अभिधर्मदीप (टीका सहित) · श्लोक 401-420
प्रथमयोः सत्ययोः गोत्राणि आलम्बनानि । तेनात्र न विसभागाकारभावना ॥
सर्वत्राकिरणे मूर्ध्नो निरोधाकिरणैधने ।
धर्माख्याः संमुखीभूताश्चतस्रः खल्वनागताः
मूर्धाकारविन्यासे ऽनिरोधाकिरणैधनेऽ; च धर्मस्मृत्युपस्थानं प्रत्युत्पन्नम्, चत्वार्यनागतानि भाव्यन्ते ॥
आकाराः सकलास्तत्र भाव्यन्ते गोत्रलाभतः ।
सर्वाभ्यो ऽन्यतरोत्पन्नाः सत्यत्रयविवर्धने
अनागताश्चतस्रस्तु भाव्यन्ते तत्र निश्चयात् ।
आकाराः सकला ज्ञेयाः क्षान्तिविन्यसने शृणु
सर्वत्रान्त्याः समुत्पन्नाश्चतस्रः खल्वनागताः ।
आकाराः सकलास्तत्र भाव्यन्ते चाप्यनागताः
प्रत्युत्पन्नाग्र्यधर्मेषु धर्माख्या स्मृत्युपस्थितिः ।
अनागतास्तु भाव्यन्ते चतस्त्रस्तेषु निश्चयात्
आकाराः खलुः चत्वारो दृङ्मार्गसदृशत्वतः ।
यथोष्मकिरणे तद्वद् द्रष्टव्यं दृष्टिवर्त्मनि
अन्त्यां मार्गान्वयज्ञाने प्रत्युत्पन्नां विनिर्दिशेत् ।
चतस्रो ऽनागतास्तद्वत् षोडशाकारभावनाः
तदूर्ध्वमपि चार्यस्य सर्वापूर्वगुणोदये ।
श्रुतचिन्तामयं हित्वा सूक्ष्मसूक्ष्मं व्यपोह्य च
एवं तावदार्यस्य स्मृत्युपस्थानभावना द्रष्टव्या ॥
बालस्यारम्भमार्गे तु चतुर्भूमिविनिर्जयैः ।
भूतामन्यतरां ताभ्यश्चतस्रः खल्वनागताः
आनन्तर्यपथे मुक्तावन्त्यां सर्वास्त्वनागताः ।
अन्त्ये ध्याने प्रयोगादिमार्गेष्वष्टासु पूर्ववत्
तिस्रस्तु नवमे विद्यात् मौलभूमिप्रवेशतः ।
सामन्तकप्रयोगे तु चतस्रो ऽन्त्याथवा भवेत्
दिव्याक्षिश्रुत्यभिज्ञायां विमोक्षादौ तथैव च ।
प्रथमां संमुखीभूतां चतस्रः खल्वनागताः
परचित्ते तृतीया तु चतस्रश्चाप्यनागताः ।
प्राङ्निवासाप्रमाणानामन्त्यां सर्वास्त्वनागताः
आरूप्याणां विमोक्षाणां तिसृभ्यो ऽन्यतमां वदेत् ।
संमुखे नाम जातास्तु तिस्र एव विनिर्दिशेत्
आरूप्यकृत्स्नयोस्त्वन्त्यां प्रत्युपन्नामुदाहरेत् ।
तिस्रः खल्वसमुत्पन्नाः कथयन्नियमेन तु
आर्यस्य खलु वैराग्यप्रयोगे क्षेपणे पि च ।
सर्वेभ्यो ऽन्यतराभूताश्चतस्रश्चाप्यनागताः
आनन्तर्यपथे मुक्तावन्त्याः सर्वास्त्वनागताः ।
ऋध्यादौ तु गुणाः सर्वमनार्यस्यैव निर्दिशेत्
अन्त्यपूर्वनिवासादौ च धर्मप्रतिसंविदि ।
तथापरसमाध्यादावरणायां तथैव च
आरूप्याख्यविमोक्षादौ संज्ञासूक्ष्मोदये तथा ।
सर्वाभ्यो ऽन्यतराभूताश्चतस्रः खल्वनागताः
ब्रूयात्तु सूक्ष्मसूक्ष्मे ऽन्त्यां भूतां तिस्रस्त्वनागताः ।
समासेनेयमाख्याता स्मृत्युपस्थानभावना
मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0