अभिधर्मदीप (टीका सहित) · श्लोक 361-380
सर्वे ह्येते समाना निवृताव्याकृतत्वादन्तर्मुखप्रवृत्तत्वाच्च ।
अविद्याख्यस्तु मूलत्वादविद्या सार्वधातुकी ।
अविद्या खलु संसारमूलम् । उक्तं हि भगवता- "अविद्याप्रत्ययाः संस्काराः ।" तथा- "याः काश्चन दुर्गतयो ऽस्मिल्लोके परत्र च ।
सर्वास्ता अविद्यामूलिकाः " इति ।
तत्र तावत्कामास्रवः एकचत्वारिंशद् द्रव्याणि । रागप्रतिघमानाः प्रत्येकं पञ्चप्रकारत्वात् पञ्चदश भवन्ति । विचिकित्साः चतस्रः । दृष्टयो द्वादश । दश पर्यवस्थानानि । इत्येतान्येकचत्वारिंशद् द्रव्याण कामास्रव इत्याख्यायते ।
भवास्रवः चतुष्पञ्चाशद् द्रव्याणि । रागमानौ विंशतिः । अष्टौ विचिकित्साः । चतुर्विंशति दृष्टयो ऽविद्यां हित्वा । द्वे च पर्यवस्थाने स्त्यानौद्धत्याख्ये, परतन्त्रत्वात् ।
अविद्यास्रवः पञ्चदशद्रव्यानि । तानि पिण्डेनाष्टोत्तरं द्रव्यशतमास्रवाणां स्वभावः ।
तथौघयोगा दृग्वर्ज्जं तत्पृथक्त्वन्तु पाटवात्
कामास्रव एव खलु कामौघः कामयोगश्च । दृष्टी वर्जयित्वा । दृष्टयस्तु पटुत्वात्पृथगोघेषु योगेषु च व्यवस्थाप्यन्ते । हरणश्लेषणकार्यप्रधानभूता हि दृष्टयः । यथा हि सर्वे क्लेशाः दृष्टिवर्ज्याः, अपहरन्ति श्लेषयन्ति च ( जैनि_299 ) तथैवैकाकिन्यो ऽपि दृष्टय इति । तदेवं सति कामौघ एकान्नत्रिंशत् द्रव्याणि । रागप्रतिघमानाः पञ्चदश । विचिकित्साश्चतस्रः । दश पर्यवस्थानानीति ।
भवौघो ऽष्टाविंशतिर्द्रव्याणि । रागमाना विंशतिः । विचिकित्सा अष्टौ । दृष्ट्योघः षट्त्रिंशद् द्रव्याणि । अविद्यौघः पञ्चदशद्रव्याणि । एवमेव योगा द्रष्टव्याः ॥
साविद्या द्वे उपादाने यथाक्तौ द्वे तु दृङ्मये ।
चतस्रो ऽप्येकमन्त्यैकं कुमार्गादिसमाश्रयात्
शेषास्त्रैधातुकास्त्वन्त्ये सात्मभावप्रवृत्तितः ।
तत्र कामयोग एव सहाविद्यया कामोपादानं चतुस्त्रिंशद् द्रव्याणि । रागप्रतिघमानाविद्या विंशतिः । विचिकित्साश्चतस्रः । दशपर्यवस्थानानि ।
भवयोग एव सहाविद्यया आत्मवादोपादानम्, अष्टात्रिंशद् द्रव्याणि । रागमानाविद्यास्त्रिंशत् । विचिकित्सा अष्टौ ।
दृष्टियोगाच्छीलव्रतं निष्कृष्य दृष्ट्युपादानं त्रिशद् द्रव्याणि । शीलव्रतोपादानं षड्द्रव्याणि । कस्मात्पुनरेतद् दृष्टिभ्यो निष्कृष्टम् ? ऽकुमार्गादिसमाश्रयात् ।ऽ; मार्गप्रतिद्वन्द्वभूतं ह्येतदुभयपक्षविप्रलभ्भकं च । गृहिणो ऽपि ह्यनेन विप्रलब्धाः अनशनादिभिः स्वर्गमार्गसंज्ञया । प्रव्रजिता अपीष्टविषयविवर्जने शुद्धिप्रत्यागमनादिति ।
ऽशेषास्त्रैधातुकाः ।ऽ; दृष्टयो दृष्ट्युपादानम् । त्रैधातुकाश्च शीलव्रतपरामर्शाः परामर्शोपादानम् । कामास्रवस्तु एकधातुकः । भवास्रवस्तु द्विधातुकः । तस्मादेव तत् ऽअन्त्यम्ऽ; द्वयं सार्वधातुकमेव । ऽआत्मभावप्रवृत्तितः ।ऽ; आत्मभावालम्बनप्रवृत्तं खल्वेतदिति ।
ते खल्वेते अनुशयाः
संयोजनादिभिः शब्दैर्दर्शिताः पञ्चधा पुनः
संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानभेदेन पञ्चधा भित्त्वोक्ताः ।
नव संयोजनान्यस्मिन्नीर्ष्यामात्सर्यमेव च ।
द्रव्यामर्षणसामान्याद् दृशः संयोजनद्वयम्
शेषाण्यनुशयाः पञ्च
नव खलु सयोजनानि सूत्र उक्तानि- अनुनयप्रतिघमानाविद्यादृष्टिपरामर्शविचिकित्सेर्ष्यामात्सर्यसंयोजनानि ।
तत्रानुनयसंयोजनं त्रैधातुको रागः । एवमन्यानि यथायोगं वक्तव्यानि । दृष्टिसंयोजनं तिस्रो दृष्टयः परामर्शसंयोजनं द्वे दृष्टी ।
किं पुनः कारणं संयोजनेषु तिस्रो दृष्टयो दृष्टिसंयोजनं पृथगुक्तम् ? द्वे पुनर्दृष्टी परामर्शसंयोजनं पृथगिति ? तदुच्यते- ऽद्रव्यामर्षणसामान्याद् दृशः संयोजनद्वयम् ।ऽ; अष्टादशद्रव्याणि खलु तिस्रो दृष्टयः । अष्टादशैव द्वे परामर्शदृष्टी । द्वयोश्च नामसामान्यम् । तस्मादेतद् द्वयमेकं संयोजनमुक्तमिति ।
पुनरप्यन्यत्र भगवान्संयोजनम्
पञ्चधा पञ्चधा पुनः ।
जगादावरभागीयमूर्ध्वभागीयमेव च
आद्यन्त्ये द्वे दृशौ काङ्क्षाकामच्छन्दो द्विरेव यः ।
तत्र पञ्च संयोजनान्यवरभागीयानि । तद्यथा- सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति । एते हि कामधातुहितत्वादवरभागीया इत्युच्यन्ते । अवरा हि कामधातूरेतानि च तदनुगुणानि । यस्मात्
द्वाभ्यां कामानतिक्रान्तिः पुनरानयनं त्रिभिः
कामच्छन्दव्यापादाभ्यां कामधातुं नातिक्रामति । सत्कायदृष्ट्यादिभिस्त्रिभिरतिक्रान्तो ऽपि पुनरावर्तते दौवारिकानुचरसाधर्म्यात् ।
अन्ये पुनराहुः- त्रिभिः सत्त्वावरतां नातिक्रामति पृथग्जनत्वम्, द्वाभ्यां धात्ववरतां कामधातुमिति ।
यदा खलु स्त्रोतआपन्नस्य पर्यादाय त्रिसंयोजनप्रहाणे षट् क्लेशाः प्रहीणाः किमर्थं तिस्रो दृष्टीरपहाय त्रयमेवाह सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां च ? तदुच्यते-
द्व्येकदृग्घेयकार्योक्तेर्दृष्टिहेयमुखग्रहात् ।
सर्वदृग्घेयभाक्त्वे ऽपि त्रयमेतदुदाहृतम्
प्रवर्तकग्रहणे खलु प्रवर्त्यमपि गहीतं भवति प्रदीपालोकवत् । तत्र सत्कायदृष्ट्या तत्प्रवर्तितान्तग्राहदृष्टिर्गृहीता । शीलव्रतपरामर्शेण दृष्टिपरामर्शः प्रवर्तितः । विचिकित्सया मिथ्यादृष्टिः प्रवर्तिता । अतो हेतुग्रहणात्कार्यग्रहणं वेदितव्यम् ।
अथवा त्रिविधा क्लेशाः- एकप्रकाराः, द्विप्रकाराः, चतुष्प्रकाराश्च । तत्र सत्कायदृष्ट्या एकप्रकारा गृहीताः । शीलव्रतपरामर्शेन द्विप्रकाराः । विचिकित्सया चतुष्प्रकाराः गृहीता भवन्तीति ॥
वयं ब्रूमः-
सर्वानर्थनिदानत्वान्मार्गप्रत्यर्थिभावतः ।
तथ्योहाविधुरत्वाच्च त्रिसंयोजनदेशना
सत्कायदृष्टिः खलु सर्वानर्थमलानां क्लेशस्य च भवत्रयस्य च मूलम् । अतस्तयोत्खातया सर्वानर्थवृक्षस्योत्सादनं भवति । मार्गस्य च सद्भूतस्य प्रत्यर्थिभूतः कुमार्गावलम्बी शीलव्रतपरामर्शः । तेन प्रहीणेन सन्मार्गेण मोक्षपुरप्रवेशो भवति । सम्यग्दृष्ट्यादिमार्गप्रतिपत्तिप्रतिबन्धभूता च विचिकित्सा । ( जैनि_304 ) तया प्रहीणया सम्यग्दृष्टिसंकल्पपुरःसरो मार्गो निर्विबन्धः प्रवर्तते । इत्यष्टाशीत्यनुशयप्रहाणे ऽपि सति त्रयाणामेव ग्रहणम् ।
वैभाषाः पुनः पश्यन्ति- मोक्षान्तरायाः त्रयोद्भावनाः । यथा खलु त्रयो ऽन्तराया मार्गगमने भवन्त्यगन्तुकामतान्यमार्गग्रहणं मार्गबहुत्वसंदेहाच्च मार्गगमनाप्रतिपत्तिः । एवं मोक्षगमने त्रयो ऽन्तराया भवन्ति । सत्कायदृष्ट्या मोक्षादुत्त्रासं गतस्यागन्तुकामता भवति । शीलव्रतपरामर्शेनान्यमार्गग्रहणात् मार्गविभ्रान्तिः । विचिकित्सा मार्गसंशये सति मार्गाप्रतिपत्तिरित्येषां मोक्षगमनान्तरायाणां प्रहाणं स्त्रोतआपन्नस्य द्योतयद्भगवान्क्लेशत्रयस्यैव ग्रहणमकार्षीदिति ॥
यथा च पञ्चविधमवरभागीयं संयोजनमुक्तवांस्तथा पञ्चोर्ध्वभागीयानिसंयोजनान्याख्यातवान् सूत्रे ।
द्वौ रूपारूपजौ रागौ मानमोहोद्धवास्त्रयः ।
पञ्च खलुर्ध्वभागीयानि संयोजनानि । तद्यथा- रूपरागः, आरूप्यरागः, औद्धत्यम्, मानो ऽविद्या च । एषामप्रहीणानां ऊर्ध्वधातुद्वयं नातिक्रामन्ति सत्त्वाः । समाप्तः संयोजनाधिकारः ।
बन्धनानीदानीमुच्यन्ते । त्रीणि बन्धनानि । रागो बन्धनं द्वेषो मोहो ( जैनि_305 ) बन्धनम् । एभिस्त्रैधातुकाः सत्त्वाः संसारचारके बद्धाः यथायोगम् । कस्मात्पुनरेतानि बन्धनानीत्युक्तानि ? तदुच्यते-
त्रिवेदनानुशायित्वाद् दृढत्वाद्बन्धनत्रयम्
त्रिवेदनावशात्खलु बन्धनत्रयमुक्तम् । तत्र सुखायां वेदनायां रागो ऽनुशेरते । दुःखायां द्वेषः । अदुःखासुखायां मोहः । एते च त्रयो मूलक्लेशाः षड्विज्ञानभौमाः पञ्चप्रकाराः । तस्मादेते दृढत्वाद् बन्धनशब्देनोक्ताः ॥
पुनरन्ये भगवता सूत्रे-
द्विपक्षग्रन्थनाद् ग्रन्थाश्चत्वारः समुदाहृताः ।
अभिध्याख्यास्तथा द्वेषः परामर्शद्वयं तथा
तत्र गृही अभिध्यया विषयेषु ग्रथितस्तद्व्याघातकर्तृषु विवादमारभमानो द्वेषेणानुबध्यते । प्रव्रजितः शीलव्रतपरामर्शग्रथितस्तदपवादश्रवणादिदमेव सत्यमिति सत्याभिनिवेशपरामर्शेन दृष्टिपरामर्शाख्येन बध्यते । इति चत्वारो भवन्ति ॥
उक्ताः क्लेशाः ।
उपक्लेशास्तु विज्ञेयाः संरम्भाद्या यथोदिताः ।
सर्वे वा चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः
ये तावत्खलु क्लेशा उपक्लेशा अपि ते चित्तोपक्लेशनात् । इह तु पर्यवस्थानक्लेशमलसंगृहीताः क्षुद्रकवस्तुकोद्दिष्टा वेदितव्याः । ये ऽपि चान्ये चैतसिकाः संस्कारस्कन्धसंगृहीताः ते ऽप्युपक्लेशा इत्याख्यायन्ते ॥
के पुनस्ते क्लेशमलाः कानि वा पर्यवस्थानानि ? तत्र तावत्-
मूलक्लेशमलास्त्वन्ये षडुपक्लेशसंज्ञिताः ।
त इमे उच्यन्ते-
शाठ्योपनाहप्रदाशमायामदविहेठनाः
तत्र चित्तकौटिल्यं शाठ्यं चित्तस्यानृजुता वक्रीभावः । उपनाहः प्रतिघनिष्यन्दो वैरानुबन्धकृद्रन्ध्रावधानता । सन्तोष्यमानस्याप्यधर्मदृढग्राहिता प्रदाशः । पराभिसन्धानाय मिथ्योपदर्शनकारी परवञ्चनामाया । चित्तस्मयो मदः । सतुरूपकुलबलभोगयौवनारोग्यपरिजनसंपत्तिसंरागजः प्रमादास्पदं विविधेन्द्रियविभ्रमोत्पादजनकः । सत्त्वव्यापादो विहिंसा विहेठनेत्यर्थान्तरम् । उक्ताः षट् क्लेशमलाः ॥
दश पर्यवस्थानान्युच्यन्ते ।
म्रर्क्ष्येर्ष्याह्र्यनपत्राप्यस्त्यानमिद्धोद्धवक्रुधः ।
मात्सर्यं कुकृतत्वं च दशधा पर्यवस्थितिः
एते ह्यनुबन्धादार्ढ्यान्नानुशयाः । न ह्येषामनुबन्धदार्ढ्यमस्त्यनुशयास्तु दृढानुबन्धाः । तस्मादेतानि कालान्तरमात्रं चित्तपर्यवस्थापनात् पर्यवस्थानानीत्युच्यन्ते ।
अवद्यं छादयतः चित्तापलेपो म्रक्षः, चित्तं म्रक्षयतीति म्रक्षः । परसम्पत्त्यमर्षणमीर्ष्या । अकार्यं कुर्वतः स्वात्मानमवेक्ष्यालज्जनाह्रीः । ( जैनि_309 ) परमपेक्ष्यालज्जनानपत्राप्यम् । कायाकर्मण्यता स्त्यानं तन्द्रीपर्यायवचनम् । कायचित्ताकर्मण्यता मिद्धं चित्ताभिसंक्षेपः स्वप्नाख्यः, स तु क्लिष्ट एव पर्यवस्थानम् । चित्ताव्युपशान्तिरौद्धत्यम् । परापकारनिमित्तोद्भवो ऽपरित्यागयोगेन चण्डीभावः क्रोधः । स्ववस्तुन्याग्रहो मात्सर्यम्, मत्तो मा सरेदेतदिति निरुक्तिः । कुकृतभावः कौकृत्यम् । इत्येनानि दश पर्यवस्थानानि ॥
अथैषामुपक्लेशमलपर्यवस्थानानां कः कस्य रागादेर्मूलक्लेशस्य निष्यन्दः ? तदिदमारभ्यते ॥
एभ्यो ऽनुनयनिष्यन्दा आह्रीक्यौद्धततादयः ।
इमे खलूपक्लेशाः रागनिष्यन्दाः । यदुत- अह्रीक्यौद्धत्यमदमात्सर्यकुहनालपनानैमित्तिकतानैष्पेशिकता लाभेन लाभस्य निश्चिकीर्षता पापेच्छता महेच्छतेच्छस्विता कामज्ञातिजनपदवितर्कपापमित्रतादयः ।
तत्राह्रीक्यानपत्राप्यमदा व्याख्यातलक्षणाः । लाभसत्कारयशोलोभादभूतगुणदर्शनार्थमीर्यापथविकल्पकृच्चैत्तविशेषः कुहना । लाभाद्यर्थमेव गुणप्रियालपनकृल्लपना । उपकरणार्थित्वनिमित्तदर्शनकृच्चैत्तविशेषो नैमित्तकता । परगुणवद्दोषवचननिष्पेषणकृदेव चैतसिको नैष्पेषिकता । लब्धलाभख्यापनेनान्यलाभनिश्चकीर्षणता लाभेन लाभस्य निश्चिकीर्षता । परैरभूतगुणसम्भावनेच्छा पापेच्छता । लाभसत्कारपरिवारप्रार्थना महेच्छता ।
लोभात्परैर्भूतगुणसम्भावनेच्छा इच्छस्विता । कामरागप्रतिसंयुक्तो वितर्कः कामवितर्कः । ज्ञातिस्नेहपरीतस्य तदावाहविवाहकृषिवणिग्राजसेवादीनां गृहसन्धारणमुपजीवनोपायानां राजतस्करादिभयप्रशमनोपायानां च वितर्काणां वितर्कः ज्ञातिवितर्कः । पर्याप्तजीवितोपकरणापरितुष्टस्य लोकमित्रता, छन्दरागापहृतचेतसस्तेषां जनपदानां भूमिरमणीयतासुभिक्षक्षेमताप्रचुरगोरसेक्षुविकारगोधूमशाल्यादीनां वितर्कणाज्जनपदवितर्कः शीलदृष्ट्याचारविपन्नानां रतिकृता संसेवा पापमित्रता ।
म्रक्षानपत्रपास्त्यानमिद्धाद्या मोहसंभवाः
तत्र ऽम्रक्षानपत्रपास्त्यानमिद्धाःऽ; । ऽआदिऽग्रहणाल्लयः, अमनसिकारोदनादरता, दौर्वचस्यं तन्द्री भक्तासमतेत्येवमादयः ।
तत्र लयोनाम दोषगुणत्यागार्जनं प्रति आत्मपरिभवजश्चित्तसंकोचः । कुशलासमन्वाहार औदासीन्ययोगेणामनसिकारः । गुणेषु गुणवत्सु चाबहुमानवृत्तिरनादरता । ( जैनि_311 ) धर्मानुशास्तृषु सासूयितप्रतिमन्त्रकृद्दौर्वचस्यम् । जृम्भिकोद्गमादक्षिवर्त्मस्तम्भनिद्रास्पदः चैत्तविशेषः स्त्यानाख्या तन्द्री । कुशलपक्षानुकूलभोजनसमताप्रतिवेधश्चेतसो भक्तासमता ॥
कौकृत्यं विचिकित्सोत्थं क्रोधाद्या द्वेषसम्भवाः ।
कौकृत्यं खलु यथोक्तलक्षणं विचिकित्सासमुत्थितम् । क्रोधाद्या द्वेषनिष्यन्दाः । ऽआदिऽशब्दादीर्ष्याक्षान्त्युपनाहप्रदाशसंरम्भादयः ।
तत्रेर्ष्या पूर्वोक्तलक्षणा । सह्यासहिष्णुताक्षान्तिः । रन्ध्रावधानानिवृत्तिरुपनाहः । संतोषमानस्याप्यदृढग्राहिता प्रदाशः । परान्विमर्दिषतः पाणिपादौष्ठकपोलशरीरकम्पयोनिर्भ्रान्तमनसः क्षोभः संरम्भः । निमित्तमात्रेण सातत्यविहेठनकृच्छृङ्गी । निस्तनतो ऽभीक्ष्णविवादकृत्यं स्तम्भनता । काम्यान्विषयाननुस्मरतो रतिविपरीतमनसः प्रवृत्तिररतिः । चित्तापैशल्यमनार्जवता । व्यापादार्थ प्रयुक्तो वितर्को व्यापादवितर्कः । विहिंसासंप्रयुक्तो वितर्कः विहिंसावितर्कः ।
प्रमादस्तम्भमार्द्व(?)क्ष्य मायाशाठ्यविजृम्भिकाः
कायदुष्ठूलताद्याश्च ज्ञेया व्यामिश्रसम्भवाः ।
तत्र दोषप्रवणस्य गुणानभिसंमुख्यं प्रमादः । पूजार्हेष्वसंनतिः स्तम्भः । परानुरोधात्पापानुवृत्तिकृच्चैत्तो मार्द्वक्ष्यम्(?) । पराभिसन्धानाय मिथ्योपदर्शनकृच्चैत्तो माया । चित्तकौटिल्यं शाठ्यम् । क्लेशसमुत्थितः कायस्यानमनविनमनकृच्चैत्तो विजम्भिका । क्लेशकृता विविधालम्बनसंज्ञा नानात्वसंज्ञाः । अतिवीर्यभक्तासमतानिर्जातकायवैषम्याबाधः कायदौष्ठुल्यम् । कल्याणमित्राणां गुणेष्वननुशिक्षा असभागानुवर्तनता । क्लेशसमुत्था परसम्पद्वितर्कणा, परोदयप्रतिसंयुक्तो वितर्कः । इत्येवमादयो व्यामिश्रसमुत्थिता द्रष्टव्याः ।
प्रदाशो दृक्परामर्शनिष्यन्दः शठता दृशः
पूर्वोक्तलक्षणः प्रदाशः परामर्शनिष्यन्दः । शाठ्यं दृष्टिसमुत्थितमिति ॥
अथ कः क्लेशः कया वेदनया संप्रयुज्यते ? तदिदमारभ्यते-
सौमनस्येन रागस्य संप्रयोगः सुखेन च ।
रागः खलु सुखसौमनस्याभ्यां संप्रयुक्तः ।
द्वेषस्य दौर्मनस्येन दुःखेन च निगद्यते
संयोग इति वर्तते । प्रतिघः खलु दुःखदौर्मनस्याभ्यां संप्रयुक्तः ॥
सर्वैर्मोहस्य
मोहस्य तु पञ्चभिरपीन्द्रियैः संप्रयोगः ।
वित्तिभ्यां चैतसीभ्यामसद्दृशः ।
मिथ्यादृष्टिर्हि दौर्मनस्यसौमनस्याभ्यां संप्रयुज्यते, पापकर्मणां पुण्यकर्मणां च यथाक्रमम् ।
काङ्क्षा च दौर्मनस्येन
सांशयितो हि निश्चयाकाङ्क्षी दौर्मनस्येन संबध्यते ।
शेषाणां सुमनस्तया
शेषास्त्वनुशयाः- चतस्रो दृष्टयः, मानश्च । हर्षाकारवृत्तित्वात्सौमनस्येन संप्रयुक्ताः ॥
उपेक्षया तु सर्वेषाम्
सर्वे ऽप्यविशेषेणानुशया उपेक्षया संप्रयुज्यन्ते । प्रवाहच्छेदकाले खलु क्लेशानामवश्यमुपेक्षा संमुखीभवति ।
कामाप्तानामयं विधिः ।
कामावचराणां खल्वनुशयानामेष विधिः द्रष्टव्यः ।
इतो ऽन्यधातुजानां तु प्रतिभूम्यन्तरं स्वकैः
यस्यां यस्यां भूमौ यावन्तीन्द्रियाणि सन्ति तत्रापि चातुर्विज्ञानकायिकाश्चातुर्विज्ञानकायिकैर्मनोभूमिका मनोभूमिकैरेव यथासंभवम् ॥
उक्ताः क्लेशानामिन्द्रियसंप्रयोगः । उपक्लेशानामुच्यते-
ईर्ष्यया दौर्मनस्येन कौकृत्यस्य तथा क्रुधः ।
प्रदष्टेश्चोपनद्धेश्च विहिंसायास्तथैव च
मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0