भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 21-40

21

ऽमनोभौमीऽति वर्तते । पञ्चानां विज्ञानकायानां जातिबधिरपुरुषरूपदर्शनवद्वृत्तिः । तत्रापि च स्मृतिः समाहिता चासमाहिता च अनुस्मृतिविकल्पः, आलम्बनाभिलपनतुल्यत्वात् । प्रज्ञा त्वसमाहितैवाभिनिरूपणा विकल्पः, समाहितायाः प्रकारविशेषनिरूपणाभावात्, पूर्वनिरूपितोपलक्षणमात्रवृत्तित्वाच्च ॥
अथैषां षण्णां विज्ञानकायानां कतरद्विज्ञानं कियद्भिः सविकल्पकम् ? तदिदमाविष्क्रियते ।
विज्ञानपञ्चकं कामेष्वेकेन सविकल्पकम् ।
स्वभावविकल्पेन ।
तस्मादन्यत् त्रिभिः
मनोविज्ञानं कामेषु त्रिभिः सविकल्पकम् ।
ध्याने प्रथमे चासमाहितम्

22

प्रथमे हि ध्याने यदसमाहितं मनोविज्ञानं तत् त्रिभिरेव ।
द्वाभ्यामव्यग्रं
यत्पुनः समाहितंतद्द्वाभ्यामेवाभिनिरूपणविकल्पमपास्य ।
एकेन चक्षुःश्रोत्रत्वगाश्रयम् ।
यत्पुनश्चक्षुःश्रोत्रत्वगाश्रयं विज्ञानं प्रथमे ध्याने तदेकेनैव ।
द्वाभ्यां तदुपरिव्यग्रं
द्वितीयादिषु ध्यानेषु द्वाभ्यां व्यग्रमिति वर्तते ।
एकेनैव समाहितम्

23

अनुस्मृतिविकल्पेनैव । एवं यावद्भवाग्रम् ॥
इदमिदानीं वक्तव्यम् । कुत्र कस्य षट्प्रकारं विज्ञानं कुशलादिविकल्पकं भवति ? तदिदमभिधर्मगह्वरं प्रस्तूयते ।
उच्छिन्नशुभबीजस्य दर्शनं सविकल्पकम् ।
कुशलं नास्ति विज्ञानमन्यत्र प्रतिसन्धितः

24

इह तावदुच्छिन्नकुशलमूलस्य पञ्च रूपोन्द्रियाश्रयबलोत्पन्नं दर्शकं विज्ञानं कुशलं न विद्यते, अन्यत्र कुशलमूलप्रतिसन्धानात् ।
कामेभ्यो वीतरागस्य बालस्याहानिधर्मिणः ।
द्विधाप्यकुशलं नास्ति
दर्शकं च मनोविज्ञानं च यद्यपरिहाणधर्मा भवति ।
क्लिष्टं चार्यस्य नोत्तमम्

25

न चार्यस्योर्ध्वभूम्यालम्बनं क्लिष्टं विज्ञानं विकल्पकमस्ति ॥
किञ्च,
नाक्लिष्टाव्याकृतं किञ्चिदूर्ध्वभूमिविकल्पकम् ।
न चानिवृताव्याकृतं किञ्चिदूर्ध्वभूमिविकल्पकमस्ति ।
क्लिष्टं विकल्पकं चापि नास्त्यधोभूमिगोचरम्

26

न च क्लिष्टं विज्ञानमधरभूम्यालम्बनं विकल्पकमस्ति ।
त्रिधेह द्वयमार्यस्य
इह कुशलाकुशलाव्याकृतं दर्शकं च मनोविज्ञानं च विकल्पकमस्ति ।
रागिणः सशुभस्य च ।
अवीतरागस्याप्यनुच्छिन्नकुशलमूलस्य पृथग्जनस्य त्रिविधं द्वयमस्ति ।
न शुभं नापि च क्लिष्टं द्वितीयादिषु दर्शकम्

27

विज्ञानमस्तीति ॥
इदमिदानीं वक्तव्यम् । कथमसत्यात्मनि शाश्वते तद्गुणे च संस्कारे स्मृतिहेतावसति प्रतिक्षणविनश्वरेषु च विज्ञानेषु च परस्पराकृतसंकेतेषु पूर्वानुभूतो ऽर्थः स्मर्यते ? तदपदिश्यते । यद्यपि दत्तोत्तर एष वादः, तथापीदं शास्त्रानुगतमारभ्यते ।
प्रयोगादङ्गसान्निध्यात्सभागत्वाच्च सन्ततेः ।
प्राग्विज्ञानानुभूते ऽर्थे चेतस्युत्पद्यते स्मृतिः

28

प्रणिधानानुभवज्ञानपाटवसातत्यकारित्वाभ्यामसहकारित्वाभ्यामसहकारिकारणसान्निध्ये सन्तत्यानुकूलेभ्यः पूर्वविज्ञानानुभूते रूपादौ वस्तुनि स्मृतिरुत्पद्यते ।
आत्ममनःसंयोगात्संस्कारापेक्षा तदुत्पत्तिरिति चेत् । न । आत्ममनः- संयोगः संस्काराणां शशविषाणवदसिद्धत्वान्नित्यस्यास्यात्मनः संस्काराणामनुपपत्तेः । संस्कारसंयोगश्च सकलात्मव्यापित्वे प्रदेशवृत्त्यभ्युपगमदोषाच्च । तस्मात् सुष्ठूक्तं प्रयोगादङ्गसान्निध्यादिभ्यः स्मृतिरुत्पद्यते परमार्थसंवृत्तिविषया ॥
एतद्विपर्ययात् मान्द्यात्क्लेशरोगाभिभूतितः ।
ज्ञातपूर्वेषु विस्मृतिः संप्रजायते

29

इदमिदानीं विचार्यते । दुःखदर्शनहेयादिना पञ्च प्रकारेण विज्ञानेन यदनुभूतं तत्कतमेन स्मर्यते ? तदिदं प्रस्तूयते ।
दृष्टं द्वित्रिचतुःपञ्चप्रकारेणापि चेतसा ।
स्मर्यते सत्तदन्यैश्च नान्यो ऽन्यं व्योघदृक्क्षये

30

सर्वाणि खलु दुःखदर्शनादिहेयानि पञ्चप्रकाराणि परम्परानुभूतं स्मरन्ति । अयं त्वत्र नियमः- ऽनान्यो ऽन्यं व्योघदृक्क्षये ।ऽ; निरोधमार्गदर्शनप्रहातव्यानुभूतं तु नान्यो ऽन्यं स्मृतिप्रतिनियतालम्बनत्वात् । शेषास्तु त्रयः प्रकाराः सम्भिन्नालम्बनत्वान्न प्रतिषिध्यन्ते ॥
विज्ञानानां तु पञ्चानां यदेकेनानुभूयते ।
तत्स्मर्यते ऽपि चान्येन
मनोविज्ञानेनेत्यर्थः ।
तेन खल्वितरैरपि

31

मनोविज्ञानेनापि यदनुभूतं तत् षड्भिरपि स्मर्यते ॥
अथ द्वादशानां चित्तानां को ऽर्थः केनानुभूतः कतिभिः स्मर्यते ? द्वादशचित्तानि । कामावचराणि कुशलादीनि चत्वारि । रूपावचराणि त्रीण्यन्यत्राकुशलात् । एवमारूप्यावचराण्येतान्येव त्रीणि । शैक्षमशैक्षं च । स्मृतिरपि तत्संप्रयुक्ता द्वादशविधैव ।
तत्र किं केनानुभूतं तद् द्वादशभिरपि स्मर्यते ? कामावचरकुशलानुभूतं तद् द्वादशविधया स्मरति । एवमकुशलेन । तन्निवृताव्याकृतानुभूतमष्टविधया स्मरति । कामावचर्या सर्वया । रूपारूप्यावचर्ययान्यत्र निवृताव्याकृतानिवृताव्याकृतायाः शैक्षाशैक्षाभ्यां च । एवमनिवृताव्याकृतेन । रूपावचरकुशलानुभूतं सर्वाभिः स्मरति । तन्निवृताव्याकृतानुभूतं दशभिरन्यत्र कामावचरनिवृताव्याकृतानिवृताव्याकृताभ्याम् । तदनिवृताव्याकृतानुभूतं दशभिरन्यत्रारूप्यावचरनिवृताव्याकृतानिवृताव्याकृताभ्याम् । आरूप्यावचरः कुशलानुभूतं दशभिरन्यत्र कामावचरनिवृताव्याकृतानिवृताव्याकृताभ्याम् । तन्निवृताव्याकृतानुभूतं नवभिरन्यत्र कामावचरं निवृताव्याकृतानिवृताव्याकृताभ्याम् । रूपावचराच्चानिवृताव्याकृतात् । एवमनिवृताव्याकृतेन । शैक्षानुभूतमेकादशभिरन्यत्रकामावचरनिवृताव्याकृतादेवमशैक्षेणेति । संक्षेपार्थस्त्वयं श्लोकैः प्रदर्श्यते ।
द्व्यव्याकृतानुभूतं यच्चित्तं द्वादशकादिह ।
व्यारूप्यरूपनिवृतेः स्मर्यते ऽष्टाभिरेव तत्

32

कामधातौ निवृताव्याकृतानिवृताव्याकृताभ्यां यदनुभूतं तदष्टाभिः स्मर्यते । रूपारूप्यावचरे द्वे निवते हित्वा । शेक्षमशैक्षं चैवमनिवृताव्याकृतेन ।
रूपारूप्याप्तनिवृतशुभाभ्यां तु क्रमेण यत् ।
कामाप्ताव्याकृते हित्वा स्मर्यते दशकेन तत्

33

कामावचरनिवृताव्याकृते हित्वा ।
रूपे त्वनिवृताख्येन दृष्टमव्याकृतेन यत् ।
आरूप्याव्याकृते हित्वा तदन्यैः स्मर्यते पुनः

34

यत्खलु रूपधातौ अनिवृताव्याकृतेनानुभूतं तदारूप्याव्याकृते हित्वा तदन्यैर्दशभिः स्मर्यते ॥
आरूप्याव्याकृतज्ञातं यश्चेतो नवकेन तत् ।
कामाप्ताव्याकृते हित्वा रूपाप्तानिवृतं तथा

35

गतमेतदौपोद्घातिकं प्रकरणम् । प्रकृतमेवाभिधीयताम् ॥
य एते ऽष्टादशधातव एषां कति सालम्बनाः कत्यनालम्बनाः कत्युपात्ताः कत्यनुपात्ताः कति संचिताः कत्यसंचिताः ? तदिदमारभ्यते ।
चित्ताख्याः सप्त सालम्बा धर्माख्यः संप्रयुक्तकः ।
सालम्बना इति वर्तते । शेषास्त्वनालम्बना विषयाग्रहणात् ॥
अमूर्ता ध्वनिना सार्धमनुपात्ताः
य एते सप्तचित्तधातवो धर्मधात्वर्धेन सहोक्तास्ते शब्देन सहानुपात्ताः । अतो ऽन्ये
नव द्विधा

36

ये सन्तानाधिरोहिणः प्रत्युत्पन्नाश्चक्षुरादयस्तदविनिर्भागिणश्च रूपादयः । शेषास्त्वनुपात्ताः । निश्चेतनत्वादनात्मभावपर्यापन्नत्वाच्च । शेषा ये बाह्याः कायेन्द्रियसंतानव्यतिरेकवर्तिनस्ते ऽनुपात्ता इति सिद्धम् ॥
कति भूतानि कति भौतिकाः ? तत्राप्युच्यते ।
स्पृश्यं द्विधा
अत्र भूतानि चत्वारि भौतिकं च गुरुत्वादिसप्तप्रकारम् ।
सधर्मांशाः सह ता नव भौतिकाः ।
सह धर्मधात्वंशेनाविज्ञप्त्याख्येन ऽसह ता नव भौतिकाःऽ; ॥
एवं कति मूर्ताः ?
दश सावयवा मूर्ताः
शेषास्त्वमूर्ताश्चक्षुर्विज्ञानधात्वादयः ।
त एव दश संचिताः

37

परमाणुसंघाता इत्यर्थः । त एवाष्टौ चक्षुर्विज्ञानधात्वादयो हित्वा शेषा दश संचिताः ॥
कति च्छेत्तारः कति च्छेद्याः, कति दग्धारः कति दाह्याः, कति तोलयितारः कति तोल्याः ? तदिदमत्रोच्यते ।
रूपगन्धरसस्पर्शाश्च्छेतृच्छेद्यात्मका मताः ।
दाहकास्तोलकाश्चैते दाह्यास्तोल्यास्त एव वा

38

ऽवाऽ; शब्दो मतविकल्पार्थः । केषाञ्चित्तेजोधातुरेव दग्धा गुरुत्वमेव तोल्यम् ॥
कति विपाकजाः कत्यौपचयिकाः ?
पञ्च रूपीन्द्रियात्मानो विपाकोपचयात्मकाः ।
विपाककारणहेत्वधीनजन्मत्वात् नैष्यन्दिकानि चक्षुरादीनि पञ्च न विद्यन्ते । मृतस्य विपाकजव्यतिरिक्ततन्निष्यन्दाभावात् । तत्र विपाकहेतोर्जाता विपाकजाः, मध्यपदलोपं कृत्वा गोरथवत् ।
अमूर्ता नौपचयिकाः
सप्तचित्तधातवो धर्मधातुश्चामूर्ता नैष्यन्दिकविपाकजास्तु विद्यन्ते सभागविपाकहेतुबलोत्पत्तेः ।
त्रिधा शेषाः
रूपधात्वाद्याश्चत्वारस्त्रिप्रकारा ये कायेन्द्रियसहवर्तिनस्ते त्रिधा । बाह्याः ते द्विधा ।
ध्वनिर्द्विधा

39

शब्दस्तु विपाकजो नास्तीत्यागमः । युक्तिरपीच्छातस्तत्प्रवृत्तेः ॥
इदानीमिदमुच्यते । यश्चक्षुर्धातुना समन्वागतः समन्वागमं प्रतिलभते चक्षुर्विज्ञानधातुनापि सः ? यो वा चक्षुर्विज्ञानर्धातुना चक्षुधातुनापि सः ? आह । नात्रैकांशः । यस्मात्
चक्षुस्तदुपलब्धिश्च पृथग्वा सह वाप्नुयात् ।
चक्षुर्धातुं तावल्लभते न चक्षुर्विज्ञानधातुम् । कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमानः, आरूप्यधातुच्युतश्च द्वितीयादिषु ध्यानेषूपपद्यमानः । स्याच्चक्षुर्विज्ञानधातुना न चक्षुर्धातुना । द्वितीयादिषु ध्यानेषूपपन्नश्चक्षुर्विज्ञानमसंमुखीकुर्वाणः । ततश्च्युतश्चाधस्तादुपपद्यमानः । उभाभ्यामपि- आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोपपद्यमानः । नोभाभ्याम्- एतानाकारान् स्थापयित्वा ।
यश्चक्षुर्धातुना समन्वागतः चक्षुर्विज्ञानधातुनापि सः ? चतुष्कोटिकाः । प्रथमा- द्वितीयादिषु ध्यानेषूपपन्नश्चक्षुर्विज्ञानमसंमुखीकुर्वाणः । द्वितीया- कामधातावलब्धविहीनचक्षुः । तृतीया- कामधातौ लब्धाविहीनचक्षुः प्रथमध्यानोपपन्नो द्वितीयादिध्यानोपपन्नश्च पश्यन् । चतुर्थी- एतानाकारान् स्थापयित्वा ॥
गतमेतत् । प्रकृतमिदानीमनुवर्त्यताम् । कत्याध्यात्मिकाः कति बाह्याः ?
द्वादशाध्यात्मिका ज्ञेयाः
पञ्चेन्द्रियात्मिकः सप्तचित्तधातवश्च, अहंकारसन्निश्रयत्वात् । "आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः ।" इति ।
बाह्याष्षड्विषयात्मकाः

40

कति दर्शनहेयाः कति भावनाहेयाः कत्यहेयाः ? तदारभ्यते ।
त्रयो ऽन्त्यास्त्रिविधाः
मनोधातुर्मनोविज्ञानधातुर्धर्मधातवस्त्रिप्रकाराः । अष्टाशीत्यनुशयसहचरिष्णवस्तत्प्राप्तयश्च दर्शनहेयाः ।
शेषा भावनापथसंक्षयाः ।
ये सास्रवाः । ये त्वनास्रवास्ते ऽप्रहेया निर्दोषत्वात् ॥
न रूपमस्ति दृग्घेयं नाक्लिष्टं नाविकल्पकम्

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc