्यपेक्षया
प्रज्ञप्तिविशेषापेक्षया खल्वेषां त्रैविध्यमुक्तम् । कथम् ?
विरागो रागनिर्मोक्षः प्रहाणाख्यो ऽन्यसंक्षयः ।
निरोधधातुरन्यस्य सोपादानस्य वस्तुनः
रागप्रहाणं खलु विरागधातुरित्युच्यते । तदन्येषां क्लेशोपक्लेशानां प्रहाणधातुः । तदन्यस्य सोपादानस्य वस्तुनः निरोधो निरोधधातुराख्यायते ॥
येन वस्तुना निर्विद्यते विरज्यते ऽपि तेन वस्तुना ? चतुष्कोटिकः प्रश्नः । कथम् ?
दुःखहेत्ववलम्बिन्या योगी निर्विद्यते धिया ।
विरज्यते तु संरक्तस्ततः कोटिचतुष्टयी
दुःखसमुदयक्षान्तिभिः तज्ज्ञानैश्च निर्विद्यते, नान्यैः । विरज्यते तु यः संरक्तः स च सर्वैरपि दुःखसमुदयनिरोधमार्गक्षान्तिज्ञानैर्विरज्यते यैः क्लेशान् प्रजहाति । एवं चतुष्कोटिको भवति ।
तत्र विर्विद्यत एवं कामवीतरागो नियाममवक्रामन् दुःखसमुदयधर्मक्षान्तिभ्यां तद्धर्मज्ञानाभ्यां च पूर्वप्रहीणत्वान्न क्षान्तिभ्यां जहात्यप्रतिपक्षत्वान्न ज्ञानाभ्यामतो न विरज्यते । भावनामार्गेपि प्रयोगविमुक्तिविशेषात् मार्गसंगृहीताभ्यां दुःखसमुदयज्ञानाभ्यां न विरज्यते विमुक्तत्वान्निर्विद्धवस्त्वालम्बनत्वात्तु निर्विद्यते ।
द्वितीया कोटिः- विरज्यते एवावीतरागः कामेभ्यो नियाममवक्रामन्निरोधमार्गधर्मान्वयक्षान्तिभिः भावनामार्गे च निरोधमार्गज्ञानैस्त्रैधातुकाद्वैराग्यं गच्छन्न निर्विद्यते ।
प्रामोद्यवस्त्वालम्बनत्वादुभयम् । वीतरागः कामेभ्यो नियाममवक्रामन् दुःखसमुदयधर्मान्वयक्षान्तिभिर्भावनामार्गे च दुःखसमुदयज्ञानैस्त्रैधातुकाद्वैराग्यं गच्छन् ।
नोभयम्- कामवीतरागो नियाममवक्रामन्निरोधमार्गधर्मज्ञानक्षान्तिभ्यां तद्धर्मज्ञानाभ्यां च भावनामार्गे चानन्तर्यमार्गेतराभ्यां निरोधमार्गधर्मज्ञानाभ्याम् ॥
य एते त्रयो धातवस्ता एव तिस्रः संज्ञाः प्रहाणविरागनिरोधसंज्ञाः । विस्तरेण तु
संज्ञा अनित्यसंज्ञाद्या दश ताभ्यो ऽशुभादयः ।
तिस्रो मार्गविधिर्मार्गश्चतस्त्रो ऽन्त्यास्त्रयी फलम्
अशुभसंज्ञा मरणसंज्ञा सर्वलोके ऽनभिरतिसंज्ञा । मार्गप्रयोगस्तिसृभिराभिरुक्तः । चतसृभिश्च मार्गो ऽनित्यदुःखशून्यानात्मसंज्ञाभिः । प्रहाणविरागनिरोधसंज्ञाभिः फलमाख्यातमिति ॥
कति पुनरासां सास्रवाः कत्यनास्रवाः ?
त्रितय्यशुभसंज्ञाद्या ज्ञेया तत्खलु सास्रवाः ।
समला निर्मलास्त्वन्या बोध्या नव भुवो ऽमलाः
अशुभा मरणसर्वलोकानभिरतिसंज्ञास्तिस्रः समलाः । शेषास्तु सास्रवानास्रवाः, नवभूमिका अनास्रवा अवबोद्धव्याः ॥
भूमिष्वेकादशस्वन्त्या ध्यानाद्यासूपलक्षयेत् ।
चतुर्थी पञ्चमी षष्ठी विद्यात् सप्तसु भूमिषु
अभिधर्मदीपे विभाषाप्रभाणं वृत्तौ षष्ठस्याध्यायस्य चतुर्थः पादः ॥
समाप्तश्च षष्ठो ऽध्यायः ॥
सप्तमो ऽध्यायः
प्रथमः पादः ।
अत्राह । भगवतोक्तस्त्रिस्कन्धो ऽयं मार्गः । तत्र शीलस्कन्धः कर्माध्याये विस्तरेण व्याख्यातः । समाधिस्कन्धो ऽष्टमे ऽव्याये व्याख्यायिष्यते । प्रज्ञास्कन्ध इदानीं व्याख्यातव्यः । सो ऽयमारभ्य-
लोको ऽयं तत्त्वसंमुग्धो ज्ञेयतत्त्वे प्रमुह्यति ।
तानि ज्ञानानि वक्ष्यामि स्वरूपादिप्रपञ्चतः
कानि पुनस्तानि कियन्ति वेति ? तदुच्यते-
जातिद्रव्ये निराकृत्य प्रतिपक्षाद्यपेक्षया ।
तद्भेदो दशधा प्रोक्तो धर्मज्ञानादिनामभिः
जात्याश्रयणे खल्वेकत्रप्रसङ्गो द्रव्याश्रयणे ह्यानन्त्यं तच्चाशक्यं वक्तुम् । तस्मादुभयमेतदुपेक्ष्य ययापेक्ष्यया दश भवन्ति यच्च तेषां स्वलक्षणं सामान्यलक्षणं च तत्सर्वं विस्तरेण वक्ष्यामः ॥
तत्र तावत्-
धर्मान्वयविशेष्ये द्वे दुःखाद्यैश्च चतुष्टयम् ।
द्वे संवृत्यन्यचित्ताभ्यां क्षयेणाजन्मना द्वयम्
धर्मान्वयज्ञाने खलु धर्मान्वयाभ्यामेव विशेष्येते । दुःखादीनि तु चत्वारि स्वविषयैरेव चतुर्भिरार्यसत्यैः विशेष्यन्ते । संवृत्या परचित्तेन च संवृतिपरचित्तज्ञाने विशेष्येते । क्षयेणापुनरुत्पत्त्या च क्षयानुत्पादज्ञानद्वयं विशिष्यते ।
अथवा
प्रतिपक्षप्रयोगाभ्यां स्वभावाकारगोचरैः ।
तद्व्यवस्था निबोद्धव्या कृत्येनोपचयेन वा
तत्र कामधातुविपक्षप्रतिपक्षो धर्मज्ञानम् । रूपारूप्यावचरविपक्षप्रतिपक्षो ऽन्वयज्ञानम् । प्रयोगतः परचित्तज्ञानं चित्तं ज्ञास्यामीति तत्प्रयोगात् । स्वभावतः संवृतिज्ञानं पिपीलिकादिष्वपि तद्भावात् । सत्याकारैर्गोचरैश्चत्वारि ( जैनि_375 ) ज्ञानानि । कृत्यतः क्षयज्ञानं कृत्यपरिसमाप्तेः । हेतूपचयतो ऽनुत्पादज्ञानं सर्वैरनास्रवैर्ज्ञानैस्तत्सभागहेतूपचयात् ॥
धातुसत्यार्थचित्तेषु जातिध्वंसाप्रजन्मनोः ।
संमोहस्य निवृत्त्यर्थं तद्भेदो दशधैव वा
मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0