भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 441-460

441

मौलेषु खलु चतुर्षु ध्यानेषु यो मार्गः सा सुखाप्रतिपत् । सा च तीक्ष्णेन्द्रियस्य क्षिप्राभिज्ञा तत्रायत्नवाहित्वात् । नैर्याणवत्सुखा तत्रायत्नवाहित्वात् शमथविदर्शनयोः साम्यात् । तत्रैव सा मृद्विन्द्रियस्य धन्धाभिज्ञा । अन्यासु तु पञ्चसु भूमिष्वनागम्यध्यानान्तरिकारूप्यत्रयसंगृहीतास्वनङ्गपरिगृहीतत्वात् । शमथविदर्शनान्यूनत्वात् अनागम्यध्यानान्तरिकयोरारूप्यत्रये ( जैनि_356 ) चानास्रवो मार्गः तीक्ष्णेन्द्रियस्य प्रतिपत्, दुःखा क्षिप्राभिज्ञा । मृद्विन्द्रियस्य दुःखा धन्धाभिज्ञा ।
कथं पुनरार्यमार्गो दुःखो भवति ? नासौ दुःखात्मकः न दुःखसंप्रयुक्तः ? नैष दोषः । यत्नवाहित्वाभिसन्धेर्विवक्षितत्वात् ॥
पुनरप्येष मार्गो बोधिपक्ष्यशब्देनोच्यते "सप्तत्रिंशद्बोधिपक्ष्या धर्माः । ( जैनि_357 ) चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वारो ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्तबोध्यङ्गान्यष्टाङ्गो मार्गः" इति ।
का पुनरियं बोधिः ?
क्षयज्ञानं मता बोधिस्तथानुत्पादधीरपि ।
दश चैकश्च तत्पक्ष्याः सप्तत्रिंशत्तु नामतः

442

सा पुनरेषा बोधिः क्षयानुत्पादज्ञानरूपासती पुद्गलभेदेन त्रिधा भिद्यते । ( जैनि_358 ) तिस्रो बोधयः । बुद्धप्रत्येकबुद्धश्रावकबोधयः । उत्तमनिर्वाणाङ्गभूता तद्धि तिसृणामपि बोधीनां पुरुषकारफलं तत्प्राधान्यत्वात् । मृदुमध्याधिमात्राः सप्तत्रिंशद्बोधिपक्ष्या धर्माः मृदुमध्याधिमात्रभेदभिन्ना महायानम् । मृदुमध्याधिमात्रभेदभिन्नं बुद्धप्रत्येकबुद्धश्रावकयान मित्युच्यते ।
तस्याः पुनस्त्रिप्रकाराया बोधेरनुकूलधर्माः स्मृत्युपस्थानादयः ऽसप्तत्रिंशन्नामतःऽ; । द्रव्यतस्त्वेकादश । श्रद्धादीनि पञ्च बलानि प्रीतिप्रस्रब्ध्युपेक्षासम्यक्संकल्पवाक्कर्मान्ताश्च षडिति । अत इदमुच्यते-
सोपेक्षाप्रीतिसंकल्पं श्रद्धादीन्द्रियपञ्चकम् ।
सप्रस्रब्धिर्द्विरूपोत्थं नामभेदस्त्वपेक्षया

443

बलान्यत्रेन्द्रियाण्येव प्रज्ञैव स्मृत्युपस्थितिः ।
वीर्यं सम्यक्प्रधानाख्यं ऋद्धिपादा मनस्थितिः

444

कथं पुनरेकं वीर्यं चतुर्धा निर्दिश्यते ? तदपदिश्ते-
दोषहाणमनुत्पादं गुणोत्पादं विवर्धनम् ।
सकृत्करोति यत्तद्धि स प्रहाणचतुष्टयम्

445

उत्पन्नानां रागादीनां खलु दोषाणां प्रहाणायानुत्पन्नानां चानुत्पादाय यद्वीर्यम्, गुणानां च स्मृत्युपस्थानर्धिपादादीनामनुत्पन्नानामुत्पादाय, उत्पन्नानां च स्थितये यद्वीर्यं, तत्प्रयोजननिष्पत्तिभेदाच्चत्वारि सम्यक्प्रहाणानि भवन्ति ॥
छन्दव्यायाममीमांसा चित्ताकृष्टाः समाधयः ।
ऋद्धिपादास्तु चत्वारो गुणसम्पत्तियोनयः

446

छन्दमधिपतिं कृत्वा यो निष्पद्यते समाधिः स छन्दसमाधिः । कुशलमूलच्छन्दमूलकत्वात् समाध्यादिगुणनिष्पत्तेः, तस्मादसौ छन्दसमाधिरित्युच्यते । तत्प्रभवाः सर्वा गुणर्धयः । एवं वीर्यं चित्तं मीमांसामधिपतिं कृत्वा निष्पन्नः समाधिः स एष च्छन्दवीर्यचित्तमीमांसासमाधिश्चतुर्विधः । प्रहाणसंस्कारैः च्छन्दवीर्यस्मृतिबुद्धिश्रद्धाप्रस्रब्धिचेतनोपेक्षाभिः प्रत्येकं समन्वागतः सर्वगुणसमृद्धिनिष्पादको भवति छन्दवीर्यचित्तमीमांसापरिग्रहः सामर्थ्यात् । कुशलधर्मच्छन्दे ह्यसति कुतस्तत् प्राप्त्यारम्भः ? आरब्धेपि च वीर्ये यदि न तत्प्रगुणमेव चित्तं भवति न कार्याभिनिष्पत्तिर्भवति । यथारणीमभिनिर्मथ्याप्यन्तरायव्युपरमो भवति पुनः शैत्यमापद्यते तद्वदिति । वीर्यानुवृत्तये चित्तमधिपतिमिष्यते । तत्प्रवणेपि चित्ते यदि सूक्ष्मान् समाध्युपक्लेशान्नोपलक्ष्य परिवर्जयति यदि समाध्यनुगुणान्, गुणांस्तु सामान्यलक्षणशक्तिक्रियानुत्तमार्थाङ्गभूतानुपलक्ष्य, प्रज्ञया नोपचिनोति तस्यान्यायारब्धवीर्ये त्रयमप्येतन्न प्रयोजननिष्पत्तये भवति । एवं छन्दवीर्यश्रद्धास्मृतिबुद्धिप्रस्रब्धिचेतनोपेक्षाख्यानामष्टाणां प्रहाणसंस्काराणां समाधिपरिग्रहसामर्थ्यं यथायोगमवगन्तव्यम् ॥
प्रोक्तं बोधित्रयेशित्वाच्छ्रद्धादीन्द्रियपञ्चकम् ।
कथितं बलशब्देन तदेवानभिभूतितः

447

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञारूपाणि खलु पञ्चेन्द्रियाणि बोधिपक्ष्येषु व्यवस्थाप्यन्ते । बोधित्रयाधिगमे श्रद्धादीनां पञ्चानामैश्वर्याधिक्यात्, सर्वभूमीषूपलब्धेश्च । एतेषां चाधिमात्रमध्यमृदुतरतमविशेषादर्हत्प्रभृतीनां व्यवस्थानं भवति । तान्येव बोधिपक्ष्येष्विन्द्रियाण्युक्तानि, न चक्षुरादीन्याज्ञातवतेन्द्रियपर्यवसानानि । एषामेवैश्वर्यर्द्धिलिङ्गत्वात् । इहेन्द्राः द्विविधाः । चित्तेश्वराश्च धनेश्वराअश्चेत्यतः इन्द्रलिङ्गमिन्द्रियमितिकृत्वेन्द्रियाणि । ( जैनि_360 ) यथा पृथिवीश्वराणां पट्टादीनि लिङ्गानि भवन्ति यैः पृथिवीश्वरोयमिति प्रज्ञायते । यथा च पृथिवीश्वराः विभूषणोपभोगैः परिज्ञायन्ते तथा चित्तेश्वराणामार्यधनसमृद्धानां च श्रद्धादीनि विष्कम्भितप्रहीणविपक्षाणि निर्मलानि लिङ्गानि भवन्ति ।
तत्र तावच्छ्रद्धायाः स्वलक्षणं बुद्धधर्मसङ्घान् सम्भावयतश्चित्तं प्रसादमुपयाति सद्भूतगुणयोगादपेतदोषत्वाच्च, तद्धर्मेषु च प्रसादात्मकमेवार्थित्वमुत्पद्यते । प्रतीत्यसमुत्पादादीनां वा यथाभूतप्रत्यवेक्षणात् कर्मफलादिषु तत्र संभावना भवति । तथा च संभावयतो यश्चेतसः प्रसादः सा श्रद्धा नाम धर्मश्चित्तेन संप्रयुक्तः । यथादर्शादौ धर्मसमूहे, धर्मान्तरमादर्शप्रसादादयः, एवमरूपिणि चित्तादिधर्मसमुदया धर्मान्तरं श्रद्धादयः, चित्तस्याश्रयभावात् प्राधान्यात् सन्तानानुवृत्तेश्च चित्तव्यपदेशः ।
वीर्यं नाम चेतसोभ्युत्साहलक्षणं प्रयोजने वार्थिशक्यतां संभाव्य विविधमीर्यत इति वीर्यम् ।
स्मृतीन्द्रियं नाम कायादिषु प्रज्ञयोपलक्षितेषु या खल्वविपरीताभिलपना प्रत्यभिज्ञानम्, येनावधारिते विषयसंमोषश्चेतसि न भवति स खल्वसंमोषः स्मृतीन्द्रियम् ।
चेतस एकाग्रलक्षणं समाधीन्द्रियम् । विषयग्राहिविषयिणो धर्मास्तदेकालम्बनं चित्तमेकाग्रमित्युच्यते । विचित्रविषयप्रद्युते ह्यनवस्थिते चेतसि तत्त्वावधारणं न भवति । यथा खलु विद्रुतजवनाश्वारूढः पुरुषः प्रतिमुखमागच्छतां दृष्टपूर्वाणामपि मनुष्यादीनां न शक्नोति व्यक्तिमुपलक्षयितुमेवमनेकविषयप्रद्रुते लघुपरिवर्तिनि चित्ते न कायादिविषयतत्त्वोपलक्षणा भवति । यदा तु सुसारथिनेव समाधिनैकस्मिन् विषये चिरं चित्तमाधार्यते तदा धर्मतत्त्वमुपलक्षयति । तस्मात् कुड्य इव रङ्गस्य श्लेषः समाधिरालम्बने चित्तस्याधारः ।
प्रज्ञेन्द्रिसं यत् स्वसामान्यलक्षणमुपलक्षयति । यच्च कायदीनां तत्त्वमभिमुखवदवस्थितं प्राप्तमिव श्लष्टमिव पृष्ठ इव च लक्षयति सोपलक्षणात् ( जैनि_361 ) प्रज्ञेन्द्रियम् । यद्यपि सर्वचित्तेषु यथाविषये प्रत्युपलक्षणा विद्यते न तु सा यथार्थप्रवृत्तेति न सेन्द्रियम् ।
एतान्येवेन्द्रियाणि श्रद्धादीनि यस्माद्योगिनः क्लेशसंग्रामावतीर्णस्य क्लेशानीकविजये प्रधानाङ्गभूतानि राज्ञ इव हस्त्यादयस्तस्माद्बलानीत्युच्यन्ते ।
बोधनार्थेन निर्दिष्टं शास्त्रा बोध्यङ्गसप्तकम् ।
प्रतीत्या परमार्थेन प्रज्ञेत्यन्तमनुग्रहात्

448

समानेपि बोधिपाक्षिकत्वे विशेषेणैते सप्तधर्मा बोध्यङ्गानि भवन्ति । भावनामार्गे खल्वेतेषां प्राधान्यं दृष्टसत्यस्थानत एव । धर्मोपलक्षणोपलक्षितस्वरूपादिषु गुणदोषेषु स्मृतिप्रमोषदोषापनयनार्थमादौ स्मृतिसंबोध्यङ्गमुक्तम् ।
ह्लादः प्रस्रब्धिः । रागजादिपरिदाहप्रतप्तचित्तशरीरस्य ग्रीष्मार्कप्रतप्तस्येव शीतोदकह्रदावगाहनादनास्रवज्ञानसंमुखीभावा द्यत् कायचित्तप्रह्लादः स धर्मः प्रस्रब्धिः ।
उपेक्षा नाम रागद्वेषपक्षपातविपक्षेण यथाभूतज्ञेयमवेक्षमानस्य यच्चित्तसमतान्यतरपक्षाभिसंस्कारविपक्षो निर्वाणाशया सोपेक्षा बोध्यङ्गमित्युच्यते ।
अत्र पुनः प्रीत्यादीनि त्रीण्यपि कृतावशेषाणि चत्वारि पूर्वमेव व्याख्यातानि । तेषां पुनः सप्तानां बुद्धिर्धर्मप्रविचयलक्षणा बोधिश्च बोध्यङ्गं च । ज्ञानं हि बोधिः ज्ञानं च प्रज्ञा शेषाण्यङ्गान्येव ॥
तेषामपि च
प्रीतिप्रस्रब्ध्युपेक्षाणामुक्ताद्धेतोस्तदङ्गता ।
निरामिषप्रीतिप्रस्रब्ध्युपेक्षाभिः प्रीणितेन्द्रियग्रामः सुखमनुद्विग्नो बोधिमधिगच्छति । ( जैनि_362 ) यानि चैषां लक्षणनिर्देशकारणान्युक्तानि ततश्च बोध्यङ्गत्वमिति ।
संकल्पादेश्चतुष्कस्य पथो ज्ञेयानुकूल्यतः

449

अङ्गतेति वर्तते । सम्यक्संकल्पसम्यग्वाक्कर्मान्ताजीवानां सम्यग्दृष्टिसम्यग्व्यायामसम्यक्स्मृतिसम्यक्समाधीनामिव मार्गानुकूल्यादङ्गत्वम् ॥
अयं पुनरार्यमार्गसतत्त्वपिण्डार्थः-
विद्याप्रभः श्लक्ष्णविकल्पभूमिः शीलानुयात्रः स्मृतिवीर्यमित्रः ।
समाधिसर्वाधिसुखोपभोगो मार्गो विमुक्तिद्वयधिष्ण्यगो ऽयम्

450

प्राधान्यं सप्तवर्गस्य प्रारम्भोष्मगतादिषु ।
अत्र पुनः
यथाक्रमं विबोद्धव्यं भावनादृष्टिमार्गयोः

451

तत्र स्मृत्युपस्थानान्यादिकर्मिकावस्थाप्रभावितानि कायादिस्वभावोपलक्षणात् । सम्यक्प्रहाणान्यूष्मगतेषु । तत्र संसारनिर्वाणयोरादीनवानुशंसदर्शने बलवद्वीर्याश्रयणात् संसारपारमुत्तरति । मूर्धावस्थायामृद्धिपादाः प्रभाव्यन्ते तेषु समाधिबललाभाच्चित्तनिग्रहे सति परिहाण्यभावान्न कदाचिद् गुणधनदरिद्रो भवति । इन्द्रियाणि क्षान्तिष्वपायात्यन्तनिवृत्तौ तदाधिपत्यात् । बलान्यग्रधर्मेषु क्लेशानवमर्दनीयत्वात् । बोध्यङ्गानां भावनामार्गे प्राधान्यं वासीदण्डोपमया मार्गभावनया निरवशेषक्लेशप्रहाणात् । नवप्रकारतया वा मलप्रहाणे सति बोधेरासन्नीभावात् । दर्शनमार्गे मार्गाङ्गानि दर्शनहेयक्लेशप्रहाणार्थमाशु त्रैधातुकातिक्रमणोत्पादात् । आनुपूर्वीव्यतिक्रमस्तु देशनानुकूल्यात् ॥
अथ कस्माच्चैतसिकधर्मधर्मिभूतं चित्तं बोधिपक्ष्येषु न व्यवस्थापितम् ? ( जैनि_363 ) संज्ञाचेतनामनस्कारच्छन्दाधिमोक्षादयश्च धर्मा बोधिपक्ष्येषु न व्यवस्थाप्यन्ते ? तदिदमनुवर्ण्यते-
न चित्तं राजकल्पत्वाद् गुणदोषानुवर्तनात् ।
राजस्थानीयं खलु चित्तं तद्बोधिपक्ष्यैर्धर्मैर्विशोध्य मोक्षसुखमुपलभ्यते । यथैव च गुणानुवर्ति चित्तं तथैव दोषानुवर्ति । यथोक्तम्- "चित्तसंक्लेशात्सत्त्वा संक्लिष्यन्ते । चित्तव्यवदानहेतोश्च विशुद्ध्यन्ते ।" तस्य रागादयः संक्लेशकराः, श्रद्धादयो व्यवदानाधायिनस्तस्माच्चित्तं न व्यवस्थापितम् ।
व्यवहारानुकूल्यत्वात् संज्ञा ह्येतेषु नेष्यते

452

प्रायो हि व्यवहारानुपतिता संज्ञा बोधिपक्ष्यास्त्वेकान्तेन परमार्थपक्षभजमानाः ॥
विपाकफलनिम्नत्वान्मार्गोक्तेश्च न चेतना ।
चेतना खल्विष्टानिष्टविपाकनिर्वर्तनत्वात् मार्गशब्देनाभिधानाच्च नोच्यते ।
नाप्राधान्यान्मनस्कारो विद्याविद्याप्रवर्तनात्

453

मनस्कारोपि सम्यग्दृष्टेरङ्गभूतत्वादप्रधानं विद्याविद्याप्रवर्तनाच्च ॥
क्रियारम्भप्रधानत्वान्न च्छन्दो वीर्यबृंहणात् ।
छन्दः खलु कर्तुकामतारूपः क्रियारम्भः प्रभाव्यते । वीर्य चानुबृंहयति । तद्वीर्यं बोधिप्रतिलम्भकर्तव्यतापरिसमाप्तेरूर्ध्वं यावदनुवर्तते ।
नाधिमोक्षः समारोपान्न स्पर्शो दौर्विभाव्यतः

454

प्रायेण खल्वधिमोक्षो ऽधिमुक्तमनस्कारेषु वर्तते । स्पर्शोपि त्रिसन्निपातमात्रविप्रतिपत्तेर्दुरवधारवृत्तिः । तस्मान्नोक्तः ॥
नार्यवंश ह्र्यपत्राप्या अविशारदवृत्तितः ।
चत्वारः खल्वार्यवंशाः ह्र्यपत्राप्ये च । नवप्रव्रजितभिक्षुवदविशारदवृत्तित्वान्न बोधिपक्ष्याः ।
नाप्रमादः पराङ्गत्वान्नाविहिंसाविहेठनात्

455

वीर्यभाण्डागारिकः खल्वप्रमादः । अविहिंसा च विहेठनामात्रप्रतिपक्षत्वान्नोक्ता ॥
सत्त्वाधिष्ठानवृत्तित्वान्न मैत्रीकरुणादयः ।
धर्माधिष्ठानाः खलु बोधिपक्ष्याः मैत्र्यादयस्त्वेकान्तेन सत्त्वाधिष्ठानाः ।
मार्गाङ्गाक्षैकदेशत्वान्नाप्यवेत्यप्रसत्तयः

456

अवेत्यप्रसादाः खलु मार्गाङ्गैकदेशस्वभावत्वादक्षैकदेशरूपत्वाच्च न पुनर्बोधिपक्ष्येषूक्ताः ।
नाद्वेषः शुभमूलेभ्यः सत्त्वगोचरभावतः ।
सत्त्वाधिष्ठानप्रवृत्तो हि अद्वेषः । तस्मान्न बोधिपक्ष्यः ।
औदासीन्यान्न निर्वाणं दविष्ठ्यान्न परध्वनिः

457

निष्क्रियं खलु निर्वाणं क्रियावन्तस्तु बोधिपक्ष्या धर्माः । परतो घोषः खल्वपि बोधिपक्ष्याङ्गभावो बोधेर्बहिरङ्गभावाद्विप्रकृष्यते । तस्मात् सप्तत्रिंशदेव धर्मा बोधिपक्ष्याः ॥
कति पुनर्बोधिपक्ष्याः सास्रवाः कत्यनास्रवाः ? तदिदं प्रदर्श्यते-
बोध्यङ्गान्यरजस्कानि बोधेर्नेदिष्टभावतः ।
तदन्यान्यवबोध्यानि समलान्यमलान्यपि

458

बोध्यङ्गानि खलु बोधेरासन्नतमत्वादेकान्तानास्रवाणि । तदन्ये तु सास्रवानास्रवाः सर्वे हि कुशला धर्मा आर्यमार्गावाहका निर्वाणाशयाश्च । बोधित्रयसंनिकृष्टविप्रकृष्टाङ्गभावा बोधिपक्ष्या इत्युच्यन्ते । उक्तं हि भगवता- ( जैनि_365 ) "अधिगतो मे पौराणो मार्गः" इति वचनात् । शास्त्रे तु बोध्यङ्गोपरि ये पठ्यन्ते सम्यग्दृष्ट्यादयो धर्मास्ते ऽनास्रवा इति ॥
कस्यां पुनर्भूमौ कियन्तो बोधिपक्ष्या विद्यन्ते ?
आद्ये ध्याने ऽखिला मौले ऽनागम्ये प्रीत्यपाकृताः ।
द्वितीये ऽप्यपसंकल्पा द्वयोश्चास्मात् द्वयादृते

459

शीलाङ्गेभ्यश्च ताभ्यां च द्रष्टव्या त्रिष्वरूपिषु ।
बोध्यङ्गेभ्यश्च सर्वेभ्यो कामे बोध्यङ्गवर्जिताः

460

तत्र तावन्मौले ध्याने सर्वेपि सप्तत्रिंशद्बोधिपक्ष्या विद्यन्ते । अनागम्ये तु प्रीतिवर्जिताः । तत्र प्रीतेरभावात् । वीतरागावीतरागसाधारणैषा भूमिरिति नास्ति प्रीतिः । द्वितीये तु ध्याने संकल्पवर्जिताः सर्वे विद्यन्ते । तृतीयचतुर्थयोस्तु ध्यानयोः संकल्पप्रीतिवर्ज्याः पञ्चत्रिंशत् । ऽचऽशब्दाद् ध्यानान्तरेपि पञ्चत्रिंशत् संकल्पप्रीतिवर्जिताः । त्रिष्वारूप्येषु सम्यग्वाक्कर्मान्ताजीवैस्त्रिभिः प्रीतिसंकल्पाभ्यां च । भवाग्रेपि शीलाङ्गत्रयप्रीतिसंकल्पबोध्यङ्गवर्जिताः पञ्चविंशतिः । कामधातावपि बोध्यङ्गवर्जितास्त्रिंशद्विद्यन्त इति । ये पुनरनास्त्रवाण्येव मार्गाङ्गानीच्छन्ति तेषां तैरपि वर्जिताः शेषा बोधिपक्ष्या विद्यन्त इति । गतमेतत् ॥
इदं तु वक्तव्यम् । बोधिपाक्षिकाधिकारे-
यस्तत्प्रथमताः प्रोक्ताश्चतस्रस्तत्र कोविदैः ।
न्यामावक्रान्तिवैराग्यफलाप्त्यक्षविवृद्धिषु

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc