भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 281-300

281

अत्र पुनः
नवोर्ध्वधातुकास्तेषामाद्या दृष्टिद्वयादृते ।
सत्कायान्तर्ग्राहदृष्टी हित्वान्ये नव विसभागधातुसर्वत्रगाः ।
किं पुनरनुशया एव सर्वत्रगाः ? नेत्याह । किं तर्हि ?
तेषां सहभुवो धर्माः प्राप्तिवर्ज्याश्च सर्वगाः

282

ये सर्वत्रगानुशयसहभुवो वेदनादयो धर्माः, जात्यादयश्च ते ऽपि सर्वत्रगास्तदेकफलत्वात् ॥
तेषां पुनरष्टानवतीनामनुशयानां कति सास्रवालम्बनाः कत्यनास्रवालम्बनाः ? तदारभ्यते-
काङ्क्षामिथ्यादृगाभ्यां च मिश्राविद्याथ केवला ।
निरोधमार्गदृग्घेयाः षडेते निर्मलेक्षिणः

283

निरोधमार्गदर्शनहेया मिथ्यादृष्टिविचिकित्सा तत्संप्रयुक्ता चाविद्या सहावेणिक्याविद्यया । इत्येते धातौ धातौ षडनुशया अनास्रवालम्बनाः । शेषाः सास्रवालम्बनाः ॥
अथैते निर्मलालम्बनाः कति कत्युपरममालम्ब्यन्ते, कति भूमिप्रतिपक्षं च ? तदुच्यते-
स्वभूमेरेव निर्वाणं मार्गस्थन्नवभूमिकः ।
तद्दृश्यविषयो ऽन्यो ऽन्यो हेतुत्वाद्धेतुभावतः

284

स्वभूमिनिरोध एव निरोधालम्बनानां मिथ्यादृष्ट्यादीनामालम्बनम् । कामावचराणां कामावचरनिरोधः । एवं यावद्भवाग्रभूमिकानां भवाग्रस्यैव । मार्गालम्बनानां तु कामावचराणां सर्व एव स्वभूमिकाः क्लेशाः मार्ग आलम्बनम् । यो ऽप्यसौ रूपारूप्यप्रतिपक्षः, रूपारूप्यावचराणामप्यष्टमूमिकानां मिथ्यादृष्ट्यादीनां नवभूमि- को ऽन्वयज्ञानपक्ष्यो मार्ग आलम्बनः । किं पुनः कारणं मिथ्यादृष्ट्या निरोधः परिच्छिन्न आलम्ब्यते, न मार्गेण ? तदुच्यते । ऽहेतुत्वाद्धेतुभावतश्च ।ऽ; मार्गो हि परस्परहेतुकः, न तु निरोध इत्यस्ति विशेषः ॥
अथ कस्माद्रागप्रतिघमाना दृष्टिशीलव्रतपरामर्शो च नानास्रवालम्बना इष्यन्ते ? तत्रापदिष्यते-
न रागः शक्त्यहेतुत्वान्न द्वेषो ऽनपराधतः ।
नमानो ऽतिप्रशान्तत्वान्न भावत्वाद् दृशो ऽपराः

285

तत्र रागस्तावद्यद्यनास्रवालम्बनः स्यान्निर्वाणाभिलाषप्रवृत्तत्वात्कुशलधर्मच्छन्दवत्, न योगिनां वर्जनीयः स्यात् । द्वेषो ऽप्यपकारवस्तुन्युत्पद्यते, मोक्षस्तु सर्वदुःखोपरमादुपकारी । मानो ऽप्यप्रशान्तत्वादुन्नतिलक्षणः, निर्मलास्तु धर्मास्तदपघातिनः । परामर्शी च यद्यनास्रवालम्बनौ स्यातां सम्यग्दृष्टित्वं प्रतिपद्येयाताम् । तस्मात्पूर्वोक्ता एवानुशया निर्मलगोचराः ॥
अथैतेषामष्टानवतेरनुशयानां कत्यालम्बनतो ऽनुशेरते कति संप्रयोगतः ?
सर्वगो ऽनुशयः कृत्स्नामनुशेते स्वधातुगः ।
स्वामालम्बनतो भूमिं स्वनिकायं त्वसर्वगः

286

द्विविधाः खलु सर्वगाः । स्वधातुभूमिसर्वगाः, विसभागधातुभूमिसर्वगाश्च । असर्वगा अपि द्विविधाः । सास्रवालम्बनाः, अनास्रवालम्बनाश्च । तत्र ते ये ऽनुशयाः स्वधातुभूमिसर्वत्रगास्ते सकलामेव पञ्चप्रकारां स्वधातुभूमिमालम्बनतो ऽनुशेरते । ये त्वसर्वत्रगाः सास्रवालम्बनास्ते स्वभूमौ स्वनिकायमालम्बनतो ऽनुशेरते । दुःखदर्शनप्रहातव्याः दुःखदर्शन प्रहातव्यमेव निकायं यावद्भावनाप्रहातव्या भावनाप्रहातव्यमेवेति ॥
आलम्बनतश्च
अस्वीकाराद्विपक्षत्वान्नोर्ध्वभूमार्गगोचरः ।
आलम्बनतो ऽनुशेरत इति वर्तते । किं कारणम् ? अन्यभूमिकस्यानास्रवस्य च वस्तुनः ऽअस्वीकाराद्विपक्षत्वाऽच्च । आत्मदृष्टितृष्णाभ्यां हि स्वीकृते वस्तुन्यनुशयो ऽनुशयितुमुत्सहते । अनास्रवे तु वस्तुन्यूर्ध्वभूमिके च प्रवृत्तिरेव सत्कायदृष्टितृष्णयोर्नास्तीति न तत्रानुशेरते ।
संप्रयोगिणि तु स्वस्मिन्नहीने संप्रयोगतः

287

अनुशेरत इत्यधिकृतम् । यो येन धर्मेणानुशयः संप्रयुक्तः स तस्मिन्संप्रयोगिणि संप्रयोगतो ऽनुशेरते यावदप्रहीणो भवतीति ऽतुऽ; शब्दो विशिनष्टि । ततश्चेदमपि सिद्धं भवति- अनास्रवालम्बना विसभागधातुभूम्यालम्बनाश्च संप्रयोगत एवानुशेरते । सास्रवालम्बनाः स्वभूमावालम्बनतः संप्रयोगतश्चेति ॥
कुतः पुनरेते ऽनुशया उच्यन्ते ? तदुच्यते । प्रागाविष्कृतमेतत्प्रसङ्गागतं न तु सूत्रितमिति । तदिदानीं सूत्रगतं प्रदर्श्यते ।
धात्रीवस्त्रमलन्यायैः खचराम्बुचरक्रमैः ।
एते ऽनुशेरते यस्मात्तस्मादनुशयाः स्मृताः

288

इतश्च,
स्वैरिष्टादिभिराकारैः परमाणुक्षणेष्वपि ।
यतो ऽनुशेरते चैते ततश्चानुशया मताः

289

तत्र रागस्तावदिष्टाकारेण खण्डक्षीरभक्षणवत् । द्वेषस्त्वनिष्टाकारेण काञ्जिककोद्रवौदनभक्षणवदित्येवमादि । परमाणुषु क्षणेषु च सूक्ष्मेष्वेकेष्वप्यनुशेरत इत्यनुशयाः । निरुक्तन्यायेन पूर्वं वा प्राप्तिमुत्सृज्य पश्चात्समुदाचारतो ऽनुशेरत इत्यनुशयाः । अन्यत् पूर्वमेव व्याख्यातमिति ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः ॥
पञ्चमाध्याये
द्वितीयपादः ।
अथैषामष्टानवतेरनुशयानां कत्यकुशलाः कत्यव्याकृताः ? तदारभ्यते-
आद्यं दृष्टिद्वयं कामे निवृताव्याकृतं मतम् ।
धातुद्वये तु सर्वे ऽपि निवृताव्याकृता मलाः

290

कामधातौ तावत् । सत्कायान्तर्ग्राहदृष्टी तत्संप्रयुक्ताविद्ये निवृताव्याकृते । सत्कायदृष्टिस्तावद्दानशीलभावनाभिरविरुद्धत्वात्कुशलमूलसमुच्छेदवैरोधिकत्वाच्च नाकुशला । विपरीताकारत्वान्न कुशला । तृष्णावदकुशलेति चेत् । न । तृष्णाप्रकर्षे सर्वाकार्यप्रवृत्तिदर्शना त् । अन्तर्ग्राहदृष्टिरपि जन्मोच्छेदप्रवृत्तत्वान्निर्वाणविरोधिनी संवेगानुकूला चेति नाकुशला । यथोक्तं भगवता- "येयं दृष्टिः सर्वं मे न क्षमत इतीयं दृष्टिरसंरागाय न संरागाय" इति । तथोक्तम्- इदमग्र्यं बाह्यकानां दृष्टिकृतानां यदुत नो च स्यान्न च मे स्यान्न भविष्यामि न मे भविष्यति" इति । रूपारूप्यधात्वोः ( जैनि_246 ) ऽसर्वे ऽपि निवृताव्याकृता मलाः ।ऽ; समाधिसमापत्त्युपहतत्वात् न शक्नुवन्ति निवर्तयितुम् । कुशलास्तु धर्मा अव्याबाधफलत्वाद्विपाकं जनयितुमुत्सहन्ते ॥
कामेष्वकुशलाः शेषाः
सत्कायान्तर्ग्राहदृष्टितत्संप्रयुक्ताविद्यावर्जिताः क्लेशाः कामधातावकुशलाः, सव्याबाधफलनिर्वर्तकत्वात् ।
एभ्यः पुनः कत्यकुशलमूलानि कति नेति ? तदुच्यते-
रागद्वेषतमांस्यतः ।
त्रीण्येवाशुभमूलानि पञ्चकारणयोगतः

291

ये धर्मा अकुशलाश्चाकुशलमूलं च दर्शनभावनाहेयाश्च पञ्चप्रकाराश्च षड्विज्ञानकायिकाश्च त एवाकुशलमूलानीष्यन्ते ॥
किं पुनर्यथाकुशलानि अनुशयानां मूलानि सन्त्येवमव्याकृतानामपि सन्तीति ?
अव्याकृतद्वयस्यापि त्रीणि मूलानि तत्समाः ।
अविद्या धीश्च तृष्णा च न काङ्क्षामानदृष्टयः

292

"त्रीणि खल्वव्याकृतमूलानि, अव्याकृताविद्या तृष्णा प्रज्ञा" इति काश्मीराः । हेत्वर्थो हि मूलार्थः । अनिवृताव्याकृता च प्रज्ञा हेतुत्वेन वर्तत इत्यसावप्यव्याकृतमूलम् । विचिकित्सा नाव्याकृतमलम् । न च मानः ॥
चलत्वादूर्ध्ववृत्तित्वादव्यापित्वाद्यथाक्रमम् ।
चला हि विचिकित्सा प्रतिष्ठार्थश्चमूलार्थः । ऊर्ध्ववृत्तिरुन्नतलक्षणो मानः, अधोगमनवृत्तीनि च मूलानि । न चैतौ क्लेशौ षड्विज्ञानकायिकौ । तस्मादव्यापित्वान्न मूलेषु व्यवस्थाप्येते ।
अव्याकृताः तृष्णादृष्टिमानाविद्या इति बहिर्देशीयकाः, ध्यायिसूत्रोक्तेः । त्रयो हि ध्यायिनः- तृष्णादृष्टिमानोत्तरध्यायिभेदात् । सर्वे च ते ऽविद्यावशाद्भवन्तीति चत्वार्येव इति ।
एतच्च न ते । कस्मात् ?
सूत्रस्यार्थापरिज्ञानादहेतुर्ध्यायिचोदनात्

293

न खल्वेषा ध्यायित्रित्वचोदनाव्याकृतमूलनिर्देशपरा । किं परा तर्ह्येषा ? योगिनां विपत्तिध्यानाधिमोक्षव्यावृत्तिपरेति पूर्वोक्तमेव साधुः ॥
अथ यानि सूत्रे चतुर्दशाव्याकृतवस्तून्युक्तानि, किं तानि कुशलाकुशलपक्षाव्याकरणादव्याकृतवस्तूनि ? नेत्याह । किं तर्हि ? स्थापनीयत्वात् ।
प्रश्नव्याकरणान्याख्यच्चत्वारि वदतां वरः ।
शिष्याणां वादशिक्षार्थं स्थितीनां च चतुष्टयीम्

294

त्रीणि खलु कथावस्तून्यारभ्य चत्वारि व्याकरणान्यावबुध्य चतस्रश्च स्थितीरवगम्य विगृह्य सभायां पञ्चभिरवयवैः स्वपक्षं प्रतिष्ठाप्य वादः करणीयो नातो ऽन्यथा इत्यत्र विनिश्चयात् ॥
कानि पुनस्तानि चत्वारि व्याकरणानि ? काश्च ताश्चतस्रः स्थितयः ? तदवद्योत्यते-
एकांशाख्यं विभज्याख्यं पृच्छाख्यं स्थाप्यमेव च ।
मरणप्रसवोत्कर्षजीवद्रव्यान्यतादिवत्

295

तत्रैकांशव्याकरणम्- किं यः कश्चिज्जायते सर्वोसौ म्रियते? ओमिति वाच्यम् । अथ यः कश्चिन्म्रियते सर्वोसौ जायत इति ? विभज्य व्याकर्तव्यम्- क्षीणास्रवो न जायते ऽन्यः सर्वों जायते । किं मनुष्यो विशिष्टो ऽथ हीन इति ? परिपृच्छ्य व्याकर्तव्यम्- कानधिकृत्य पृच्छसि ? देवांस्तिर्यगादीन्वा ? यदि देवानारभ्य हीन इति वाच्यम् । अथ तिरश्चः श्रेष्ठ इति व्याकर्तव्यम् । किमन्यः स्कन्धेभ्यः पुरुषो वानन्य इति ? एष प्रश्नः स्थापनीयः, सदसतोरन्यानन्यत्वव्याकरणायोगात्, खपुष्पसौगन्ध्यदौर्गन्ध्यव्याकरणवत् ॥
स्थितयश्चतस्रो निर्दिश्यन्ते ।
स्थानवादित्वसंज्ञैका परिकल्पाह्वया परा ।
अन्या प्रतिपदाख्यान्या ज्ञानवादित्वसंज्ञिता

296

कश्चिद्धि वादी स्थानास्थाने संभवासंभवाख्ये संतिष्ठते कश्चिन्न संतिष्ठते । प्रथमः कथ्यः, द्वितीयस्त्वकथ्यः । परिकल्पे संतिष्ठते, यः परिकल्पिते दृष्टान्ते दार्ष्टान्तिकार्थे प्रसाधके संतिष्ठते, स च कथ्यो यो न सन्तिष्ठते सो ऽकथ्यः । एवं प्रतिपदि ज्ञानवादितायां यः सन्तिष्ठते स कथ्यते । यस्तु न संतिष्ठते स दुर्मतिरकथ्यते ।
इदमिदानीं वक्तव्यम् । अथ केनानुशयेन कस्मिन्वस्तुनि संयुक्तः ? तत्र तावद्वस्तु क्षेत्रवस्त्वादिपञ्चप्रकारम् । तदिह संयोगवस्त्वधिकृतं वेदितव्यम् । तद् द्विविधमाश्रयालम्बननैयम्येन प्रकारनैयम्येन च ।
तत्राश्रयालम्बननैयम्येन तावच्चक्षुर्विज्ञानकायिकैरनुशयैः, रूपेष्वालम्बनतः संयुक्तः । तत्संप्रयुक्तेषु संप्रयोगतः । ते च मनोधर्मायतने । एवं यावत्कायविज्ञानिकैर्यथाविषयमालम्बनतः, तत्संप्रयुक्तेषु संप्रयोगतः । मनोविज्ञानकायिकैर्द्वादशस्वायतनेष्वालम्बनतः । संप्रयुक्तेषु संप्रयोगतः । इत्याश्रयालम्बननियमः ।
प्रकारनैयम्येन तु दुःखदर्शनप्रहातव्यैः सर्वत्रगैः पञ्चसु निकायेष्वालम्बनतः संयुक्तः । तत्संप्रयुक्तेषु संप्रयोगतः । असर्वत्रगैस्तु स्वनैकायिकेष्वालम्बनतः । संप्रयुक्तेषु संप्रयोगतः । इत्येवं सर्वत्र यथासंभवं वक्तव्यम् ॥
अथेदानीमतीतानागतप्रत्युत्पन्ननैयम्येन कः पुद्गलः कस्मिन्वस्तुनि कतमेनानुशयेन संयुक्तः ? तदिदमुद्भाव्यते-
मानप्रतिघसंरागैर्वर्तमानो ऽज्झितक्रियैः ।
जाता यत्राप्रहीणाश्च संयुक्तस्तत्र वस्तुनि

297

एते हि मानप्रतिघरागाः स्वलक्षणक्लेशाः सद्वस्तुविषयत्वात् । सामान्यलक्षणक्लेशास्तु दृष्टिविचिकित्साद्याः । अत एते मानादयो ऽतीताः प्रत्युत्पन्नाश्च यस्मिन्वस्तुन्युत्पन्ना न च प्रहीणास्तस्मिन्वस्तुनि तैः संप्रयुक्तो वेदितव्यः । नह्येते सर्वस्य सर्वत्रोत्पद्यन्ते स्वलक्षणक्लेशत्वात् ॥
अजातैर्मानसैरेतैः सर्वत्रान्यैः स्वकाध्विकैः ।
सर्वत्राजैस्तथा शेषैः संयुक्ता स्कन्धसन्ततिः

298

यथा प्रहीणा इति वर्तते । यस्य खलु यो ऽतीतः क्लेशप्रकारः प्रहीणो ऽनागतो ऽपि । अतो ये मानरागदयो नागता न प्रहीणास्तैः सर्वस्मिंस्त्रैयध्विके वस्तुनि संयुक्तः । तदालम्बनानामुत्पत्तिसंभवान्मानसानां च त्रैयध्वविषयत्वात् । अतो ऽन्यै रागादिभिरनागतैरनागत एव वस्तुनि संयुक्तो ऽतीतैरतीत एव प्रत्युत्पन्नैः प्रत्युत्पन्न एव । मानसेभ्यो ह्यन्ये पञ्चविज्ञानकायिकाः । ततः सिद्धं भवत्यतीतप्रत्युत्पन्नैरपि मानसैरस्वाध्विके ऽपि वस्तुन्यप्रहीणैः संयुक्तः स्यान्न च केवलं मानसैरेवानागतैरेभिः सर्वत्र । किं तर्हि ? पञ्चविज्ञानकायिकैरपि । अनुत्पत्तिधर्मिकैस्तु पञ्चविज्ञानकायिकैः सर्वत्र त्रैयध्विकैर्वस्तुनि संयुक्तः, तद्विषयस्यातीतानागतप्रत्युत्पन्नत्वात् । सामान्यक्लेशैस्तु दृष्टिविचिकित्साविद्याख्यैस्त्रैयध्विकैरपि सर्वस्मिंस्त्रैयध्विके वस्तुनि संयुक्तः, तेषां सामान्यक्लेशत्वाद्यावदप्रहीणा इत्यनुवर्तते ।
कथं पुनर्गम्यते ऽतीतादिषु वस्तुषु रागादय उत्पद्यन्ते तैश्च तत्र संयुक्तो भवतीति ? सूत्रादेव हि । भगवतोक्तम्- "त्रयश्छन्दरागस्थानीया धर्माः । अतीताश्छन्दरागस्थानीया धर्माः, अनागतप्रत्युत्पन्नाः । अतीतांश्छन्दरागस्थानीयान्धर्मान्प्रतीत्योत्पद्यते च्छन्दः । उत्पन्ने च्छन्दे संप्रयुक्तस्तैर्धर्मैर्वक्तव्यो ( जैनि_254 ) न विसंयुक्तः ।" तथा- "यस्मिन् रूपे ऽतीतानागतप्रत्युत्पन्ने उत्पद्यते ऽनुनयो वा प्रतिघो वा ।" इत्येवमादि ।
कः पुनरत्र संयुज्यते ? यदा शून्याः सर्वसंस्काराः, नित्येन ध्रुवेण शाश्वतेनाविपरिणामधर्मेणात्मनात्मीयेन वा ? यथोक्तम्- "अस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान् प्रतिनिक्षिप्यान्यान् स्कन्धान् प्रतिसंदधातीत्यन्यत्र धर्मसंकेतात्" इति विस्तरः ।
तत्र प्रतिसमाधानम्- ऽसंयुक्ता स्कन्धसन्ततिः ।ऽ; स्कन्धसन्ततौ हि स्कन्धलक्षणसन्तानैकत्वाभिमानात्, संषृत्या सत्त्वसंज्ञप्तिरित्यदोषः ॥
त्रयात्पुनरेतस्मात्-
द्वयमेवात्र निष्पन्नं तृतीयं तूपचारतः ।
वस्तुसंयो नाख्यं द्वयं परमार्थतो विद्यते सत्त्वाख्यस्तु तृतीयो ऽर्थः संवृत्या विद्यत इति ।
कुतः पुनरेतद् द्वयं परमार्थतो विद्यते ? तदुच्यते-
सदसद्धेतुता यस्मान्मध्यस्थैश्च परिग्रहात्

299

शुभाशुभफलं कर्मनैयम्याद् गुणदोषफलनियम्यता । किञ्च, ऽमध्यस्थैश्च परिग्रहात् ।ऽ; मध्यस्था उच्यन्ते वीतक्लेशाः । तैः शुभं च शुभतो ऽशुभं चाशुभतः, गुणाश्च गुणतः दोषाश्च दोषतः परिगृहीतः । तत्फलं चेष्टमिष्टतः परिगृहीतमनिष्टं चानिष्टतः । इति सिद्धं द्वयं परिनिष्पन्नं तृतीयं तूपचारत इति ।
युक्तं तावदिदम् । यदिदं प्रत्युक्तं वस्तुहेतुप्रत्ययात्प्रतीत्योत्पन्नं परमार्थतो विद्यते प्रत्यात्मवेदनीयत्वात्, तदालम्बनाश्च रागादयः द्रव्यतः सन्तीति । यत्पुनरिदमुक्तमतीतानागते वस्तुनि त्रैयध्विकैरनुशयैः संयुक्त इति तदेतत्साहसमाहोपुरुषिकमात्रम् । कः पुनरेतदतीतानागतादि द्रव्यतो ऽभिवाञ्च्छतीत्याहाभिधार्मिकाः ॥
चत्वारः खल्विह प्रवचने वादिनः । कतमे चत्वारः ? तदपदिश्यते-
सर्वमस्ति प्रदेशो ऽस्ति सर्वं नास्तीति चापरः ।
अव्याकृतास्तिवादीति चत्वारो वादिनः स्मृताः

300

तत्र सर्वास्तिवादस्याध्वत्रयमस्ति स ध्रुवत्रयमिति । विभज्यवादिनस्तु दार्ष्टान्तिकस्य च प्रदेशो वर्तमानाध्वसंज्ञकः । वैतुलिकस्य अयोगशून्यतावादिनः ( जैनि_258 ) सर्वं नास्तीति । पौद्गलिकस्यापि अव्याकृतवस्तुवादिनः पुद्गलो ऽपि द्रव्यतो ऽस्तीति ।
अत्र पुनः
एभ्यो यः प्रथमो वादी भजते साधुतामसौ ।
तर्काभिमानिनस्त्वन्येयुक्त्यागमबहिष्कृताः

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc