भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 321-340

321

तथापि तु श्रूयताम् ॥
वर्तमानाध्वसंपातात् सामग्र्याङ्गपरिग्रहात् ।
लब्धशक्तेः फलाक्षेपः कारित्रमभिधीयते

322

अनागतस्य खलु धर्मस्य वर्तमानाध्वसंपातादन्तरङ्गवहिरङ्गसामग्र्याङ्गपरिग्रहात् लब्धसामर्थ्यस्य धर्मस्य यः फलाक्षेपस्तत्कारित्रमित्युच्यते । सा च वर्तमानकाला वृत्तिः कारित्रमित्याख्यायते । तत्र यो ब्रूते ऽनन्यत्कारित्रमिति तस्य द्रव्यस्वभावपरित्यागः प्रसज्यते ॥
शास्त्रे तु खलु-
न वर्तमानता रूपमतीताजातता न च ।
यतो ऽतो नाध्वसंचाराद् रूपात्मान्यथतेष्यते

323

यदि द्रव्यात्मनो नान्यथात्वं किं तर्हि हेतून् प्रतीत्य जायते ? ब्रूमः-
अवस्था जायते काचिद्विद्यमानस्य वस्तुनः ।
तथा शक्तिस्तथा वेला तथा सत्ता तथा क्रिया

324

तत्रावस्थाशक्तिप्रचयक्रियापेक्षा द्रव्यवशा शक्तिः क्रियापेक्षाकृतं सामर्थ्यम् । क्रियानागतफला । द्रव्यवृत्तिर्वेला कालो वर्तमानाख्यः । मूर्तिः परमाणुप्रचयविशेषः । सत्ता प्रबोधाख्यं प्रज्ञप्तिसत्यम् । इति सर्वमेतदन्तरङ्गबहिरङ्गकारणसामग्रीसन्निधानापेक्षासक्तस्वरूपम् ॥
अत्र सर्वास्तिवादविभ्रष्टिर्वैतुलिको निराह- वयमपि त्रीन् स्वभावान् कल्पयिष्यामः । तस्मै प्रतिवक्तव्यम्-
परिकल्पैर्जगद्व्याप्तं मूर्खचित्तानुरञ्जिभिः ।
यस्तु विद्वन्मनोग्राही परिकल्पः स दुर्लभः

325

ते खल्वेते भवत्कल्पितास्त्रयः स्वभावाः पूर्वमेव प्रत्यूढाः । एवमन्ये ऽप्यसत्परिकल्पाः प्रोत्सारयितव्याः । इत्येतदपरमध्वसंमोहाङ्कनास्थानं कोशकारकस्येति ।
गतमेतत्प्रासङ्गिकं प्रकरणम् । शास्त्रमेवानुवर्तताम् ॥
व्याख्यातमिदं यस्मिन्वस्तुनि यैः क्लेशैर्यदवस्थैर्यः संयुक्तः । इदमिदानीं वक्तव्यम् । यद्वस्त्वप्रहीणं संयुक्तः स तस्मिन्वस्तुनि ? यस्मि वा वस्तुनि संयुक्तो ऽप्रहीणं तस्य तद्वस्तु ? यत्तावद्वस्त्वप्रहीणं संयुक्तः स तस्मिन्वस्तुनि । स्याद्वस्तुनि संयुक्तो न च तद्वस्त्वप्रहीणं यथा तावद्दर्शनमार्गे ।
अन्यसर्वत्रगैर्बद्धः प्रहीणे दुःखदृक्क्षये ।
दुःखज्ञाने उत्पन्ने समुदयज्ञाने चानुत्पन्ने दुःखदर्शनप्रहातव्यं वस्तु प्रहीणं भवति । तस्मिन्प्रहीणे ऽपि समुदयदर्शनप्रहातव्यो ऽप्रहीणः, तदालम्बनैः सर्वत्रगैः संयुक्तः ।
भावनामार्गे ऽपि-
प्रहीणे प्राक्प्रकारे ऽपि शेषैस्तदवलम्बिभिः

