अभिधर्मदीप (टीका सहित) · श्लोक 341-360
स्वे त्रयः कामधात्वाप्ता रूपाप्ताश्च त्रयस्त्रयः ।
स्वे त्रयो दुःखसमुदयदर्शनभावनाहेयाः कामाप्ताः एत एव । रूपाप्ताश्च एत एव त्रयः ।
रूपाप्तवत्परावृत्ते द्वितीये पञ्चमे तथा
परावृत्ते ऽपि त्रयो निरोधमार्गदर्शनहेयौ हित्वा । रूप्यारूप्याश्चत्वारो निरोधदर्शनहेयं मुक्त्वा ॥
यथा प्रथमे द्वितीये पञ्चमे च,
तृतीये खल्वपि स्वे च सास्रवार्थावलम्बिनः ।
तृतीये ऽपि खल्वेत एव ऽस्वे च सास्रवार्थावलम्बिनःऽ; ।
परावृत्ते स्वधात्वाप्ताः संस्कृतार्थावलम्बिनः
परावृत्ते खलु सर्वे ऽ; ऽरूप्यावचरा असंस्कृतालम्बनान्मुक्त्वा ॥
अन्यत्त्वाद्यवदाख्येयं चतुर्थे ऽपि तृतीयवत् ।
कामावचररूपावचराः पूर्ववदाख्यातव्याः । ऽचतुर्थे ऽपि तृतीयवत् ।ऽ; स्वे सास्रवालम्बनास्त्वत्राधिकी भवन्ति ।
आद्यवत्तु परावृत्ते विज्ञाने निर्दिशेद् बुधः
परावृत्ते खलु विज्ञाने आद्यवत्कामावचरास्त्रयः, निरोधमार्गदृग्घेयौ हित्वा । रूपावचराश्चत्वारः, निरोधदर्शनहेयं मुक्त्वा । अप्रहातव्यधर्मालम्बने विज्ञाने निरोधमार्गदर्शनहेयानास्रवालम्बनसंप्रयुक्ते । तत्र त्रैधातुकास्त्रयो ऽनुशेरते । आलम्बनालम्बनं तु दुःखसमुदयमार्गदर्शनभावनाहेयेत निकायेनालम्बते । निरोधदर्शनहेयेन च सास्रवालम्बनेनालम्ब्यते । तत्र संस्कृतालम्बनाश्चत्वारो निकायाः, निरोधालम्बनं मुक्त्वा । ते हि निर्वाणालम्बने विज्ञाने नानुशेरते, विज्ञानालम्बने तु ॥
समाप्तानि षोडशचित्तानि । तेषु चानुशयनिदशः कृतः । अधुना चक्षुरिन्द्रियादीनां वक्तव्यः । सो ऽयमुपदिश्यते-
भावनापथहातव्यो निकायः सर्वगैः सह ।
अनुशेते द्विधात्वाप्तो व्यारूप्याश्चक्षुरिन्द्रिये
चक्षुरिन्द्रिये खलु भावनाहेयाः सर्वत्रगाश्चानुशयाः कामावचररूपावचरा अनुशेरते । एवं यावत्कायेन्द्रिये चक्षुर्धातौ रूपधातौ चक्षुर्विज्ञानधातौ यावद्विस्तरेण कायविज्ञानधातौ यावद्रूपस्कन्धे वाच्यम् ॥
अधुना चक्षुरिन्द्रियालम्बने विज्ञाने वक्तव्याः-
निकायाः कामरूपाप्ताश्चक्षुरिन्द्रियगोचरे ।
दुःखहेतुदृगभ्यासप्रहातव्यास्त्रयस्त्रयः
आरूप्या भावनाहेयाः सर्वगाश्चानुशेरते ।
चक्षुरिन्द्रियालम्बने खलु विज्ञाने कामावचररूपावचराः दुःखसमुदयदर्शनभावनाप्रहातव्याः, आरूप्यावचराश्च भावनाप्रहातव्याः, सर्वत्रगाश्चानुशेरते ।
परिवृत्ते तु चत्वारः समदृक्क्षयवर्जिताः
चक्षुरिन्द्रियालम्बनालम्बने तु विज्ञाने चत्वारो निकाया अनुशेरते । निरोधदर्शनहेयं हित्वा । तद्धि चक्षुरिन्द्रियालम्बनं विज्ञानं सर्वत्र संप्रयुक्तम् । तदप्यालम्बनं सर्वत्रगाणाम् । एवं त्रयः परावृत्ते ।
द्विष्परावृत्ते तु चक्षुरिन्द्रियं खल्वालम्बनं दुःखसमुदयधर्मज्ञानक्षान्तिसंप्रयुक्तस्य चित्तस्य । तत्पुनरालम्बनं कामावचरमार्गदर्शनप्रहातव्यम् । मिथ्यादृष्टिविचिकित्साविद्यातत्संप्रयुक्तानां विज्ञानानाम् । तेषु विज्ञानेष्वनास्रवालम्बनाः संप्रयोगतः, सास्रवालम्बनास्त्वालम्बनतो ऽनुशेरते । एवं चतुर्थो निकायो वर्धते मार्गदर्शनहेयः । तदेवं सति कामावचराश्चत्वारः, आरूप्यावचराश्चत्वारः, सर्वे ऽभिसमस्य त्रैधातुकाश्चत्वारो भवन्ति ।
आकाशानन्त्यायतनस्य खलु कुशलस्य चक्षुरिन्द्रियमालम्बनम् । तत्रारूप्याः सर्वत्रगा भावनाहेयाश्चानुशेरते । तत्रापि सर्वत्रगसंप्रयुक्ते चेतसि असर्वत्रगा वर्धन्त इति त्रयो भवन्ति । दुःखसमुदयालम्बनज्ञानक्षान्तिसंप्रयुक्तस्य च विज्ञानस्य चक्षुरिन्द्रियमालम्बनम् । तदारुप्यमार्गदर्शनप्रहातव्यस्य मिथ्यादष्ट्यादिसंप्रयुक्त्तस्य विज्ञानस्यालम्बनम् । तत्र ते ऽनास्रवालम्बनाः संप्रयोगतः, सास्रवालम्बनाः आलम्बनतः । एवमारूप्यावचरा अपि चत्वारो निकाया भवन्तीति ॥
दुःखेन्द्रिये तु कामाप्तः स्वैरेव सह सर्वगैः ।
तद्गोचरे तु विज्ञाने निकाया अनुशेरते
कामापन्नास्त्रयो रूपाः सर्वगाभ्याससंक्षयाः ।
परवृत्ते तु चत्वारः कामाप्ता अनुशेरते
त्रयो रूपभवादन्त्याद्भावनाहेयसर्वगाः ।
सकला द्विष्परावृत्तेश्चत्वारश्चानुशेरते
सुखेन्द्रिये तदालम्बे चित्ते तद्गोचरे ऽपि च ।
कामाद्याप्ताः यथायोगं सर्वगाश्चानुशेरते
तत्र तावत् । सुखेन्द्रियं सप्तविधम् । कामावचरं भावनाप्रहातव्यम्, रूपावचरं पञ्चप्रकारम्, अनास्रवं चेति । तदेतत्समासतो द्वादशविधस्य विज्ञानस्यालम्बनं भवति । कामावचरस्य चतुष्प्रकारस्य अन्यत्र निरोधदर्शनहेयात्, रूपावचरस्य पञ्चप्रकारस्य, आरूप्यावचरस्य द्विप्रकारस्य मार्गदर्शनभावनाहेयस्य अनास्रवस्य च । इदं द्वादशविधं सुखेन्द्रियालम्बनं विज्ञानम् । तत्र यथायोगं कामावचराश्चत्वारो निकायाः रूपावचराः संस्कृतावलम्बनाः, आरूप्यावचरौ द्वौ निकायौ, सर्वत्रगाश्चानुशया अनुशेरत इति ।
तत्पुनः सुखेन्द्रियालम्बनं विज्ञानं यस्य चित्तस्यालम्बनं तच्चित्तं सुखेन्द्रिया लम्बनालम्बनम् । तस्मिन् कत्यनुशयानुशेरते ? तत्खलु सुखेन्द्रियालम्बनं ( जैनि_292 ) द्वादशविधं चित्तं कतमस्य विज्ञानस्यालम्बनम् ? तस्यैव च द्वादशविधस्यारूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदयदर्शन प्रहातव्यस्य । इदं चतुर्दशविधं सुखेन्द्रियालम्बनं विज्ञानम् । तत्रारूप्यावचरौ दुःखसमुदयदर्शनहेयौ वर्धयित्वा कामावचरा आरूप्यावचराश्च चत्वारो निकायाः, रूपावचराश्च संस्कृतालम्बना अनुशयानुशेरत इति ऽयथायोगऽ- वचनात्, ऽअपिऽशब्दाच्च द्रष्टव्यम् ॥
त्रिधातुसंगृहीतास्तु सकला मनैन्द्रिये ।
तदालम्बिनि विज्ञाने सर्वसंस्कृतगोचराः
मनैन्द्रिये खलु सर्वत्रैधातुकाः ये ऽपि ते निर्वाणालम्बनास्ते ऽपि संप्रयोगतः । मनैन्द्रियालम्बनं खलु विज्ञानं संस्कृतालम्बनम् । अतस्तत्र संस्कृतालम्बनास्ते ऽनुशया अनुशेरते ।
संस्कृतालम्बना एव परिवृत्ते ऽनुशेरते ।
विशेषो द्विःपरावृत्तौ विद्यते ऽत्र न कश्चन
पूर्वनीत्या वात्र परिवृत्ते ऽनुशयकार्यं बोद्धव्यम् । द्विष्परावृत्ते ऽप्यत्र न कश्चिद्विशेष इति द्रष्टव्यम् ॥
अधुना षोडशानां चित्तानां कस्य चित्तस्य समनन्तरं कति चित्तान्युत्पद्यन्त इत्युपदिश्यते ।
दुःखं दर्शनहेयादेश्चित्ताच्चित्तानि कामिनः ।
भवत्यनन्तरं षड् वा तस्योर्द्ध्वं पञ्च पञ्च वा
कामधातूपपन्नस्य दुःखदर्शनहेयादेश्चित्तादनन्तरं स्वभूमिकानि पञ्च, षष्ठं च भावनाप्रहातव्यं प्रथमध्यानसामन्तकात् । स यदा कामधातोश्च्युत्वा रूपधातावुपपद्यते तस्य तत्रत्यानि पञ्च भवन्ति । एवमारूप्येषूपपद्यमानस्यारूप्याणि पञ्च भवन्तीति ॥
रूपधातूपपन्नस्य चित्तानि तु विनिर्दिशेत् ।
एकं वा पञ्च वा षड् वा सप्त वा यदि वा दश
तत्र ऽएकम्ऽ; वीतरागस्योपरिसामन्तकाद्भावनामयम् । ऽषड्ऽ; वीतरागस्य कामावचरं भावनाप्रहातव्यं निर्माणचित्तं प्रथमध्यानफलम् । ऽपञ्चऽ; स्वभौमानि । ऽसप्त वाऽ; उपरिसामन्तकाद्भावनाप्रहातव्यं कुशलं सास्रवम् । ऽदश वाऽ; रूपेभ्यः प्रच्युतस्य कामरूपेषूपपद्यमानस्येति ॥
आरूप्यधातुजातस्य चित्तानीमानि लक्षयेत् ।
स्वधातुकानि पञ्चैव च्युतिकाले दशान्यतः
रूपकामेषूपपद्यमानस्य तत्रत्यानि दश भवन्ति । स्वानि पञ्च पञ्चान्यतः । गतमेतत् ॥
इदानीं वक्तव्यम् । अथ यदिदं सानुशयं चित्तमुक्तं तत्कथम् ? इत्यत्राभिधीयते-
साचिव्यादनुशायित्वाच्चित्तं सानुशयं मतम् ।
द्विधा वा क्लिष्टमक्लिष्टमेकधैवापदिश्यते
द्वाभ्यां खलु प्रकाराभ्यां चित्तं सानुशयमुच्यते । साचिव्यभावेनानुशायित्वेन च । तत्र क्लिष्टं द्वाभ्यां कारणाभ्यां सानुशयं यदप्रहीणक्लेशम् । अक्लिष्टं पुनरेकधा साचिव्यभावनैवेति । तत्र क्लिष्टं चित्तमनुशयैः संप्रयुक्तैरप्रहीणैः सानुशयं तदालम्बनैश्चाप्रहीणैः ।
कथमिह यो ऽनुशयो येन चित्तेन संप्रयुक्तः स खल्वप्रहीणस्तस्मिंश्चित्ते ऽनुशेते ? यावद्धि तदनुशयानुप्राप्तिविशेषेण सा चित्तसन्ततिरवष्टब्धा चाधिष्ठिता च भवति, निष्यन्दफलस्य चानागतस्य तस्यां चित्तसन्ततौ सभागहेतुरुत्पत्तये कृतास्पदो भवति, तावदसावनुशयस्तश्मिंश्चेतस्यनुशेत इत्युच्यते । तस्य पुनः क्लेशाशीविषस्य प्राप्तिद्रंष्ट्रावभङ्गे कृते विद्यमानो ऽपि सन् क्लेशस्तस्मिंश्चेतस्यनर्थानुत्पादनात् सन्नपि संप्रयोगतः नानुशेत इत्युच्यते । ( जैनि_294 ) नित्यं च तदालम्बनतो कारित्राकरणात्, तस्मिन्नालम्बने मार्गविदूषणाकारदूषिते आलम्बनतो ऽपि नानुशेत इत्युच्यते । न तु कदाचिन्मुञ्जेशीकावदुद्धृत्य शक्यते तस्मात् क्लेशः चित्तात्पृथक्कर्तुं निर्नाशयितुं वा स्वालम्बनाद्वा विमुखीकर्तुम् । उक्तं हि- "यो धर्मो यस्य धर्मस्यालम्बनं कदाचित्स धर्मस्तस्य धर्मस्य नालम्बनम् ? आह- न कदाचित्" इति । अतस्तच्चित्तं सहायभावेन सानुशयं सहायभावस्यापरित्यागात् । न त्वनुशयभावेन सानुशयं तत्रानर्थानुत्पादनात् ।
कतरत्पुनश्चित्तं सानुशयम् ? त्रैधातुकं प्रत्येकं पञ्चप्रकारम् । पुनः प्रत्येकं द्विधा भिद्यते । सर्वत्रगासर्वत्रगसास्रवा नास्रवालम्बनक्लिष्टाक्लिष्टभेदैः ।
तत्र दुःखदर्शनप्रहातव्यं सत्कायदृष्टिसंप्रयुक्तम् । तया च सत्कायदृष्ट्या तत्संप्रयुक्तया चाविद्यया सहायभावेन चानुशयाने च सानुशयम् । शेषैः स्वनिकायिकैः समुदयदर्शनप्रहातव्यैश्च सर्वत्रगैरनुशयभावेनैव । शेषर्नोभयथा । एवं सर्वैः दुःखदर्शनप्रहातव्यंः समुदयदर्शनप्रहातव्यैश्च संप्रयुक्तं चित्तं यथायोगमभ्यूहितव्यम् ।
निरोधदर्शनप्रहातव्यं मिथ्यादृष्टिसंप्रयुक्तम् । तथैव तत्संप्रयुक्तया चाविद्ययोभयथा । शेषैः स्वानिकायिकसास्रवालम्बनैः सर्वत्रगैश्चानुशयभावेनैव । स्वानिकायिकानास्रवालम्बनैस्तदन्यैश्च नोभयथा । एवमन्यैर्निरोधदर्शनप्रहातव्यैः मार्गदर्शनप्रहातव्यैश्च यथासंभवं वक्तव्यम् ।
भावनाप्रहातव्यं रागसंप्रयुक्तम् । तेनैव तत्संप्रयुक्तया चाविद्ययोभयथा । शेषैर्भावनाप्रहातव्यैः सर्वत्रगैश्चानुशयैर्भावनैर्वा । अन्यैर्नोभयथा । एवमन्यद्भावनाहेयसंप्रयुक्तमपि यथायोगं वाच्यम् ।
अक्लिष्टन्तु स्वानिकायिकैः सर्वत्रगैश्चानुशयभावेनैव सानुशयमिति ॥
कः पुनरेषामनुशयानां प्रवृत्त्यनुक्रमः ? तदुच्यते । मोहस्तावत् सर्वक्लेशाग्रणी, तस्मात्क्लेशपुरोयायिनः ।
मोहात्सत्कायदृक्तस्या अन्तग्राहेक्षणं ततः ।
काङ्क्षामिथ्येक्षणं तस्याः शीलामर्शस्ततो दृशः
रागः स्वदृशि मानश्व द्वेषो ऽन्यत्र प्रतायते ।
ज्ञेयः प्रवृत्तिबाहुल्यादेवमेषामनुक्रमः
इह तावद् बालस्य पञ्चोपादानस्कन्धात्मके दुःखे संमुग्धस्य फलभूतान् पञ्चोपादानस्कन्धानजानतः सत्कायदृष्टिरूपजायते । सत्त्वजीवपुद्गलात्मग्राहयोगेन । ततो ऽस्य तच्छाश्वतोच्छेदान्तग्राहलक्षणान्तग्राहदृष्टिः । तस्यैवं भवति- यदि तावदयं नित्यो ऽविकारी पुरुषः किं धर्मेण यः सुखेन नानुगृह्यते, दुःखेन वा नोत्पीड्यते । अथायमुच्छेदधर्मानित्यस्तथापि किं धर्मेणेति विचारयतः काङ्क्षोत्पद्यते । काङ्क्षाप्रवृद्ध्या मिथ्यादर्शनमावहति । तदकारणे कारणाभिनिवेशान्निहीनं चाग्रतो ग्रहणात् शीलव्रतदृष्टिपरामर्शावाकर्षति । ततो ऽस्य ऽरागः स्वदृशि मानश्च द्वेषो ऽन्यत्र प्रतायते ।ऽ; तस्य खलु मिथ्यादर्शनभूतग्रहावेध शादश्रेयसि श्रेयोबुद्ध्या प्रवृत्तस्यानग्रे चाग्र्यबुद्ध्यभिनिविष्टस्य स्वपक्षे रागो भवति परपक्षे च द्वेषः प्रवर्तते । इत्यतः तत् ऽज्ञेयः प्रवृत्तिबाहुल्यादेवमेषामनुक्रमःऽ; ॥
वयं तु पश्यामः
सदसन्मित्रयोगात्तु तद्वृत्त्यनियमो मतः ।
कल्याणमित्रपापमित्रसंसर्गाद्धि प्रायेण श्रद्धादीनां गुणानामेषां च क्लेशानां समुदाचारप्रवृत्तिः आचार्याणामभिमतेति । स पुनरेषः-
क्लेश उत्पद्यते कश्चित्संपूर्णैः कारणैस्त्रिभिः
हेतुप्रयोगविषयबलैः कश्चित् त्रिभिरुत्पद्यते । कश्चिद् द्वाभ्यामिति । ( जैनि_296 ) तत्र हेतुबलं सभागसर्वत्रगादिहेतुभावनागतोत्पत्तये वर्तमानप्राप्त्युत्सर्गे मेघिकादिनिदर्शनात् । प्रयोगबलमप्ययोनिशो मनस्कारादिसंनिधानम् । प्रत्ययबलमपरिज्ञातविषयाभासगमनं निदर्शनमर्हत्परिहाणिसूत्रमिति ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ
पञ्चमस्याध्यायस्य द्वितीयः पादः ॥
पञ्चमाध्याये
तृतीयपादः ।
अथ य इमे भगवता त्रय आस्रवा आख्याताः- "कामास्रवो भवास्रवो ऽविद्यास्रवश्च ।" एषां कः स्वभावः ? तदिदमारभ्यते-
व्यविद्याः सकलाः क्लेशाः कामे कामास्रवो मतः ।
स्त्यानौद्धत्ये च हित्वोर्ध्वं समानत्वाद्भवास्त्रवः
मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0