अभिधर्मदीप (टीका सहित) · श्लोक 301-320
यः खल्वेष प्रथमो वादी सर्वास्तिवादाख्यः, एष खलु युक्त्यागमोपपन्नाभिधायित्वात्सद्वादी । तदन्ये बादिनो दार्ष्टान्तिकवैतुलिकपौद्गलिकाः न युक्त्यागमाभिधायिनः, तर्काभिमानिनस्ते । मिथ्यावादित्वादेते लोकायतिकवैनाशिकनग्नाटपक्षे ( जैनि_259 ) प्रक्षेप्तव्याः । इत्यतश्च सर्वं सर्वगतमुपदर्शयिष्यामीति ॥
कः पुनरयं सर्वास्तिवादी साधुतां भजते ? तदिदमवद्योत्यते । एष खलु वादी
इच्छत्यध्वत्रयं यस्मात् कृत्यतश्च ध्रुवत्रयम् ।
सर्वास्तिवाद इत्युक्तस्तस्मादाद्यश्चतुर्विधः
खल्वेष सर्वास्तिवादश्चतुर्धा भेदं प्रतिपन्नः । कथम् ? तदारभ्यते-
भावाङ्कान्यथिकाख्यौ द्वाववस्थान्यथिको परः ।
अन्यथान्यथिकश्चान्यः, तृतीयो युक्तिवाद्यतः
तत्र भावान्यथिको भदन्तधर्मत्रातः । स ह्येवमाह- धर्मस्याध्वसु प्रवर्तमानस्यानागतादिभावमात्रमन्यथा भवति । न द्रव्यान्यथात्वम् । यथा सुवर्णस्य कटकादिसंस्थानान्तरेण क्रियमाणस्य पूर्वसंस्थाननाशे सुवर्णनाशः । क्षीरस्य वा दधित्वेन परिणमतो यथा रसवीर्यविपाकपरित्यागो न वर्णस्येति । तदेष वार्षगण्यपक्षभजमानत्वात्तद्वर्ग्य एव द्रष्टव्यः । यस्मात् एषो ऽवस्थितस्य द्रव्यस्य जातिलक्षणस्य समुदायरूपस्य वान्यथान्यथावस्थानलक्षणं परिणाममिच्छति ।
लक्षणान्यथिको भदन्तघोषक इह पश्यत्यतीतो धर्मो ऽतीतलक्षणेन युक्तो ऽनागतप्रत्युत्पन्नलक्षणाभ्यामवियुक्तः, एवमनागतप्रत्युत्पन्नावपि । यथा पुरुषः ( जैनि_260 ) एकस्यां स्त्रियां रक्तो ऽन्यास्वविरक्तः । तदस्याप्यध्वसंकरो भवत्येकस्य धर्मस्य त्रिलक्षणयोगाभ्युपगमात् । एषो ऽपि पुरुषकारणि(?)वागुरायां प्रवेशयितव्यः ।
अवस्थान्यथिको भदन्तवसुमित्रः । स खल्वाह- धर्मो ऽध्वसु प्रवर्तमानो ऽवस्थामवस्थां प्राप्यान्यथान्यथास्तीति निर्दिश्यते । अवस्थान्तरविशेषविकारात्स्वभावापरित्यागाच्च । यथा निक्षेपवर्तिकैकाङ्कविन्यस्तैकेत्युच्यते, सैव शताङ्के शतं सहस्राङ्के सहस्रमिति ।
अन्यथान्यथिको भदन्तबुद्धदेवः । स ब्रूते । धर्मो ऽध्वसु प्रवर्तमानः पूर्वापरमवेक्ष्यान्यथा चान्यथा चोच्यते । नैवास्य भावान्यथात्वं भवति द्रव्यान्यथात्वं वा । अथैका स्त्री पूर्वापरमपेक्ष्य माता चोच्यते दुहिता च । तद्वद्धर्मो ऽनागतप्रत्युत्पन्नमपेक्ष्यातीत इत्युच्यते । तथेतरो ऽपीतरद्वयमपेक्ष्येति ।
अस्याप्येकस्यातीतस्याध्वनः पूर्वोत्तरक्षणद्वयमपेक्ष्याध्वत्रित्वापत्तिदोषप्रसङ्गः ।
तदेभ्यश्चतुर्भ्यः सर्वास्तिवादेभ्यस्तृतीयः स्थविरवसुमित्रः पञ्चविंशतितत्त्वनिरासी परमाणुसंचयवादोन्माथीच । इत्यतो ऽसावेव युक्त्यागमानुसारित्वादाप्तः प्रामाणिक इत्यध्यवसेयम् ।
भदन्तबुद्धदेवो ऽपि तीर्थ्यपक्ष्यभजमानत्वान्न परिगृह्यते ।
भदन्तघोषको ऽप्यध्वसंकरवादित्वादेकैकस्याध्वनो ऽध्वत्रयलक्षणभाग्भवति ।
इत्यतस्तृतीय एवापदोषः । यस्मात्-
कारित्रेणाध्वनामेप व्यवस्थामभिवाञ्छति ।
तत्कुर्वन्वर्तमानो ऽध्वा कृते ऽतीतो ऽकृते परः
ये खलु भगवतोक्ताः स्वभावसिद्धास्त्रैयाध्विका धर्मा अतीतानागतप्रत्युत्पन्नास्तेषामयमाचार्यः क्रियाद्वारेणावस्थाभेदमिच्छत्यजहत्स्वरूपो हेतुसामग्रीसन्निधानप्रबोधितशक्तिः । क्रियावान् हि संस्कारो वर्तमान इत्युच्यते । स एव त्यक्तक्रियो ऽतीतो ऽनुपात्तक्रियो ऽनागतः । इत्येवं च सति कालत्रयस्यैकाधिकरण्यमेकाधिष्ठानव्यापारपरिच्छेद्यत्वं चोपपन्नम् । अन्यथैकद्रव्यजातिनिमित्ताभावे वैयधिकरण्ये सति कालत्रयसंबन्धाभावः प्राप्नुयादिति ।
अत्राह चोदकः- न, अतीतानागतस्यार्थस्य प्रज्ञप्त्या व्यपदेशसिद्धेः । न, परमार्थद्रव्याभावे निरधिष्ठानप्रज्ञप्तिव्यपदेशानुपपत्तेः । वर्तमानापेक्ष्यस्तद्व्यपदेश इति चेत् । न । वर्तमानस्वरूपस्थितिशक्तिक्रियाभावे सत्त्वानुपपत्तेः, सदसतोरपेक्षासंबन्धाभावाच्च । सत्त्वलक्षणमिदानीमेव द्योत्यते अतीतादीनां पदार्थानाम्-
बुद्ध्या यस्येक्ष्यते चिह्नं तत्संज्ञेयं चतुर्विधम् ।
परमार्थेन संवृत्या द्वयेनापेक्षयापि च
यस्य खल्वर्थवस्तुनः स्वभावसिद्धस्वरूपस्याविपरीताकारया धर्मोपलक्षणया परिच्छिन्नं लक्षणमुपलक्ष्यते तत्सद्द्रव्यमित्युच्यते । तत्पुनः सत् प्रतिभिद्यमानं चतुर्विधं भवति ।
परमार्थेन यन्नित्यं स्वभावेन संगृहीतं न कदाचित्स्वमात्मानं जहाति, विशिष्टज्ञानाभिधानापौरुषेयविषयिसंबन्धं तत्परमार्थसदित्युच्यते ।
यत्पुनरनेकपरमार्थसत्यपृष्ठेन ब्यवहारार्थं प्रज्ञप्तिरूपतया निर्दिश्यते तत्संवृतिसत् । तद्यथा धटपटवनपुग्दलादिकम् ।
किञ्चिदुभयथा । तद्यथा पृथिव्यादि । किञ्चित्सत्त्वा पेक्षया पितृपुत्रगुरुशिष्यकर्तृक्रियादि ॥
अथ यदिदमुक्तं द्रव्यसन्तो ऽतीतानागताध्वस्था धर्मा इति तदागमयुक्त्यनभिधानादभिधानमात्रम् । तस्मादागमयुक्तिभ्यामुपपाद्यो ऽयमर्थ इत्यत इदं प्रतिज्ञायते-
सदतीतासमुत्पन्नं बुद्धोक्तेर्वर्तमानवत् ।
धीनामगोचरत्वच्च तत्सत्त्वं वर्तमानवत्
उक्तं हि भगवता- "अस्ति भिक्षवो ऽतीतं रूपं नोचेदतीतं रूपं अभविष्यन्नेमे सत्त्वा अतीते रूपे समरञ्ज्यन्तः । यस्मात्तर्ह्यस्त्यतीतं रूपं तस्मादिमे सत्त्वा अतीते रूपे संरञ्ज्यन्ते ।" एवमनागतप्रत्युत्पन्नं चेति वाच्यम् । विभक्तिप्रतिरूपको ऽयं निपात इति चेत् । न । वर्तमाने ऽपि तत्प्रसङ्गात् । क्रियावचनेन चोत्तरपदेन पूर्वस्य क्रियावचनस्यैव पदस्य सामानाधिकरण्यात् ।
पुनश्चोक्तं भगवता- "रूपमनित्यमतीतानागतम्, कः पुनर्वादः प्रत्युत्पन्नस्य ? एवंदर्शी श्रुतवानार्यश्रावको ऽतीते रूपे ऽनपेक्षो भवत्यनागतं रूपं नाभिनन्दति । प्रत्युत्पन्नस्य रूपस्य निर्विदे विरागाय निरोधाय प्रतिपन्नो भवति । अतीतं चेद्रूपं नाभविष्यन्न श्रुतवानार्यश्रावको ऽतीते रूपे ऽनपेक्षो ऽभविष्यत्; यस्मात्तर्ह्यस्त्यतीतं रूपं तस्माच्छ्रुतवानार्यश्रावकः अतीते रूपे ऽनपेक्षो भवति" इति विस्तरः ।
तथोक्तम्- यच्छारिपुत्र कर्माभ्यतीतं क्षीणंनिरुद्धं विगतं विपरिणतं तदस्तीति । तच्चेत् कर्म शारिपुत्र नाभविष्यन्नेहैकतीयस्तद्धेतोः तत्प्रत्ययादपाय दुर्गतिविनिपातं कायस्य भेदान्नरकेषूपपत्स्यते" इति विस्तरः । ( जैनि_266 ) तदाहितचित्तभावनां सन्धाय वचनाददोष इति चेत् । न । उक्तोत्तरत्वात् । उक्तोत्तरो ह्येष वादः । किं तिलपीडकवत्पुनरावर्तसे ?
किञ्च, भावनाभाव्यमानचित्तयोः स्वरूपशक्तिक्रियानुपपत्तेः पुष्टवासिततैलवत्, अन्यानन्यत्वादिवक्ष्यमाणदोषाच्च ।
परमार्थशून्यतासूत्रादसदिति चेत् । न । तदर्थापरिज्ञानात् । तत एवानागताद्यस्तित्वसिद्धेश्च । तत्रैतत् स्यात्- परमार्थशून्यता सूत्रे भगवता ( जैनि_267 ) विस्पष्टमनागतादिनास्तित्वं प्रदर्शितम् । तत्र ह्यक्तम्- "चक्षुरूत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचित्संनिचयं गच्छति" इति विस्तरः । अतीतानागतसद्भावे चागतिगतिदोषाभ्युपगमः प्राप्नोतीति ।
एतच्च न । कुतः ? सूत्रार्थापरिज्ञानात् । अत एवानागताद्यस्तित्वसिद्धेश्च ।
सूत्रस्य तावदयमर्थः । यदुक्तम्- "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचित्संनिचयं गच्छति" इति तद्वेदोक्तवादविधिप्रतिषेधार्थं सांख्यमतव्युदासार्थं च ।
वेदे ह्यक्तम्- "पञ्चत्वमापद्यमानस्य चक्षुरादित्यादागतं पुनस्तत्रैव प्रतिविगच्छति । श्रोत्रमाकाशम् । घ्राणं पृथिवीम् । जिह्वा आपः । कायो वायुम् । मनः सलिलं सोममित्यर्थः ।" तत्प्रतिषेधार्थं भगवानवोचत्- "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति" इति विस्तरः ।
सांख्याः खल्वप्याचक्षते- "चक्षुष्प्रधानादागच्छति तत्रैव च पुनर्विगच्छति" इति । तन्निरासार्थ च भगवानवोचत्- "चक्षरुत्पद्यमानं न कुतश्चिदागच्छति ।" अदेशप्रदेशस्थाः खल्वनागतातीतपरमाण्वविज्ञप्तिसंज्ञिता धर्माः इति तदागमनगमनानुपपत्तिः ।
कस्तर्हि वाक्यार्थ ।- "अभूत्वा भवति । भूत्वा च प्रतिविगच्छति" इति ? द्विविधं हि चक्षुर्द्रव्यसदेव परमार्थसतो यदप्रबुद्धमुभयम्(?) । अन्यत्प्रबुद्धमनु(- द्धमु ?)पात्तक्रियम् । पूर्वं तद्धेतून्प्रतीत्य क्रियामुपादत्ते प्रबुध्यत इत्यर्थः । उपात्तक्रियं च द्वितीयम् । तद्धि क्रियामुज्झत्प्रतिविगच्छतीत्युक्तं भवति ।
सांख्यमतनिषेधार्थं वा । सांख्यानां खल्वेकं कारणं नित्यं स्वां जातिमजहत्तेन तेन विकारविशेषात्मना भूत्वा भूत्वान्येनान्येन कार्यविशेषात्मना परिणमतीति । तत्प्रतिषेधार्थं भगवानवोचत्- "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुध्यमानं न क्वचित्संनिचयं गच्छति" इति । चक्षुरभूत्वा वर्तमाने ऽध्वनि क्षणमात्रं क्रियारूपमादय त्यक्त्वा पुनरदर्शनं गच्छति ।
किञ्चान्यत्, अत एवानागतास्तित्वसिद्धेः । यदुक्तमस्मिन्नेव सूत्रे चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति" इत्यत्रैतदादर्शितम् । सदिदं चक्षुरन्तरङ्गबहिरङ्गकारणसामग्रीसन्निधानोपाधिवशेन क्रियामुपाददानं न कुतश्चिदागच्छति । कुतः पुनस्तत्सत्त्वमिति चेत् । मुख्यसत्ताविष्टे कर्तरि शानचोविधानान्निरुध्यमानवदिति । तस्माद् दुर्विहितवेताडोत्थानवत् सौत्रान्तिकैः स्वपक्षोपघाताय सूत्रमेतदाश्रीयते ।
एवं तावदागमात्सिद्धमध्वत्रयास्तित्वम् ।
युक्तितो ऽपि- ऽधीनामगोचरत्वाच्च तत्सत्त्वं वर्तमानवत् ।ऽ; तदाकारया खलु बुद्ध्या यस्यार्थस्य स्वसामान्यलक्षणं परिच्छिद्यते, यश्च बुद्धोक्तनामकायधर्मकायाभ्यामभिद्योत्यते स परमार्थतो विद्यते । कथम् ? वर्तमानचक्षूरूपादिवत् । ज्ञानज्ञेयाभिधानाभिधेयसंबन्धः खल्वकृतकैति शिष्टाः प्रतिपद्यन्ते ॥
असदालम्बनापि बुद्धिरस्तीति चेत् । अत्रापदिश्यते-
नासदालम्बना बुद्धिरागमादुपपत्तितः ।
आगमस्तावत्- "चक्षुः प्रतीत्य रूपं चोत्पद्यते चक्षुर्विज्ञानं यावन्मनः प्रतीत्य धर्मांश्चोत्पद्यते मनोविज्ञानम् । एतावच्चैतत्सर्वमस्ति" इत्युक्तं भगवता । तत्र मनोविज्ञानं त्रैयध्विकासंस्कृतधर्मविषयायम, पञ्चविज्ञानकायाः प्रत्युत्पन्नपञ्चविषयालम्बनाः । न तु क्वचिदसदालम्बनमुक्तं नापि तदस्तीति तद्विषयबुद्ध्यभावः ।
तथोक्तम्- "यदुत लोके नास्ति तदहं द्रक्ष्यामि" इति विस्तरः । ( जैनि_270 )
तथा- "त्रयाणां सन्निपातः स्पर्शः । सहजाता वेदना" इति विस्तरः । एतेनाभिधानाभिधेयसंबन्धः प्रत्युक्तः । तदेवं सति सूत्रे ऽस्मिन्मध्यमाप्रतिपत्प्रदर्शिता । यदुत- केनचित्प्रकारेण शून्याः संस्काराः मिथ्यापरिकल्पितेन पुरुषालयविज्ञानाभूतपरिकल्पादिना । केनचिदशून्याः, यदुत- स्वलक्षणसामान्यलक्षणाभ्यामिति । यथा कात्यायन सूत्रे- "लोकसमुदयं ज्ञात्वा या लोके नास्ति ता सा न भवति । लोकनिरोधं ज्ञात्वा या लोके ऽस्ति ता सा न भवति इतीमौ द्वावन्तौ परित्यज्य मध्यमया प्रतिपदा तथागतो धर्मं देशयति ।" न चैतद् द्व यमस्तिनास्तित्वाख्यमेकाधिकरणं विरोधादुपपद्यते न च निरधिष्ठानम् । नापि खपुष्पशून्याधिष्ठितम् ।
युक्तिरपि । ज्ञानज्ञेयाभिधानाभिधेयसंबन्धस्याकृतकत्वात् । नास्तिशशविषाणमित्यस्य ज्ञानस्याभिधानस्य चासद्विषयत्वमिति चेत् । तत्र ब्रूमः-
अन्यापेक्ष्ये ऽथ संबन्धप्र्तिषेधो ऽश्वशृङ्गयोः
यो ऽयं नास्ति शशविषाणादिप्रतिषेधो ऽस्य तर्हि किं प्रतिषेध्यम् ? यद्यसदालम्बना बुद्धिर्नास्त्यभिधानं वा निरभेधेयमिति ? अत्रापदिश्यते । ऽअन्यापेक्ष्ये ऽथ संबन्धप्रतिषेधः ।ऽ; कार्यकारणादिस्त्रिविधः संबन्धो ऽत्र गोविषाणादिषु पूर्वदृष्टः शशविषाणादिषु प्रतिषिद्ध्यते । शशशिरोमात्रकाकाशधातुसंबन्धदर्शनाद्यदि शशशिरस्यपि विषाणम विष्यत्तद्वदेवोपलप्स्यत । न चोपलभ्यते । तस्मात्संबन्धान्तरापेक्षं शशविषाणशब्दगडुमात्रं नञा संबन्ध्यन्तरसंबन्धबुद्ध्यपेक्षेणावद्योत्यते, न तु किञ्चिदभिधानमभिधेयं वा प्रतिषेध्यात्मना श्रीयत इति सिद्धं सर्वा बुद्धिः सद्विषयेति ।
एतेनाजातं ध्वस्तं च गोविषाणं प्रत्युक्तम् । गोशिरोमात्रमाकाशधातुवेष्टितं दृष्ट्वा जनिष्यते ध्वस्तं वा गोविषाणमिति द्रष्टव्यम् ।
त्रयोदशायतनप्रतिषेधबुद्धिविषयाद् अस्तित्वादसदालम्बना बुद्धिरस्तीति चेत् । न । भगवतैव वाग्वस्तुमात्रमेतदिति निर्णीतत्वात् । उक्तं हि भगवता हस्ततालोपमे सूत्रे- "एतावत्सर्वं यदुत चक्षू रूपं च यावन्मनो धर्मांश्च । यः कश्चिदेतद् द्वय प्रत्याख्यायान्यद् द्वयं ज्ञेयमभिधेयं वा ( जैनि_272 ) कल्पयेत् वाग्वस्तुमात्रमेवास्य स्यात् । पृष्टो वा न संप्रजानीयादुत्तरे वा संमोहमापद्येत । यथापि तदविषयत्वात् ।" इति ।
किञ्च, अस्तिशशविषाणाभिधानाभिधेयवन्नास्त्युक्तिरपि वाग्वस्तुमात्रं विषाणाख्याभिधेयार्थसंबन्धविहीनम् । एतेन षष्ठः स्कन्धः प्रत्युक्तः । किञ्च, पञ्चस्कन्धविषयविपरीतज्ञानप्रतिषेधात् । अलातचक्रबुद्धिप्रतिषेधवत्, द्विचन्द्रबुद्धिप्रतिषेधवच्च । उक्तं हि भगवता- "ये केचिदात्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धान्समनुपश्यन्तः समनुपश्यन्ति" इति स्कन्धविषये चैषा नित्यात्मद्रव्यभ्रान्तिरित्यवद्योत्यते ।
किञ्च, नञः सदसत्प्रतिषेध्यविषयत्वानुपपत्तेश्च । सन्तं तावदर्थं न प्रतिषेद्धुम् समर्थः । यदि हि सन्तमर्थं शक्नुयात्प्रतिषेद्धुं न राजानो हस्त्यश्वं बिभृयुर्न सन्ति दस्यव इत्येवं ब्रूयुः । इत्युक्ते दस्यूनामभावः स्यात् । न चैतदस्ति । अथासन्तं प्रतिषेधयति, तेनाभावप्रतिषेधाद्भाव एव स्यादिति । तस्मान्नञो न गोविषाणादिः नापि शशविषाणादिः प्रतिषिध्यते । किं तर्हि । शशाकाशधातुसंबन्धबुद्ध्यपेक्षेण गोविषाणादिद्रव्यासंबन्धबुद्धयो ऽवद्योत्यन्ते । सिद्धा सदालम्बनैव बुद्धिः । एवमन्यत्रापि ।
रूपादौ वस्तुनि क्षीणे सत्येवोत्पद्यते मतिः ।
सा ज्ञानस्यासनाकारा शास्तुस्तथान्यचित्तवत्
रूपादौ खल्वपिवस्तुन्यभ्यतीते सत्येव बुद्धिरुत्पद्यते । न ह्यसदालम्बना बुद्धिरुत्पद्यते । सदालम्बना बुद्धिरस्तीत्युपपादितम् । न च नो द्रव्यं विनश्यतीत्युक्तम् । यदेतद रूपादिद्रव्यं पूर्वानुभूतं तदेव तत्स्मृत्या गृह्यत इत्युपरिष्टादपि साधयिष्यामः ।
या तर्हि निरुद्धदेवदत्तानुस्मृतिर्धटानुस्मृतिर्वा सा कथं जायते ? अतीतानाग तयोर्देवदत्तघटप्रज्ञप्त्युपादानयोरिति । अत्र ब्रूमः । सापि खलु साविद्यास्यासदाकारोत्पद्यते स्थाण्वादौ पुरुषादिबुद्धिवत् । निरविद्यस्य तु शास्तुस्तत्त्वाकारा भवति रूपादिधर्ममात्रबुद्धिरेव । ( जैनि_273 ) तद्यथा परचित्तविदः स्वलक्षणाकारा बुद्धिरुत्पद्यते । तत्सामर्थ्योपाधिवशेनान्यथापि जानीते । तद्वत्तत्सामर्थ्येण भाविनीं भूतां च संज्ञां रूपादिषु देवदत्तघटलक्षणां प्रतिपद्यत इति ॥
इतश्च सदतीतानागतम्-
हर्षोत्पादभयोद्वेगस्मृत्युत्पत्त्यङ्गभावतः ।
अतीतानागतं हि मित्रममित्रं वा मनसि कृत्वा हर्षोत्पादभयादयो ऽभ्युपजायन्ते । ते चानिमित्ता न भवितुमर्हन्ति । कथम् ? वर्तमानवत् । । तद्यथा सति वर्तमाने मित्रे ऽमित्रे वा हर्षभयादयो भवन्ति नासतीति तद्वत् ।
किञ्च,
साङ्गस्य शक्त्यभिव्यक्तेः सदीपघटरूपवत्
विद्यमानस्य खल्वनागतस्य वस्तुनो ऽतीतप्रत्युत्पन्नसहकारिकारणसामग्रीगृहीतस्य शक्तिमात्रमाविर्भवति । कथम् ? ऽसदीपघटरूपवत् ।ऽ; तद्यथा तमसि विद्यमानस्य घटरूपस्य स्वात्मोद्भावनशक्तिः प्रदीपादिकारणसामग्रीसन्निधाने सति भवति तद्वदिति । इतश्चास्त्यनागतम् ॥
जनीहाकर्तृ साध्यत्वात्पञ्चभावविकारवत् ।
तद्यथा अस्ति विपरिणमते वर्धते क्षीयते विनश्यतीति सति मुख्यसत्ताविष्टे कर्तरि एते पञ्च भावविकारा भवन्ति । तद्वज्जायत इत्ययमपि षष्ठः भावविकारः सति मुख्याविष्टे कर्तरि भवितुमर्हतीति । किञ्च जायमानता सत्ता नश्यता नासामानाधिकरण्ये सत्यनन्यतापत्तिसङ्करदोषप्रसङ्गात् । वैयधिकरण्याभ्युपगमे संबन्धाभावादेकत्र तद्व्यपदेशानुपपत्तिः । किञ्च, जायमानतादिक्रियाभावे ऽस्तित्वायोगात् । कथम् ? शशविषाणवदिति । उपचारसत्तेति चेत् । न । मुख्यसत्तायां सत्यामुपचारसद्भावात्, वक्ष्यमाणदोषाच्च ।
इतश्चास्ति-
सतः क्रियाङ्गतादृष्टेर्विकार्यप्राप्यकर्मवत्
तद्यथा विकार्ये कर्मणि सति करणं दृष्टं काशात्कटी करोति । प्राप्ये च कर्मणि सति ग्रामं गच्छति देवदत्तः सूर्यं च पश्यतीति गमनदृशिक्रिये सति कर्मणि भवतः । तद्वन्निर्वर्त्ये ऽपि कर्मणि मुख्यद्रव्यास्तित्वे सति देवदत्तकर्तृका घटक्रियोपपद्यत इति ॥
सांख्यः पश्यति- विद्यमानमेव जायते । तद्यथा क्षीरे विद्यमानं दधि, कार्यकारणयोरेकत्वात् । तं प्रत्यपदिश्यते-
द्वितीयं जन्म जातस्य वस्तुनो नोपपद्यते ।
यदि खलु क्षीरे दध्यादयो विकाराः सन्ति बीजे चाङ्कुरादयः शुक्रशोणिते च कललादयः, तेषां जातानां क्षीरादिवज्जन्म पुनर्न युज्यते । यथा च न युज्यते तथा पूर्वमेवाविष्कृतम् ।
वैशेषिको मन्यते- कपालेष्वविद्यमानं घटद्रव्यं तन्तुषु चाविद्यमानं पटद्रव्यं कपालतन्तुसंयोगादुत्पद्यते । गौण्या च कल्पनया विप्रकृता(ष्टा ?)वस्थाविषया जनिकर्तृ सत्ता व्यपदिश्यत इति । अस्याप्यवयविद्रव्यं सहावयवैः पूर्वमेव विहितोत्तरम् । यत्पुनरुक्तमुपचारसत्तया जनिकर्तोपदिश्यत इत्यत्र ब्रूमः-
मुख्यसत्ता गुणाभावाद्गौणी सत्ता न विद्यते
न हि मुख्यसत्तायां गुणाभावे ऽवयवाभावे वा कारणेषु प्रागुत्पत्त्यभावे वा कार्यसत्तोपचारो युज्यते ॥
कस्मात् ?
साधर्म्ये सति तद्वृत्तेर्व्याहारं मधुरोक्तिवत् ।
तद्यथा मधुरवाग्देवदत्त इति वाचि माधुर्यगुणयुक्तस्य गुडद्रव्यस्य मधुनो वा साधर्म्यमभिलषणीयता विद्यते इत्यतो वाचि माधुर्यशब्दः प्रयुज्यते । कन्यामुखे च चन्द्रकान्तिसादृश्यं दृष्ट्वा चन्द्रशब्दः प्रयुज्यते । वाहीके च जाड्यसाधर्म्याद्गोशब्दः प्रयुज्यते- गौरयं वाहीक इत्येवमादि । न च तथा कश्चिदगुणावयवगन्धो ऽपि तन्तुषु तत्संयोगे वा प्रागुत्पत्त्यभावे निरात्मनः कार्यस्यास्तीति । न च कार्यं किञ्चिदीषत्कृतमुपपद्यते । निष्ठासत्तैककालाभ्युपगमात् । प्रागव्यपदेश्यं वस्तुमात्रं विप्रकृतं जायत इति चेत् । न । उक्तोत्तरत्वात् । मम तु चन्द्रकोटीप्रकाशलक्षणो दृष्टान्तो विद्यते ।
आविष्टलिङ्गमुख्यस्य जन्मेष्टं दारकादिवत्
अयं हि जनिरभिनिष्क्रमणादिवचनो नासत्प्रादुर्भाववचनः । कथम् ? ऽदारकादिवत्ऽ; । तद्यथा दारको मुख्यसत्ताविष्टो मातृकुक्षेर्निष्क्रमणे जायत इत्युच्यते । तद्वदत्रापीति ।
दार्ष्टान्तिकः खलु ब्रूते- कारणशक्तिषु निरात्मकजनिकर्त्रुपचारः प्रवर्तते । तं प्रति ब्रूमः-
स्यात्खपुष्पैः खमुत्फुल्लं स्याञ्जटालश्च दर्दुरः ।
स्वभावो यदि भावनां प्रागभूत्वा समुद्भवेत्
न ह्यसतः कस्यचिच्छशविषाणादेरुत्पादो भवति नैरात्म्याविशेषसर्वासदुत्पत्तिप्रसङ्गात् । ( जैनि_275 ) तद्धेतुकानां च जायमानजातनश्यत्कालेष्वात्मास्तित्वस्थितशक्तीनामनुपपत्तेः । कारणानां च कार्यात्मकत्वात् प्रागुत्पत्तेरसत्त्वम्, असत्त्वादनुपपत्तिदोषापत्तिः । कुतश्च नाभावो भावीभवति ? स्थितिशक्तिक्रियायोगात् ॥
कथमयोग इति चेत् । तदाविष्क्रियते-
स्थितिशक्तिपरित्यक्तान्धर्मान्नाशान्वितोदयान् ।
वद सोम्य कथं याति प्रतीत्या वस्तु वस्तुताम्
इह खलु भवतामहेतुको विनाशः सर्वोत्पत्तिमतां नित्यसंनिहितः । तस्मिंश्च सति जन्मस्थितिशक्तिक्रिया न विद्यन्ते, विरोधात् । तास्वसतीषु कारणमपि चैव विनष्टम् । तदस्मिन्नसति किं प्रतीत्य असन्निरात्मकं वस्तु वस्तुतां यातीत्याचक्ष्व । कथं ते कार्यं कारणं वोपपद्यते ? सतां हि संज्ञासंज्ञिज्ञानज्ञेयक्रियाकारणहेतुफलादीनामन्योन्यापेक्षप्रज्ञप्तेः । अथ तवाभावो न कश्चिदस्ति भावविरोधी, कथं तर्हि स भावो नष्ट इत्युच्यते ? तस्माद्भवतो वाङ्मात्रमेतत्, मम तु विद्यमानयोरेवोपकार्युपकारकभावो युक्तः ।
यस्मात्-
लोके दृष्टः सतोरेव परस्परमनुग्रहः ।
तद्वदेवोपघातो ऽपि नाश्वशृङ्गाहिपादयोः
अनुग्रहोपघातयोश्च कार्यकारणसंबन्धोपचारश्च सतोरेव भवतीत्यास्तनन्धयेभ्यः प्रसिद्धमेतत्, नासतोः न च सदसतोरिति ॥
वैतुलिकः कल्पयति-
यत्प्रतीत्यसमुत्पन्नं तत्स्वभावान्न विद्यते ।
यत्खलु निस्वभावं निरात्मकं हेतून्प्रतीत्य जायते तस्य खलु स्वभावो नास्ति । न हि तत्कारणेषु प्रत्येकमवस्थितं नापि भागशो नाप्यन्यत्र क्वचित् । नापि हेतुसमुदाये तद्रूपाभावात् । यच्च न क्वचिदस्ति तत्कतमेन स्वभावेनोत्पत्स्यत इति नास्ति स्वभावः । यस्य च नास्ति स्वभावः तत्कथमस्तीत्युच्यते ? तस्मादलातचक्रवन्निस्वभावत्वात् सर्वधर्मा निरात्मान इति ।
तं प्रत्यपदिश्यते-
न विद्यते स्वभावाद्यद्विद्यते तत्ततो ऽन्यथा
ब्रह्मोद्यमेतत्- यत्प्रतीत्यसमुत्पन्नं तत्संवृत्यात्मना विद्यते वनसंघादिवत् । यत्परमार्थतो विद्यते तरय प्रतीत्यावस्थाशक्तिमूर्तिक्रियादिमात्रमुत्पद्यत इति ॥
तस्य तर्हि हेतवो विद्यमानस्य कमुपकारं कुर्वन्तीति ? अत्राभिधीयते । न खलु द्रव्यस्वभावास्तित्वं प्रति कञ्चिदुपकारं कुर्वन्ति । न च स्वभावस्यापेक्ष्य प्रज्ञप्तिः । किं तर्हि ?
प्रकुर्वन्ति दशामात्रं हेतवो वस्तुनः सतः ।
राजत्वं राजपुत्रस्य सात्मकस्यैव मन्त्रिणः
तद्यथाभिजातस्य राजपुत्रस्य विद्यमानस्य मन्त्रिणः सबलसमुदयाः परिग्रहानुग्रहमात्रेणोपकुर्वन्तो राजत्वं कुर्वन्त्येवमनागतस्य वस्तुनः सतो हेतुप्रत्ययाः समेत्य लक्षणमात्रं वर्तमानाख्यमैश्वर्याधिपत्यं कुर्वन्तीत्यवबोद्धव्यम् ॥
अन्ये पुनर्वर्णयन्ति-
धर्माणां सति सामग्र्ये सामर्थ्यमुपजायते ।
चितानां परमाणूनां यद्वदात्मोपलम्भने
यथा खलु परमाणुसंचयश्चक्षुषा गृह्यते, प्रत्येकं परमाणवो न गृह्यन्ते, तथा कारणसामग्र्ये सति धर्माणां क्रियासामर्थ्यमुपजायत इति द्रष्टव्यम् ।
भदन्तकुमारलातः पश्यति- वातायनप्रविष्टस्यान्तःपार्श्वद्वये ऽपि त्रुटयः सन्ति । रश्मिगतस्य तु दर्शनमस्य त्रुटे रश्मिपार्श्वगास्त्वनुमेयाः । एतेन व्याख्यातं धर्माणामध्वयोर्द्वयोरस्तित्वम् । प्राप्य ज्ञानातिशयं मुनयः पश्यन्ति, तास्तु धीर्हि त्रिकजा ॥
यस्तु मन्यते ऽतीतं कर्माभावीभवत्यनागतं च न विद्यते तं प्रत्यपदिश्यते-
कर्मातीतमसद्यस्य फलं भावि करोत्यसत् ।
व्यक्तं वन्ध्यासुतस्तस्य जायते व्यन्तरात्मजात्
न हि भवतो वर्तमानकालास्तित्वमुपपद्यते, अतीतानागतहेतुफलाभावात्, वन्ध्याव्यन्तरपुत्रजन्मवत् ॥
अत्र प्रत्यवतिष्ठन्ते दार्ष्टान्तिकाः- न ब्रूमः सर्वथातीतं न विद्यते । किं तर्हि ? द्रव्यात्मना न विद्यते प्रज्ञप्त्यात्मना तु सदिति । तत्र प्रतिसमाधीयते-
नामसल्लक्षणाभावाद् द्रव्यसत्याङ्कसिद्धितः ।
अनागताभ्यतीतस्य नास्ति प्रज्ञप्तिसत्यता
सोपादानं हि सर्वं प्रज्ञप्तिसत् । न च वर्तमानमुपादानमुपपद्यते । अनागताभ्यतीतस्य तस्मान्निरुपादानस्य प्रज्ञप्त्यभावादसदेतत् ।
यदि तर्ह्यनागतं चक्षुरादिद्रव्यं विद्यते कस्मान्न पश्यति न दृश्यते न विजानाति ? न व्यक्तं कारित्राभावादिति ॥
तदत्र कोशकारः प्रश्नयति-
को विघ्नः
यदि चक्षुर्विद्यते किं न पश्यति ? वयं ब्रूमः-
अङ्गवैकल्यम्
दृष्टं हि प्रदीपाद्यङ्गवैकल्ये वर्तमानस्यापि चक्षुषो रूपादर्शनम् ।
स प्रत्याचष्टे- सर्वस्य सदास्तित्वे कुतो ऽङ्गवैकल्यम् ? वयमाचक्ष्महे-
न तत्सर्वास्तिता सदा ।
त्रैयध्विकानि खल्वत्राङ्गानि विवक्षितानि । तत्र केषाञ्चिदसांनिध्यं भवति तद्वैकल्यात्कारित्रं न करोतीति ।
स प्रत्याचष्टे-
तत्कथं
किं लक्षणात्कारित्रं ततो वा द्रव्यात्, किमन्यदाहोस्विदनन्यदिति ? तत्र वयं प्रतिवद्मः-
श्रूयतां सद्भ्यः
छात्रासनमध्यास्य न हि सर्वज्ञप्रवचनगाम्भीर्यं सदेवकेनापि लोकेन शक्यं तर्कमात्रेणावबोद्धुम् । यस्मात्सोम्य-
दुर्बोधा खलु धर्मता
मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0