326

नवानां प्रकाराणां यो यः प्रकारः पूर्व प्रहीणस्तस्मिन्प्रहीणे ऽपि शेषैस्तदवलम्बिभिः क्लेशैः संयुक्तो विज्ञातव्यः ॥
अथ कस्मिन्वस्तुनि कत्यनुशया अनुशेरते ? अत्र चालम्बननियम एव तावद्दर्शयितव्यः । कतमो धर्मः कतमस्य विज्ञानस्यालम्बनम् ? तत एव तद्विस्पष्टं गम्यते- अमुष्मिन्वस्तुनि इयन्तो ऽनुशया अनुशेरत इति । तदिदमभिधर्मगह्वरं प्रतायते-
धर्माः षोडश विज्ञेयाः प्रत्येकं त्रिभवात्मकाः ।
पञ्चधा निर्मलाश्चैव विज्ञानानि तथैव च

327

धर्मास्तावत् कामरूपारूप्यधातुषु प्रत्येकं पञ्चप्रकारा दुःखादिदर्शनहेया अप्रहेयाश्च निर्मला इति षोडश भवन्ति । एवं विज्ञानानि द्रष्टव्यानि ॥
तत्र तावदाभिधार्मिको ऽन्यैः पृष्टः-
धात्वायतनसत्येषु प्रकारेषु च लक्षयेत् ।
धर्मसंग्रहविज्ञानज्ञानानुशयचोदितः

328

धर्मसंग्रहविज्ञाने वा पृष्टो धात्वायतनस्कन्धेषु पातयित्वा लक्षयेत् । ( जैनि_284 ) ज्ञानेषु पृष्टः सत्येषु पातयित्वा लक्षयेत् । अनुशयेषु पृष्टः प्रकारेषु पातयित्वा निर्दिशेत् । एवमसंमूढो व्याकरोतीति ॥
तत्र तावत् । विज्ञानेषु षोडशधर्माश्चोद्यन्ते । कस्य विज्ञानस्य कतमे धर्मा गोचरा इति ? तदाविष्क्रियते-
सदुःखहेतुदृग्घेयाः कामाप्ता भावनाक्षयाः ।
स्वकत्रयैकरूपाप्तिविरजाश्चित्तगोचराः

329

कामावचराः खलु दुःखसमुदयदर्शनभावनाप्रहातव्या धर्माः प्रत्येकं पञ्चानां विज्ञानानां गोचरीभवन्ति । कतमेषां पञ्चानाम् ? स्वेषां त्रयाणां कामावचरस्य दुःखदर्शनप्रहातव्यस्य विज्ञानस्यालम्बनम् । समुदयदर्शनप्रहातव्यस्य सर्वत्रगसंप्रयुक्तस्य । भावनाप्रहातव्यस्य कुशलस्य । एकस्य च रूपाप्तस्य भावनाप्रहातव्यस्य कुशलस्यानास्रवस्य चेति । एवं समुदयदर्शनभावनाप्रहातव्यावपि वक्तव्यौ ॥
एत एव त्रयो धर्माः
आत्मीयाधस्त्रयैकोर्ध्वनिर्मलानां तु रूपजाः ।
रुपावचरो हि दुःखदर्शनप्रहातव्यो धर्मः अष्टानां विज्ञानानामालम्बनम् । स्वकत्रयस्याधरत्रयस्योर्ध्वैकस्यामलस्य च । स्वधातुकस्य त्रयस्य पूर्ववत् । अधरधातुकस्य तु कामावचरयोर्दुःखसमुदयदर्शनप्रहातव्यविसभागधात्वालम्बनयोः । भावनाप्रहातव्यस्य च कुशलस्य ऊर्ध्वैकस्यारूप्यावचरस्य भावनाप्रहातव्यस्य कुशलस्यानास्रवस्य च । एवं समुदयदर्शनभावनाप्रहातव्यौ वाच्यौ ।
आरूप्याप्तास्त्रिधात्वाप्तत्रिकनिर्मलगोचराः

330

आरूप्यावचरास्त एव त्रयो धर्माः, दशानां विज्ञानानामालम्बनम् । त्रैधातुकानां प्रत्येकं त्रयाणाम्, एषामेवानास्रवस्य च । इत्येवं तावत् त्रैधातुकाः दुःखसमुदयदर्शनहेयाभावनाहेयाश्च धर्मा उक्ताः ॥
सर्वे स्वाधिकविज्ञेयाः समनिर्याणदृक्क्षयाः ।
सर्व एव त्रैधातुकाः निरोधमार्गदर्शनहेयाः स्वनैकायिकाधिकचित्तगोचरा विज्ञातव्याः । कामावचरो हि निरोधदर्शनप्रहातव्यो धर्मो दुःखदर्शनप्रहातव्यादिवत् पञ्चानां विज्ञानानामालम्बनम् । स्वनैकायिकस्य चानिरोधदर्शनप्रहातव्यस्येति षण्णाम् । एवं मार्गदर्शनप्रहातव्यो ऽपि वेदितव्यः । रूपावचरौ निरोधमार्गदर्शनप्रहातव्यौ पूर्ववदष्टानां विज्ञानानां प्रत्येकमालम्बनं स्वनैकायिकस्य चाधिकस्येति नवानाम् । एवमारूप्यावचरौ पूर्ववद्दशानां स्वनैकायिकस्य चाधिकस्येत्येकादशानामालम्बनं भवतः । उक्ताः पञ्चदशधर्माः ।
निष्क्लेशास्त्रिभवाप्तान्त्यत्रयनिर्मलगोचराः

331

त्रैधातुकानां पञ्चानां प्रकाराणां प्रत्येकं ये ऽन्त्यास्त्रयः प्रकारा निरोधमार्गदर्शनभावनाहेयाख्याः, तेषां नवानामनास्रवस्य चेति । एवमनास्रवा धर्मा दशानां विज्ञानानामालम्बनं भवन्ति ॥
पुनरष्येष एवार्थपिण्डः श्लोकेनावद्योत्यते-
कामाप्तं पञ्चविषयो रूपाप्तं त्वष्टगोचरः ।
आरुप्याप्तं दशानां तु दशानामेव चामलम्

332

दुःखसमुदयदर्शनभावनाहेयानुशयसंप्रयुक्तं विज्ञानं त्रैधातुकमनास्रवं च पञ्चाष्टदशदशविज्ञानगोचरम् । एवमेषां षोडशानां धर्माणामेतानि षोडशचित्तानि त्रैधातुकानि पञ्चप्रकाराण्यनास्रवं च व्यवस्थाप्यानुशयकार्यं योजयितव्यम् ।
तत्र तावत्कामावचरदुःखदर्शनप्रहातव्या धर्मा दशानुशयाः, तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः सलक्षणानुलक्षणाः अप्राप्तिप्राप्तिप्राप्तयः । एते धर्मा विषयः पञ्चानां विज्ञानानाम्, दुःखदर्शनप्रहातव्यस्य सर्वस्य विज्ञानस्य, समुदयदर्शनहेयस्य सर्वत्रगसंप्रयुक्तस्य, भावनाहेयस्य कुशलस्याक्लिष्टस्य, द्विविधस्य कुशलसास्रवस्याव्याकृतस्य च, रूपावचरस्याक्लिष्टस्य कुशलसास्रवस्य, अक्लिष्टस्याव्याकृतस्य च कुशलस्योष्मगतादिविमोक्षाप्रमाणादिसंप्रयुक्तस्य । अव्याकृतस्य तु विपाकजस्य मनोभौमस्य सुखसौमनस्योपेक्षासंप्रयुक्तस्यानास्रवस्य च दुःखधर्मज्ञानसमुदयधर्मज्ञानतत्क्षान्तिसंप्रयुक्तस्य विज्ञानस्य ।
तत्रानास्रवे विज्ञाने न केचिदनुशया अनुशेरते । सास्रवे तु तत्र तावत्-
कामाप्तमूर्ध्वधर्मार्थे विज्ञाने स्वभुवस्त्रयः ।
रूपाप्ता भावनाहेयाः सर्वगाश्चानुशेरते

333

कामाप्तदुःखदर्शनप्रहातव्ये विज्ञाने कामावचरा दुःखसमुदयभावनाहेयाः सर्वे ऽनुशेरते । रूपावचरे त्वक्लिष्टे कामावचरधर्म गोचरा एव रूपावचराः सर्वत्रगाः, भावनाहेयाश्चानुशेरते ॥
चत्वारः परिवृत्ते स्वे रूपाप्ताः खल्वपि त्रयः ।
आरूप्यावचराः सार्धं सर्वगैर्भावनाक्षयाः

334

परिवृत्ते तु खल्वालम्बनालम्बने विज्ञान इत्यर्थः । पूर्वकाः कामावचररूपावचरा यथोक्ताः । केनाधिकीभवन्ति ? कामावचरस्तावच्चतुर्थो निकायो मार्गदर्शनप्रहातव्यः । कथं कृत्वा ? यत्तद्दुःखसमुदयज्ञानं तत्क्षान्तिसंप्रयुक्तं विज्ञानं कामावचरदुःखदर्शनहेयधर्मालम्बनम् । तत्खल्वालम्बनं मार्गदर्शनहेयमिथ्यादृष्टिविचिकित्साविद्यासंप्रयुक्तस्य विज्ञानस्य । ( जैनि_287 ) तस्मिन्विज्ञाने ते ऽनास्रवालम्बनाः संप्रयोगतो ऽनुशेरते । सास्रवालम्बनाः आलम्बनतः । एवं कामावचराश्चत्वारो निकाया भवन्ति ।
रूपावचरे विज्ञाने सर्वत्रगसंप्रयुक्ते त्वसर्वत्रगालम्बते(?) । एवं रूपावचरास्त्रयो निकाया भवन्ति । तस्य तु चतुर्थध्यानभौमस्याक्लिष्टस्य विज्ञानस्य कामधात्वालम्बनस्योष्मगतविमोक्षाप्रमाणा शुभादिसंप्रयुक्तस्योपेक्षोपविचारसंयुक्तस्य विज्ञानस्यालम्बनम् । तत्पुनराकाशानन्त्यायतनसामन्तकेन कुशलेनालम्ब्यते । अतस्तत्रारूप्याः सर्वत्रगा भावनाहेयाश्चानुशेरते । उक्तं दुःखदर्शनप्रहातव्यम् ।
तद्वदेव द्वितीये ऽपि पञ्चमे ऽपि तथैव च ।
एवं समुदयदर्शनभावनाप्रहातव्ययोरपि विज्ञानयोर्थथोक्तयोर्द्रष्टव्यम् । अयं तु विशेषः । दुःखे दुःखदर्शनहेयाः सर्वे, समुदयसर्वत्रगाश्च । समुदये तु समुदयदर्शनहेयाः सर्वे, दुःखदर्शनहेयाश्च सर्वत्रगाः । अन्यत्सर्वं समानम् ।
सास्रवालम्बनाः स्वे च तृतीये ऽप्यनुशेरते

335

निरोधदर्शनप्रहातव्यं तृतीयं विज्ञानम् । तत्राप्येते च त्रयो निरोधदर्शनहेयाश्च सास्रवालम्बनाः ॥
परिवृत्ते तु कामाप्ताः संस्कृतार्थावलम्बिनः ।
परिवृत्ते तु विज्ञाने कामावचराश्चत्वारो निकायाः, निरोधदर्शनहेयालम्बनाश्च सास्रवालम्बनाः । ये ह्यनास्रवालम्बनास्ते निर्वाणालम्बने विज्ञाने ऽनुशेरते, न विज्ञानालम्बने ।
शेषं पूर्ववदाख्येयम्
पूर्वे चत्वारो निकायाः, दुःखसमुदयमार्गभावनाहेयाश्चानुशेरत इत्यर्थः ।
चतुर्थे ऽपि तृतीयवत्

336

चतुर्थे ऽपि खलु मार्गदर्शनहेये विज्ञाने कामावचरास्त्रयो मार्गदर्शनहेयाश्च सास्रवालम्बना रूपावचराः सवत्रगा भावनाहेयाश्च ॥
परिवृत्ते तु कामाप्ताश्चत्वारो ऽन्यत्र पूर्ववत् ।
परिवृत्ते तु खलु विज्ञाने कामावचराश्चत्वारो निरोधदर्शनहेयं ( जैनि_288 ) मुक्त्वा । रूपावचरास्त्रयो दुःखसमुदयदर्शनभावनाहेयाः । आरूप्याः सर्वत्रगाः भावनाहेयाश्च । समाप्तं कामावचरं विज्ञानम् ॥
रूपाप्ते प्रथमे ऽधस्तात् त्रयः स्वे खल्वपि त्रयः

337

आरूप्याः सर्वगाः सार्धं भावनापथसंक्षयैः ।
रूपावचरे प्रथमे खलु विज्ञाने कामावचरास्त्रयो दुःखसमुदयविसभागधात्वालम्बनाः संप्रयोगतः । असर्वत्रगास्त्वालम्बनतो भावनाहेयाश्च स्वे च त्रयः । एत एवारूप्याः सर्वत्रगा भावनाहेयाश्च ।
परिवृत्ते त्रयो ऽधस्तात्
दुःखसमुदयदर्शनभावनाहेयाः ।
चत्वारश्च स्वधातुतः

338

मार्गदर्शनहेयाश्च दुःखसमुदयान्वयज्ञानक्षान्तिसंप्रयुक्ते विज्ञाने ॥
आरूप्याप्ताश्च चत्वारो निकाया अनुशेरते ।
दुःखसमुदययोः मार्गदर्शनमिथ्यादृष्ट्यादिसंप्रयुक्तचित्तालम्बनत्वात् ।
तद्वदेव द्वितीये ऽपि पञ्चमे ऽपि तथैव च

339

द्वितीये ऽपि खलु कामावचररूपावचरास्त्रयो दुःखसमुदयभावनाहेयाः । आरूप्याः सर्वगा भावनाहेयाश्च ॥
सास्रवालम्बनाः स्वे च तृतीये ऽप्यनुशेरते ।
यथा निर्दिष्ट इति ।
परिवृत्ते तु रूपाप्ताः संस्कृतार्थावलम्बिनः

340

निरोधदर्शनहेया असंस्कृतालम्बनान् मुक्त्वा ॥
अन्यत्तु पूर्ववज्ज्ञेयं चतुर्थे ऽपि तृतीयवत् ।
कामावचराः त्रयो दुःखसमुदयभावनाहेयाख्याः, आरूप्यावचराश्चत्वारः, निरोधाख्यं मुक्त्वा । ऽचतुर्थे ऽपिऽ; मार्गदर्शनहेये ऽतृतीयवत्ऽ; द्रष्टव्यम् । यथा तृतीये सास्रवालम्बनाः स्वनैकायिका अधिकीभवन्ति, तथा चतुर्थे ऽपि स्वे सास्रवालम्बना अधिकीभवन्ति ।
तृतीयवत्परावृत्ते
चत्वारो दुःखसमुदयमार्गदर्शनभावनाहेयाख्याः रूपावचराः, कामावचरास्रयः, आरूप्यावचराश्चत्वारो निरोधदर्शनहेयं मुक्त्वा । मार्गाच्च त्रयः । समाप्तं रूपावचरम् ।
आरूप्याद्ये निबोधयेत्

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc