अभिधर्मदीप (टीका सहित) · श्लोक 381-400
दौर्मनस्येन खल्वीर्ष्याकौकृत्यक्रोधप्रदाशोपनाहविहिंसाः संप्रयुज्यन्ते ॥
मात्सर्यं दौर्मनस्येन सौमनस्येन कस्यचित् ।
प्रार्थ्यमानो ह्यप्रयच्छन् परस्य जह्रीयमानो दुर्मनायते । केचित्पुनः व्याचक्षते- सौमनस्येन संप्रयुज्यते लोभान्वयत्वेन हर्षाकारवर्तित्वात् ।
द्वाभ्यां माया तथा शाठ्यं म्रक्षो मिद्धं तथैव च
दौर्मनस्यसौमनस्याभ्यां मायाशाठ्यमिद्धानि संप्रयुज्यन्ते । कदाचिद्धि सुमनाः परं वञ्चयते । कदाचिद्दुर्मनाः । एवं यावत्स्वपीति ॥
मदस्तु सुमनःस्कन्धसुखाभ्यां संप्रयुज्यते ।
तृतीये ध्याने सुखेनाधस्तात्सौमनस्येनोर्ध्वं चोपेक्षया । ऽतुऽशब्दस्य विशेषणत्वादयं विशेषो लभ्यते ।
आह्रीक्यमनपत्राप्यं स्त्यानौद्धत्ये च पञ्चभिः
पञ्चभिरपीन्द्रियैः आह्रीक्यानपत्राप्यस्त्यानौद्धत्यानि संप्रयुज्यन्ते । एषां चतुर्णां पर्यवस्थानानामकुशलमहाभूमिकत्वात् क्लेशमहाभौमिकत्वाच्च ॥
इदमिदानीं वक्तव्यम् । क एषां किं प्रहातव्यः ? यानि तावद्दश पर्यवस्थानानि तेभ्यः-
आह्रीक्यमनपत्राप्यं स्त्यानमिद्धं तथोद्धवः
..........अभिधर्मदीपे विभाषाप्रभायां वृत्तौ पञ्चमाध्यायस्य तृतीयः पादः ॥
..........पञ्चमोध्यायः समाप्तः ॥
षष्ठो ऽध्यायः
प्रथमः पादः.....
..............र्वौदारिकम् । अतस्तुत्पूर्वम् । ततो वेदनास्मृत्युपस्थानं द्वाभ्यां स्थूलतरं वेदनास्कन्धवत् । ततः चित्तस्मृत्युपस्थानं रूपादिप्रतिविज्ञप्तिस्वाभाव्यात्सुलक्षम् । धर्मास्तु संज्ञाचेतनाद्या संप्रयुक्ताः, प्राप्त्यादयः विप्रयुक्ताः, संस्कृताश्च परमसूक्ष्मास्तस्मादन्ते धर्मस्मृत्युपस्थानम् । अत एवोत्पत्तिक्रमोपि तथैव ।
प्रायेण हि सत्त्वाः रूपाद्युपभोगरतत्वात् मोक्षविमुखा भवन्ति वेदनाभिनन्दित्वात्, सा चाभिनन्दना चित्तस्यादान्तत्वात् । तच्चादान्तत्वं रागादिभिः । श्रद्धादिभिश्च दान्तत्वं भवति ।
चतुष्ट्वमपि चतुर्विपर्यासप्रतिपक्षत्वात् । अशुचौ शुचिसंज्ञाविपर्यासप्रतिपक्षो हि कायपरीक्षा । दुःखे सुखसंज्ञाविपर्यासप्रतिपक्षो वेदनापरीक्षा । अनित्ये नित्यसंज्ञाविपर्यासप्रतिपक्षश्चित्तपरीक्षा, चित्तस्य लघुपरिवर्तित्वात् । अनात्मन्यात्मसंज्ञाविपर्यासप्रतिपक्षो धर्मपरीक्षा । धर्मस्मृत्युपस्थानस्य वैचित्र्यादेकात्मसंज्ञाविपर्यासो निवर्तते । ऽआदिऽशब्दाच्चतुराहारपञ्चस्कन्धप्रतिपक्षत्वाद्यथायोगम् ॥
स तदानीं योगाचारः
समस्तालम्बिनान्त्येन तान्वेत्त्यध्रुवतादिभिः ।
सम्भिन्नालम्बनं हि धर्मस्मृत्युपस्थानं त्रिचतुष्पञ्चस्कन्धालम्बनत्वात् । ( जैनि_317 ) पञ्चस्कन्धालम्बनमेव तु सामान्यालम्बनमिति निर्दिश्यते । तेन तु चत्वार्यपि स्मृत्युपस्थानान्यभिसमस्यानित्यतो दुःखतः शून्यतो ऽनात्मतश्चेति चतुर्भिराकारैः प्रत्यवेक्षते । ततः पुनर्योगी कायं परमाणुसंघातक्षणसन्तानभेदेन प्रभिद्य परमाणुशः क्षणशश्च निरीक्षते । कललादीनां वा बीजाद्यशुच्यङ्गानि पृथङ्मिश्रीभूतानि च योगी रूपाणि निमित्तेषु पश्यति । तदूर्ध्वं तस्यानित्यत्वादिभिः सामान्यलक्षणेन यथायोगं सर्वधर्मकजातीयत्वाधिमोक्षे सत्यहंकारममकारविष्कम्भनप्रहाणं भवति । तन्प्रहाणाद्रागादयोपि दोषाः श्रुतचिन्तामयाभ्यां ज्ञानाभ्यां विष्कम्भ्यन्ते ।
कतमेन पुनरत्र स्मृत्युपस्थानेन क्लेशात्यन्तक्षयो भवति ? ब्रूमः ।
क्लेशात्यन्तक्षयो ऽन्त्येन संभिन्नालम्बनेन वा
संसर्गस्मृत्युपस्थानेन खलु ऽसंभिन्नालम्बनेन अत्यन्तक्लेशप्रहाणं क्रियते । ऽवाऽ; शब्दो विकल्पार्थः ॥
यस्मात्-
असंभिन्नार्थ विषयं त्रयमेतद् द्विधेष्यते ।
सास्रवानास्रवभेदात् । ततः पुनः स्कन्धाननित्यादिना
तस्यैवं पश्यतः साक्षादुदयव्ययदर्शनम्
स्कन्धेषु जायते पश्चाच्चक्रभ्रमरिकादिवत् ।
एषा च स्मृत्युपस्थानकुशलमूलनिष्ठा । तस्य खल्वनित्याकारमभ्यस्यतः सर्वसंस्कारेषु प्रतिक्षणमुदयव्ययदर्शनमुत्पद्यते, ऽचक्रभ्रमरिकादिवदिऽति ।
स प्रतीत्यसमुत्पादं स्कन्धानां प्रत्यवेक्षते
तस्य प्रतिक्षणं उत्पादव्ययं पश्यतः एवं भवति- कथं चैते संस्काराः सन्तानेन प्रवर्तन्ते नोच्छिद्यन्ते । स प्रतीत्यसमुत्पादं पश्यति त्रैयध्विकानां संस्काराणां हेतुफलसम्बन्धनियमावस्थितानाम् । ततः पुनः प्रतीत्यसमुत्पादम् ॥
सत्येषु पातयित्वतं तदा कश्चित्परीक्षते ।
तदनित्यत्वदुःखत्वे समवेत्य ततः पुनः
एकैकमङ्गं सत्येषु पातयित्वानित्यतो दुःखतश्च प्रत्यवेक्ष्य
अकर्तृकान्निरीहांश्च प्रत्ययाधीनसंभवान् ।
दृष्ट्वा सर्वेष्वनात्मेति तत्त्वाकारं निषेवते
तत्र स्वतन्त्रकर्तृविरहित्वाच्छून्यान्पश्यति स्ववशेन विना सहकारिभिः प्रत्ययैः क्रियाकरणात्, पराधीनजन्मत्वाच्चानात्मानं पश्यति ऽदृष्ट्वा सर्वेष्वनात्मेति तत्त्वाकारं निषेवतेऽ; ॥
तदभ्यस्यतः
अनधिष्ठातृकत्वं च पारतन्त्र्यं च पश्यतः ।
न ह्यत्र कश्चित्पुरुषो वा परमेष्ठी वेश्वरः स्वतन्त्रश्चैकश्च विद्यते, परतन्त्रजन्मप्रसरा एव सर्वसंस्काराः स्वसामान्यलक्षणाधिष्ठितस्वभावाः, इति परीक्ष्यमाणस्य
सर्वधर्मेषु नैरात्म्ये स्थिरा बुद्धिः प्रवर्तते
यथोक्तम्-
"सर्वधर्मा अनात्मानः पश्यति प्रज्ञया यदा ।
तदा निर्विद्यते दुःखादेष मार्गो विशुद्धये ॥ "
अथ कस्मादिह शून्याकारो न देशितः ? तदुच्यते-
स्वभावेनाविशून्यत्वाद् धर्ममुद्रा उदाहृता ।
तदुक्त्या च तदुक्तत्वाच्छून्याकारो न देशितः
न खलु संस्काराः स्वभावेन शून्याः पृथिव्यप्तेजोवायुप्रभृतीनां काठिन्यादिलक्षणस्य धृत्यादिक्रियायाश्च प्रत्यक्षत्वात् । रागादीनां दोषाणां श्रद्धादीनां च गुणानां चित्तमाल्यशुद्धिकरणसामर्थ्यात् । तेषां च सामर्थ्यं यथा द्रव्याणां हरीतकीचित्रकदन्तीप्रभृतीनां रसवीर्यविपाकप्रभावादिदर्शनात सस्वभावप्रभावाः सर्वधर्माः धर्ममुद्रायाश्च ऽशून्याकारोऽ; नोक्तः । तस्मादिहापि नोच्यते । अथवातदुक्त्या च तदुक्तेः ।ऽ; अनात्माकारोक्त्या च शून्यताप्युक्ता भवति ॥
तदेवं नैरात्म्ये स्थिरमतिः
गोत्रद्वारसमूहादीन् धात्वादीनां यथायथम् ।
स्वसाधारणचिह्नाभ्यां सदतोपपरीक्षते
धात्वायतनस्कन्धेषु स्वसामान्यलक्षणपरिच्छिन्नेषु
प्रतिस्कन्धं ततस्तस्य स्वाभाव्यादिषु तत्त्वतः ।
क्रमेण जायते पश्चात्कौशलं स्थानसप्तके
"रूपं यथाभूतं प्रजानाति रूपसमुदयं रूपनिरोधं रूपनिरोधगामिनीं प्रतिपदं रूपस्यास्वादं रूपस्यादीनवं रूपस्य निःसरणमेवं यावद्विज्ञानस्य ।" उक्तं हि भगवता- ऽसप्तस्थाने कुशलो भिक्षुः त्रिविधार्थोपपरीक्षी क्षिप्रमेवास्रवक्षयं करोति" इति ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ षष्ठस्याध्यायस्य प्रथमः पादः ॥
षष्ठाध्याये
द्वितीयपादः ।
तस्येदानीं योगिनः स्मृत्युपस्थानादिषु कुशलमूलेषु दृष्टपूर्वं ज्ञेयं सत्याकारव्यवस्थानेनानुचितश्रुतचिन्तामयाकारसमुदाचारन्यायेन
निर्मथ्नतः क्रमेणास्य दुःखसत्यभवारणिम् ।
श्रद्धावीर्यसहायस्य तत्त्वज्ञानानलार्थिनः
आकारपतितं ज्ञानं ततः शमनियामकम् ।
भावनामयमूष्माख्यं जायते सानुवर्तकम्
तत्खलूष्मगतं प्रकर्षितत्वात् षोडशाकारम्, प्रतिसत्यं चतुराकारत्वात्, सामान्यं धर्मस्मृत्युपस्थानं भविष्यस्यार्यमार्गाग्नेर्निमित्तभूतं धूमाग्निवत् । तस्मिंश्च लब्धे शमः प्रत्यासन्नीभवति । अतस्तत् ऽशमनियामकं भावनामयम्ऽ; इति । ध्यानसंवराश्रितसमाधिबलेन दृढीभावाच्चित्तं भावयति चम्पकपुष्पतिलतैलवदिति । ऽसानुवर्तकंऽ; च पञ्चस्कन्धस्वभावं नैरात्म्यबुद्धिपरितोषाच्चानुस्कन्धशः प्रसाद उत्पद्यते- स्कन्धमात्रकमेवेदं सत्कायदृष्टेर्वस्तुभूतं नात्रात्मास्त्यात्मीयं वा ॥
ततस्तथैव मूर्धानो मिथ्यादृष्ट्युपघातिनः ।
ऊष्मभ्यो ऽधिकसामर्थ्याद्रत्नश्रद्धाविवर्धिनः
तदूर्ध्वं ततो मूर्धानस्तथैव षोडशाकाराः । तेषां पुनरयं विशेषः । ( जैनि_322 ) मिथ्यादृष्टिशक्त्युपघातित्वम्, तदुपघातात् कुशलमूलानि न समुच्छिन्दन्ति । ऊष्मभ्यो ऽधिको विशेषः रत्नत्रयश्रद्धाविवर्धिनश्च । तेषु खल्वधिमात्रेण बुद्धादिषु रत्नेषु त्रिष्वाकारतः प्रसादो ऽभिवर्धते, न स्कन्धशः, प्रागेवोष्मगतेषु तद्बुद्धिपरितोषात् । मूर्धसू..............
........नेत्वस्मिन्नुभयत्रापि पश्चिमा
विन्यासे विवर्धने चैव धर्मस्मृत्युपस्थानं प्रत्युत्पन्नं तदेव चानागतं भाव्यते ॥
भाव्यते स्कन्धदृक्त्वादौ न तन्निर्वाणदर्शिनः ।
न खलु स्कन्धोपरमदर्शिनः स्कन्धमतिर्भाव्यते ।
आकारांस्तुल्यजातीयान् सर्वत्रात्र तु निर्दिशेत्
यादृशाः प्रत्युत्पन्नास्तादृशा एवानागता भाव्यन्ते ॥
द्रष्टव्यान्यतरा ताभ्यः प्रत्युत्पन्ना विवर्धने ।
चतसृभ्यस्त्वन्यतमा प्रत्युत्पन्ना विवर्धने
अनागतास्तु भाव्यन्ते चतस्रो ऽप्यत्र निश्चयात् ।
मोक्षे ऽन्त्ये संमुखीभूताः समग्राः खल्वनागताः
निरोधे तु प्रत्युत्पन्नं धर्मस्मृत्युपस्थानं चत्वारि त्वनागतानि भाव्यन्ते ॥
आकाराः खलु सर्वेपि भाव्यन्ते गोत्रलाभतः ।
गोत्राणि खलु लब्धानि निरोधसत्यतो ऽत्र षोडशाप्याकारा भाव्यन्ते ।
गोत्रलाभे तु विज्ञेया सभागाकारभावना
मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0