भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 421-440

421

निर्वेधभागीयानधिकृत्य
एतन्निर्वेधभागीयं चतुर्धा भावनामयम् ।
परमार्थदक्षिणीयभिक्षुसङ्घप्रवेशद्वारभूतत्वात् भावनामयं न श्रुतमयं चिन्तामयम् । कुतः पुनरुपपत्तिप्रातिलम्भिकं भविष्यतीत्येतच्च सन्धाय ( जैनि_328 ) भगवतोक्तम्- "च्युतौ बतेमौ मोहपुरुषावस्माद्धर्मविनयाद्यत्र नामानयोः मोहपुरुषयोरूष्मगतमपि नास्ति" इति । तच्चैतत्सर्वम्
षड्भौमं षोडशाकारं पञ्चस्कन्धा विनाप्तिभिः

422

ऽषड्भौमंऽ; दर्शनमार्गवतो, ऽषोडशाकारंऽ; दर्शनमार्गवत् सानुपरिवर्तकं । ऽपञ्चस्कन्धं विनाप्तिभिः ।ऽ; प्राप्तयः खलु नोष्मागतादिस्वभावाः । तत्स्वाभाव्ये ( जैनि_329 ) हि तासामार्यस्योष्मगतादिसंमुखीभावः स्यात् । न चेष्यते । सत्यदर्शनसमङ्गिनो दृष्टसत्यस्य वा सत्यदर्शनप्रयोगसंमुखीभावे प्रयोजनाभावादिति ।
आह । के पुनस्ते षोडशाकाराः येषां भावनया स्त्रोतआपन्नो भवति ? तदुच्यते । चतुर्भिराकारैरनित्यदुःखशून्यानात्माकारैः दुःखं परीक्षते । तत्र बोधिसत्त्वादृते तृष्णाचरितः प्रायो ऽनित्याकारेण, कौसीद्याधिको दुःखाकारेण, आत्मीयदृष्टिचरितः शून्याकारेण, आत्मदृष्टिचरितो ऽनात्माकारेण ।
हेतुसमुदयप्रभवप्रत्ययतः समुदयम् । हेतुतः अहेतुदृष्टिचरितः । समुदयतः एककारणदृष्टिचरितः प्रभवतो नित्यकारणदृष्टिचरितः । प्रत्ययतो ऽबुद्धिपूर्वकृतदृष्टिचरितः ।
निरोधशान्तप्रणीतनिःसरणतो निरोधम् । एभिश्चतुर्भिर्निरोधः । नास्ति मोक्ष इत्येवं दृष्टिचरितो निरोधतः शरीरादिमत इत्येवं चरितः शान्ततः । विषयसुखचरितः प्रणीततः । ध्यानादिसुखचरितो निःसरणतः ।
मार्गन्यायप्रतिपन्नैर्याणिकतो मार्गम् । एभिश्चतुर्भिर्मार्गः । नास्ति मोक्षमार्ग इत्येवं दृष्टिचरितो मार्गतः । कष्टतपोभिरित्येवं दृष्टिचरितो न्यायतः । लौकिकवैराग्यमार्गचरितः प्रतिपत्तितः । असकृल्लौकिकमार्गपरिहाणिको नैर्याणिकतः । इत्येवमादिते(के?) समये व्यभिचरणकाले त्वेकोपि सर्वैः ( जैनि_330 ) परीक्षते । रोगगण्डशल्याघाताकारादिभिर्न तु तैरत्यन्तप्रहाणमित्यतः षोडशैवार्याकारा इत्युच्यन्ते । पुरस्ताच्चैतच्छ्लोकानुगतमेवोपदर्शयिष्यामि ॥
निर्वेधभागीयेभ्यः पुनः
पश्चात्तु खलुनिर्वेध आर्यमार्गाह्वयस्ततः ।
स यस्मान्निश्चितो वेधस्तस्मान्निर्वेध उच्यते

423

इति प्रागाविष्कृतमेतत् ॥
धर्मज्ञानरुचिर्दुःखे निर्मलं धर्मदर्शनम् ।
ततस्तत्रैवावधृतिः धर्मज्ञानमनन्तरम्

424

लौकिकेभ्यः खल्वग्रधर्मेभ्यो निरास्रवा लोकोत्तरा धर्ममात्रेक्षणदृष्टिरुत्पद्यते । ( जैनि_332 ) सूत्र उक्तम् "लौकिकाग्रधर्मानन्तरं समं नियाममवक्रामति ( जैनि_333 ) यदवक्रान्तौ पृथग्जनभूमिं समतिक्रामति" इति । तदनन्तरं दुःखे धर्मज्ञानं ( जैनि_334 ) निश्चयात्मकम् । क्षान्त्या वा संयोगप्राप्तिं छिनत्ति ज्ञानेन विसंयोगप्राप्तिमावहतीति ( जैनि_335 ) विशेषः ।
एवं त्रिष्वपि सत्येषु तथैवान्वयधीर्द्विधा ।
द्वाभ्यां धर्मज्ञानक्षान्तिधर्मज्ञानेक्षणाभ्यां समनन्तरं रूपारूप्यावचरे दुःखे ऽन्वयज्ञानक्षान्त्यन्वयज्ञानेक्षणमुत्पद्यते । एवं त्रिष्वपि सत्येषु द्रष्टव्यम् । अत्र पुनः
अनन्त्यास्तत्र दृङ्मार्गाः ज्ञेयाः पञ्चदशक्षणाः

425

अन्त्यक्षणं मुक्त्वा पञ्चदशस्वभावो दर्शनमार्गः यस्त्वसौ स्थापितः स खलु
क्षणो ऽन्त्यो भावनामार्गात् फलमेषो ऽर्थसिद्धितः

426

योगाचार्यस्य खल्वभि...............
................... स्त्रोताश्चेति पञ्चभवन्ति ॥
अत्र पुनर्य एष पञ्चमः स खलु
ध्यानानि व्यवकीर्यातः पञ्चमस्त्वकनिष्ठगः ।
शुद्धावासोपपत्तिः खलु ध्यानव्यवकिरणफला ।
चतुर्धारूप्यगाम्यन्यो दृष्टनिर्वायको ऽपरः

427

ऊर्ध्वगस्यानागामिनः पञ्चधा भेद उक्तः । आरूप्यगामी तु चतुर्धा निर्दिश्यते पूर्वोक्तेभ्यः अन्तरापरिनिर्वायिणमपास्य । इत्येते षड् भवन्ति । दृष्टधर्मनिर्वायकः सप्तम इहैव जन्मनि यः परिनिर्वाति ॥
पुनस्त्रिधा त्रिधा कृत्वा त्रीनतो रूपगा नव ।
एते खलु रूपोपगाः पञ्चानागामिनस्त्रयो भवन्ति । अन्तरोपपद्यपरिनिर्वायिणमू(न्नू ?)र्ध्वस्त्रोताश्च । ( जैनि_340 ) द्वितीयाद्या हि त्रयो ऽनागामिनः सर्व एवोपपद्य परिनिर्वायिणो भवन्ति । अनुपपन्नानां परिनिर्वाणात् । तेषां प्रत्येकं त्रिधा भेदान्नवानागामिनो भवन्ति । कथमिति ? अन्तरापरिनिर्वायिणस्तावदुत्पतत एवादूरं गत्वोपपत्त्यासन्नीभूतस्य च परिनिर्वाणभेदात् । उपपद्यपरिनिर्वायिणः उपपद्य साभिसंस्कारानभिसंस्कारभेदादूर्ध्वस्त्रोतसः प्लुतादिभेदात् ।
तद्विशेषः पुनर्ज्ञेयः कर्मक्लेशाक्षभेदतः

428

तेषां पुनस्त्रयाणां नवानां वा अनागामिनां कर्मक्लेशेन्द्रियभेदाद्यथायोगं विशेषो बोद्धव्यः । त्रयाणां तावत्कर्मतः, अभिनिर्वृत्युपपत्त्यपरपर्यायवेदनीयकर्मोपचितत्वात् । क्लेशतः मृदुमध्याधिमात्रक्लेशसमुदाचारात् । इन्द्रियतो ऽधिमात्रमध्यमृद्विन्द्रियभेदात् ॥
यदि तर्हि क्लेशेन्द्रियभेदान्नवानागामिनो भवन्ति, कथं सूत्रे सप्त सत्पुरुषगतयो देशिताः ? तदपदिश्यते-
षड्धोर्ध्वस्त्रोतसा सार्धं सप्तधा सद्गतिर्मता ।
द्वौ खल्वत्रानागामिनौ त्रिधा त्रिधा भित्त्वा षड्धा व्यवस्थापितौ । ( जैनि_342 ) तृतीयस्तूर्ध्वस्त्रोतानाकुलीकरणार्थमभेदेनैवोक्तः । इति सप्तधा देशिता सत्पुरुषगतिः ।
कस्मात् पुनः स्त्रोतआपन्नसकृदागामिनोः सत्पुरुषगतिर्न देशिता सत्पुरुषसूत्रोद्देशे लक्षणेपि सति तदुच्यते-
सति वृत्तेरनैर्याणादुक्तैषामेव सद्गतिः

429

यस्मादनागामिनः सत्येव वृत्तिर्भवति नासती । इतरयोस्तु कुशलाकुशले वृत्तिः । यस्माच्चानागामी यतो गतस्तत्र न पुनरागच्छति, तौ तु गतागती कुर्वाते तस्मात्तस्यैव सा गतिर्देशिता नेतरयोरिति ॥
किं पुनः परावृत्तजन्माप्यनागामी सत्पुरुषगतौ व्यवस्थापितः ? नेत्याह । यस्मात्-
परावृत्तभवो ह्यार्यो नेह धात्वन्तरोपगः ।
रूपधातौ हि परावृत्तजन्मनः आर्यस्य धात्वन्तरगमने ऽस्ति संभवः । कामधातौ तु परावृत्तजन्मार्यो न धात्वन्तरं गच्छति तत्रैव जन्मनि परिनिर्वाणात् ।
यश्चैष कामधातौ परिवृत्तजन्मार्य उक्तः
एष चोर्ध्वगतिश्चैव नाक्षमं चारहानिभाक्

430

ऊर्ध्वधातूपपन्नः ऊर्ध्वगतिरार्य इत्यपि कृतं द्वयोरप्यनयोर्नास्तीन्द्रियसंचारो न परिहाणिः । जन्मान्तरपरिवासेनार्यमार्गस्य सन्ततौ दृढतरनिवेशात्, आश्रयविशेषलाभादार्यस्य जन्मान्तरे रूपारूप्यप्रवेशेन्द्रियसंचारपरिहाणयो न सन्ति ॥
अथ यदुक्तं ध्यानव्यवकिरणादिति तत्र कतमद्ध्यानमादौ व्यवकीर्यते ?
अन्त्यकामीर्यते पूर्वं सिद्धिर्द्विक्षणमिश्रणात् ।
चतुर्थे हि प्रश्रब्धिसुखोत्कटः समाधिः सर्वकर्मण्यो यतस्तत्संमुखीभावात्, आश्रयस्योपचये सत्यामृताभिवृद्धिः येन शक्नोति ध्यानानि व्यवकरितुम् ।
कथं पुनर्ध्यानानि व्यकीर्यन्ते ? आदौ तावदनास्रवं प्रवाहयुक्तं चतुर्थं ध्यानं समापद्यते । तस्माद्व्युत्थाय तदेव सास्रवं प्रवाहयुक्तं समापद्यते । ( जैनि_345 ) पुनश्च तदुत्थितः अनास्रवं तथैव स तान् प्रवाहान्ह्रसित्वा यावत्क्षण द्वये तिष्ठतीत्येष प्रयोगः ।
सिद्धिस्तु क्षणद्वयमिस्रणात् । यदा तु शक्नोत्येकेनास्रवक्षणानन्तरमेकं लौकिकं संमुखीकर्तुम्, एकलौकिकक्षणान्तरं चैकमनास्रवमयत्नेन, एवमनास्रवाभ्यां सास्रवस्य मिश्रीकरणान्निष्पन्ना भवति ध्यानव्यवकिरणा ।
किमर्थं पुनर्ध्यानव्यवकिरणम् ? तदुच्यते-
उद्भवार्थं सुखार्थं च क्लेशाशङ्कार्थमेव च

431

त्रिभिः कारणैर्ध्यानानि व्यवकीर्यन्ते । उपपत्त्यर्थं सुखविहारार्थं क्लेशपरिहाणिभीरुतया च । तत्र दृष्टिप्राप्तः उपपत्त्यभिलाषसमापत्तिप्रियताभ्याम् । श्रद्धाधिमुक्तस्तु पूर्वाभ्यां च कारणाभ्यां क्लेशभीरूतया च । ( जैनि_346 ) असमयविमुक्तो ऽप्यर्हन् दृष्टधर्मसुखविहारार्थम् । समयविमुक्तश्च क्लेशभीरुतया चेति ॥
यच्चैतद्व्यवकिरणमुक्तम्,
तत्पाञ्चविध्यतः पञ्च शुद्धावासभुवः स्मृताः ।
तद्धि चतुर्थध्यानव्यवकिरणं पञ्चप्रकारं मृदुमध्याधिमात्रतर मधिमात्रतमभेदात् । अतो हेतुपाञ्चविध्यात् फलमपि पञ्चविधं भवति ।
एताः पुनः शुद्धावासभूमयः
न जातु दृष्टपूर्वास्ताः सर्वैरपि पृथग्जनैः

432

भवाग्रमुपादाय ब्रह्मलोकमिन्द्रलोकं यावदवीचिमुपादाय सर्वबालपृथग्जनैरदृष्टपूर्वमन्यत्र शुद्धावासेभ्य इति ।
अभिधर्मप्रदीपे विभाषाप्रभायां वृत्तौ षष्ठस्याध्यायस्य द्वितीयः पादः ॥
षष्ठाध्याये
तृतीयपादः ।
यो निरोधसमापत्तिमश्नुते कायसाक्ष्यसौ ।
यः खलु निरोधसमापत्तिलाभ्यनागामी स कायसाक्षीत्युच्यते । ( जैनि_349 ) निर्वाणसदृशस्य धर्मस्य कायेन साक्षात्करणात् । स खलु धर्मः कायाश्रयेणोपजायते । तत्प्राप्तिलाभादपि निरोधलाभीत्युच्यते ।
भवाग्राष्टांशहा यावदर्हत्त्वप्रतिपन्नकः

433

प्रथमध्यानवैराग्यादेकप्रकारमारभ्य यावद्भवाग्राष्टप्रकारप्रहाणादर्हत्त्वप्रतिपन्नकोद्रष्टव्यः ॥
यश्चानन्तर्यमार्गे ऽन्त्ये वज्रौपम्याह्वयेस्थितः ।
नवमस्यापि भावाग्रिकस्य प्रकारस्य प्रहाणायानन्तर्यमार्गे ऽन्त्ये ऽन्त्यफलप्रतिपन्नकः एवावगन्तव्यः ।
तत्फलार्थं क्षयज्ञानं तदेकालम्बनं न वा

434

तस्य वज्रोपमस्य समाधेर्बलादुत्थितं तद्बलोत्थमन्त्यविमुक्तिमार्गाख्यं तेन सहैकालम्बनं भवति न वा । क्षयज्ञानस्य चतुःसत्यालम्बनत्वात् ॥
तदवाप्तेरशैक्षो ऽसावर्हंस्त्रैलोक्यसत्कृतः ।
सर्वक्लेशविसंयुक्तः शिक्षात्रितयपारगः

435

स खलु त्रयाणामास्रवाणां निरवशेषप्रहाणात्तिसृणां च शिक्षाणां पारगमनात् सब्रह्मकस्यापि लोकस्य पूजामर्हतीत्यर्हन्निरुच्यते ॥
एषां पुनस्त्रयाणां मार्गाणां कतमः सास्रवो कतमो निरास्रवः ? तदुच्यते-
भावनाख्यो द्विधा मार्गः समलामलभेदतः ।
दर्शनाख्यस्तु विज्ञेयः सर्वस्यैव निरास्रवः

436

आनुपूर्विकयद्भूयोवीतरागावीतावीतरागिणाम् ।
अशैक्षाख्योपि बोद्धव्यो नित्यमेवामलीमसः

437

कतमत्पुनः कतमां भूमिमत्येति ? तदपदिश्यते-
भवाग्रं निर्मलो ऽत्येति........

438

..........तत्र तावदशैक्षस्य चत्वारि ध्यानानि त्रीण्यारूप्याण्यनागम्यध्यानान्तरं च । शैक्षस्य तु षडारूप्यत्रयं हित्वा । किं पुनरत्र कारणम् ?
सविशेषं यतस्त्यक्त्वा फलं परमुपाश्नुते ।
इह खलु यः फलविशिष्टमार्गस्थः इन्द्रियाणि संचरति सफलं फलविशिष्टं च मृद्विन्द्रियमार्गं त्यक्त्वा तीक्ष्णेन्द्रियमार्गसंगृहीतं फलमात्रमेव प्रतिलभते । यश्चाशैक्षः आरूप्यभूमिं निःश्रित्येन्द्रियाणि संचरति नियतमनागामिफलविशेषमार्गस्थस्य न चास्त्यनागामिफलमारूप्यभूमिसंगृहीतम् । इत्येतत् कारणम् ।
यदुक्तं भगवता- "क्लेशान् प्रहायेह हि यस्तु पञ्चाहार्यधर्मा परिपूर्णशैक्षः" इति । कियता परिपूर्णशैक्षो भवति ?
शैक्षस्य त्रिभिरक्षाद्यैर्द्वाभ्यां संपूर्णंतार्हतः

439

शैक्षस्य खलु त्रिभिः कारणैः परिपूर्णता भवति । समापत्तीन्द्रियफलैः । तद्यथा दृष्टिप्राप्तस्य कामसाक्षिणः अन्यतरवैकल्यात्तु न परिपूर्णता स्यात्प्रागेव सर्ववैकल्यात् । तद्यथा कामावीतरागस्य श्रद्धाधिमुक्तस्यैवं तावच्छैक्षस्य ।
अशैक्षस्य द्वाभ्यामिन्द्रियसमापत्तिभ्याम् । तद्यथोभयभागविमुक्तस्य असमयविमुक्तस्येति ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ षष्ठस्याध्यायस्य तृतीयः पादः ॥
षष्ठाध्याये
चतुर्थपादः ।
लौकिकलोकोत्तरदर्शनभावनाशैक्षाशैक्षमार्गभेदेनानेकविधो मार्ग उक्तः । स तु
विज्ञातव्यः समासेन पुनमार्गश्चतुर्विधः ।
आनन्तर्यविमुक्त्याख्यौ प्रारम्भोत्कर्षलक्षणौ

440

तत्र प्रयोगमार्गः कुशलमूलफलस्यारम्भ इत्यर्थः । तस्यानन्तरमानन्तर्यमार्गः येन क्लेशाञ्जहाति । विमुक्तिमार्गो यः तत्प्रहेयावरणविमुक्ते ( जैनि_355 ) सन्ताने विसंयोगप्राप्तिसहायोत्पद्यते । विशेषमार्गो यस्तदूर्ध्वमन्यकुशलमूलप्राप्त्यर्थमुत्कर्षगमनलक्षणः ॥
पुनर्मार्गो भगवता मोक्षपुरप्रतिपादनात् प्रतिपच्छब्देनोक्तः "चतस्रः प्रतिपदः । अस्ति प्रतिपत्सुखा धन्धाभिज्ञा । अस्ति सुखा क्षिप्राभिज्ञा । अस्ति दुःखा धन्धाभिज्ञा । अस्ति दुःखा क्षिप्राभिज्ञा ।" तासां पुनरिन्द्रियतो भूमितश्च व्यवस्थानं तदिदं प्रदर्श्यते-
तीक्ष्णेन्द्रियस्य मौलेषु ध्यानेषु प्रतिपत्सुखा ।
क्षिप्राभिज्ञाल्पबुद्धेस्तु धन्धान्यत्र विपर्ययात्

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc