भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 261-280

261

तत्र तावत्सामान्यसंज्ञा स्वक्रियानिर्जाताः क्लिश्नन्तीति क्लेशाः अनुशेरत ( जैनि_220 ) इत्यनुशयाः । आभवाग्रमुपादाय यावदवीचिं स्त्रवन्ति स्रावयन्ति च चित्तसन्ततिमित्यास्रवाः । आस्रवानिति पञ्चलक्षणानत्र संयोजन्तीति संयोजनानि । ग्रन्थयन्तीति ग्रन्थाः । योजयन्तीति योगाः । अपहरन्तीत्योघाः । उपाददत इत्युपादानान्येषां सामान्यनाम क्लेश इति ॥
तत्र के कियन्तो वानुशयाः ? तदवद्योत्यते-
रागप्रतिघसंमोहमानकाङ्क्षाकुदृष्टयः ।
षडेते ऽनुशयाः प्रोक्ताः श्रेयोद्वारविबन्धिनः

262

एते खलु षडनुशयाः संसारप्रवृत्तिहेतवः श्रेयोमार्गविवन्धिनश्च शास्त्र उक्ताः । तेषां निरुक्तिः सन्तानानुगता इत्यनुशयाः धात्रोचैलमलवत् । अनुबध्नन्तीति वानुशयाः, खवरजलचरवत् । त एते वृत्तितश्च द्रष्टव्याः, हिङ्ग्वादिभक्षणवत् । फलतश्च पारावतभुजङ्गसूकरजन्मापातनवत् । पुद्गलतश्च नन्दाङ्गुलिमालसुनक्षत्रादिवत् ॥
अथ रागादयो ऽनुशयाः कथं द्रष्टव्याः ? किं रागादय एवानुशयाः, आहोस्विद्रागादीनामनुशयाः ? किञ्चातः । रागादय एवानुशयाश्चेत्सूत्रविरोधः- ( जैनि_221 ) "इहैकत्यो न कामरागपर्यवस्थितेन चेतसा बहुलं विहरत्युत्पन्नस्य कामरागपर्यवस्थानस्योत्तरनिस्सरणं यथाभूतं प्रजानाति । तस्य तत्कामरागपर्यवस्थानं स्थामशः सम्यक्सुसंवहतं सानुशयं प्रहीयते" इति । रागादीनामनुशया इति चेद्विप्रयुक्तानुशयप्रसङ्गादभिधर्मविरोधः- "कामरागानुशयस्त्रिभिरिन्द्रियैस्सप्रयुक्तः" इति । कर्मधारय एव परिगृह्यते न षष्ठीसमास इति वैभाषिकाः । ननु चोक्तं सूत्रविरोध इति । सानुशयं सानुबन्धमित्यर्थः । औपचारिको वा सूत्रे ऽनुशयशब्दः ( जैनि_222 ) प्राप्तौ यथा दुःखो ऽग्निरिति । लाक्षणिकस्त्वभिधर्मे क्लेश एवानुशयः । तस्मासंप्रयुक्ता एवानुशयाः ।
"एवं तु साधु यथा दार्ष्टान्तिकानाम्" इति कोशकारः । कथं च दार्ष्टान्तिकानाम् ? "कामरागस्यानुशयः कामरागानुशयः । न चानुशयः संप्रयुक्तो न विप्रयुक्तः; तस्याद्रव्यान्तरत्वात् । सुप्तो हि क्लेशो ऽनुशयैत्युच्यते । प्रबुद्धः पर्यवस्थानम् । का च तस्य प्रसुप्तिः ? असंमुखीभूतस्य बीजभावानुबन्धः । कः प्रबोअधः ? संमुखीभावः । को ऽयं वीजभावो नाम ? आत्मभावस्य क्लेशजा क्लेशोत्पादकशक्तिः, यथा चाङ्कुरादीनां शालिफलजा ( जैनि_223 ) शालिफलोत्पादनशक्तिः" इति ।
यत्तर्हि सूत्र एव क्लेशो ऽनुशय उक्तः षट्षट्के- "सो ऽस्य भवति सुखायां वेदनायां रागानुशयः" इति ? भवतीति वचनाददोषः । नासो तदैवानुशयः । कदा तर्हि ? यदा प्रसुप्तो भवति । । हेतौ वा फलोपचार एषः" इति ।
तदेतत्सौत्रान्तिकैरन्तर्गतं बुद्धवचननीतिश्रवणकौसीद्यमाविर्भाव्यते । ( जैनि_225 ) कथम् ? उक्तोत्तरत्वात् । उक्तमत्र कर्मचिन्तायामुत्तरं तत्त्वसप्ततौ च । तत्स्मर्यताम् । मा प्रमोषीः ।
पुनश्चापदिश्यते । सौत्रान्तिकपरिकल्पिते प्रतिबीजकल्पे चित्तशक्तिबीजभावनापक्षे निवृत्त्युत्तरमन्यानन्यत्वादिदोषात् । नान्यानन्य इति बीजवासनावस्थाने चित्तविनाशाभ्युपगमे च मध्यमाप्रतिपत्सिद्धिरिति चेत् । न । चित्तस्वभावशक्तिक्रियाभावे तदन्तद्वयासिद्धौ मध्यमाप्रतिदनुपपत्तेः खपुष्पमयदण्डवत् ।
ते पुनः
रागद्वेधात् मताः सप्त दृष्टिभेदाद्दश स्मृताः ।
भूयो ऽष्टानवतिर्ज्ञेया धात्वाकारादिभेदतः

263

तत्र कायरागभवरागभेदं पुरस्ताद्वक्ष्यते । दृष्टिभेदो ऽपि सत्कायदृष्ट्यादिभेदेन पञ्चधा । रागभेदं च द्विधा वक्ष्यामः । ते पुनरेते सर्व एवानुशया यथासंभवं धात्वाकारप्रकारभेदेनाष्टानवतिर्भवन्ति ।
तत्र केचित्पण्डिता दर्शयन्ति । धातुभेदेन कामावचराः षड्त्रिंशद्दर्शनभावनाहेयाः । द्वात्रिंशद्दर्शनहेयाः । रूपावचरा एकत्रिंशदुभयहेयाः, अष्टाविंशतिर्दर्शनहेयाः पञ्च प्रतिघवर्ज्याः । एवमारूप्यावचराः ।
तत्र कथं कामावचराः षड्त्रिंशद्भवन्ति ? दर्शनभावनाहेयप्रकारनैयम्यभेदात् । दृष्टीनामपिधात्वाकारप्रकारभेदात् षड्त्रिंशत्वम् । प्रतिघस्य धातुनैयम्यात् पञ्चत्वम् । वयं पुनरेषां भेदं श्लोकानुगतमेव दर्शयिष्यामः ।
तत्र कत्येषामष्टानवतेरनुशयाणां दुःखदर्शनहेयाः कति यावद्भावनाहेयाः ? तत्र कामधातौ तावत् । प्रतिदुःखादिसत्यं यथाक्रमं दश सप्त सप्ताष्टौ दुःखादिदर्शनहेया द्वात्रिंशत्कामधातौ भवन्ति । तेषु तेषां विप्रतिपत्तेः । एवं रूपारूप्यधात्वोरभ्युह्य वक्तव्यम् ॥
कामरागो भवाख्यश्च द्विधाः रागः प्रभिद्यते ।
प्रायो बहिष्प्रवृत्तत्वादन्तर्वत्त्यादिभेदतः

264

यथाक्रमम् । उक्तो रागभेदः ।
दृष्टिभेदो निर्दिश्यते-
सत्कायान्तद्वयग्राहौ मिथ्यादर्शनमेव च ।
दृष्टिशीलव्रतामर्शावित्येताः पञ्च दृष्टयः

265

ते पुनरेते प्रभिद्यमाना धातुप्रकाराकारभेदेनाष्टानवतिर्भवन्ति । षट्त्रिंशत्कामावचराः । एकत्रिंशद्रूपावचराः । एकत्रिंशदारूप्यावचराः । दर्शनभावनाहेयप्रकारनैयम्यात् ॥
कति पुनरेभ्यः कामधातौ दर्शनहेयाः कति यावद्भावनाहेयाः ? तदवद्योत्यते-
दशेह दुःखदृग्घेयाः
सर्वे ऽपि दशेह कामधातौ दुःखे विप्रतिपन्नत्वाद्दुःखदर्शनहेयाः ।
सप्त हेत्वीक्षणक्षयाः ।
एभ्यो दशभ्यः सत्कायान्तर्ग्राहदृष्टिशीलव्रतपरामर्शत्रयं हित्वा ।
सप्तापवर्गदृग्घेयाः
एत एव
अष्टौ मार्गेक्षणक्षयाः

266

सत्कायान्तर्ग्राहदृष्टी हित्वा । ते ऽपि फलभूतेषु स्कन्धेषु विप्रतिपन्नत्वाद्दुःखदर्शनहेयैव ।
दृष्टिहेयावलम्बित्वात्सदाकारपरिग्रहात् ।
रागादयस्तु चत्वारो ज्ञेया मार्गद्वयक्षयाः

267

ते दर्शनप्रहातव्यास्तेषां चतुर्णां रागादीनां यस्मादालम्बनमतस्तत्प्रहाणात्तेषामपि ( जैनि_228 ) प्रहाणं स्तम्भनिपातादुपस्तम्भनिपातनवत् । ये तु रागादयश्चत्वारः स्वलक्षणक्लेशास्ते भावनाप्रहातव्या द्रष्टव्या रागप्रतिघमानाविद्याः ॥
अत्र पुनः
प्रतिकल्पवशोत्पत्तेर्दृष्टिकाङ्क्षे तु दृक्क्षये ।
अविद्यमाने खलु वस्तुन्येते स्कन्धेषु विपरीतसंदेहाकारग्रहणं कृत्वा प्रवर्तेते । तस्मादेते दर्शनहेये चेतोद्धाटनमात्रेण सारद्रव्यास्तित्वसंदेहापगमवत् ।
रूपेप्येवं तथारूप्ये प्रतिघानुशयादृते

268

यथा कामधातौ प्रोक्ताः, रूपारूप्यधात्वोरप्येवं द्रष्टव्याः । प्रतिघानुशयं वर्जयित्वा । तत्र हि शमथस्निग्धसन्तानत्वात्प्रतिघनिमित्ताभावाच्च प्रतिघानुशयो नास्ति ।
तत्र सत्कायान्तर्ग्राहदृष्टी एकप्रकारे दुःखदर्शनमात्रहेयत्वात् । मिथ्यादृष्टिदृष्टिपरामर्शविचिकित्साः प्रत्येकं चतुष्प्रकाराः, चतुस्सत्यदर्शनहेयत्वात् । शीलव्रतपरामर्शो द्विप्रकारो दुःखमार्गदर्शनहेयत्वात् । रागादयः पञ्चप्रकाराः, चतुस्सत्यदर्शनभावनाहेयत्वात् । त एते कामधातौ षट्त्रिंशद्भवन्ति । रूपधातावेकत्रिंशदारूप्यधातावेकत्रिंशदिति समस्ता दशनभावनाहेया अष्टानवतिर्भवन्ति । तेभ्यः पुनरष्टाशीति दर्शनप्रहातव्याः । दश भावनाप्रहातव्याः ॥
अथ य एते ऽष्टाशीतिरनुशया दर्शनप्रहातव्याः किमेते दर्शनमार्गेणैव प्रहीयन्ते ? नेत्याह । किं तर्हि ?
भवाग्रे क्षान्तिहेया ये दृग्घेया एव ते मताः ।
ते ह्येकान्तेनान्वयक्षान्तिवध्याः ।
ज्ञानवध्यास्तु ये तस्मिन्नभ्यासेनैव तत्क्षयः

269

एवमन्यास्वपि भूमिषु ये ऽनुशया ज्ञानवध्यास्त आर्याणां पृथग्जनानां च भावनामार्गेणैव प्रहीयन्ते । शेषास्तूभयथा । यथायोगं शेषासु खलु भूमिषु यथासंभवं धर्मान्वयक्षान्तिबध्या अनुशया आर्याणां दर्शनहेयाः, पृथग्जनानां च भावनाहेया इति बोद्धव्यम् ॥
अथ या इमाः पञ्च दृष्टयो धात्वाकारप्रकारभेदेन षट्त्रिंशद्धा भिन्नास्तासां प्रत्येकं कः स्वभावः ? तदारभ्यते -
अहं ममेति या दृष्टिरसौ सत्कायदृक् स्मृता ।
तदुच्छेदध्रुवग्राहौ यौ सान्तर्ग्राहदृङ्मता

270

हेतुबलसामर्थ्यादसच्छास्त्रश्रवणाच्च पृथग्जनस्याहं ममेमि पञ्चसूपादानस्कन्धेषु य आत्मग्राहः सा सत्कायदृष्टिरित्युच्यते । सति सीदति वा काये दृष्टिर्विपरीताकारा सत्कायदृष्टिरिति निर्वचनम् । सैषात्मात्मीयाकारभेदाद्द्विप्रकारा । पुनः पञ्चस्कन्धालम्बनाः पञ्चात्मदृष्टयो भवन्ति । ( जैनि_230 ) पञ्चदशात्मीयदृष्टयः । ताः समस्ता विंशतिकोटिका सत्कायदृष्टिरिति व्याख्यायते ।
तयोर्गृहीतस्य विपर्यासेनात्माख्यस्यासद्वस्तुनो ऽसत्पुरुषसंसर्गान्नित्यत्वग्राहो वा नित्यत्वग्राहेण वा सान्तर्ग्राहदृष्टिरिति ॥
फलहेत्वपवादो यः सा मिथ्यादृष्टिरुच्यते ।
फलहेतुग्रहणे वस्तुक्रियाग्रहणं प्रत्येतव्यम् । अनेन शास्त्रप्रोक्तया मिथ्यादृष्टेः साकल्येन ग्रहणं प्रत्येतव्यम् ।
ज्ञेयो दृष्टिपरामर्शः हीनवस्तूत्तमग्रहः

271

अहेतावपथे चैव तद्धि शीलव्रताह्वयः ।
सर्वं खलु सास्रवं वस्तु हीनार्हत्वाद्धीनम् । आदिग्रहणशब्दस्य चात्र लोपो द्रष्टव्यः । दृष्ट्यादिपरामर्शो दृष्टिपरामर्शः । चतस्रो दृष्टीः प्रत्यवरं च वस्त्वग्रतो गृह्णाति कथमग्र्येयं दृष्टिः ? येयमात्मदृष्टिः- आत्मानमहं पूजयिष्यामि वासुदेवो ऽत्र पूजितो भविष्यतीति हीनपुरुषंपञ्चोपादानस्कन्धात्मकमग्रतः प्रतिपद्यते । नास्ति दत्तं यथासुखं प्रवर्तिष्यत इत्येवमादिः ।
अकारणे कुमार्गे च कारणमार्गग्रहणं शीलव्रतपरामर्शः । तद्यथा प्रकृतीश्वरपुरुषादिहेतुकं पञ्चोपादानस्कन्धात्मकं न तृष्णाहेतुकमित्यकारणे कारणदर्शनम् । कुमार्गं चाग्निजलप्रवेशादौ प्रकृतिपुरुषान्तरज्ञानादौ च स्वर्गापवर्गहेतुत्वम् ।
शीलं त्वत्राग्निहोत्रानुष्ठानं प्रतिजुहोत्याद्यास्तिस्त्रो ऽन्तरङ्गक्रियाः, पश्वालम्भनाद्याः बहिरङ्गाः, तदुभयस्य यावज्जीवमनुष्ठानं शीलम् । यथोक्तम्- "जरामर्यं वैतत्सत्रं यदग्निहोत्रं जुहोति" इति ।
व्रतम्- आग्नेयमग्निपरिचरणं शौक्रमापो हि ष्ठाद्यनुष्ठानम् अपां शुक्रदैवत्यत्वात् । वार्हस्पत्यौपनिषदगोदानीयं जटावतारणम् । अथवा गोव्रतादीनि व्रतान्येभिः शुध्यते मुच्यत इत्याहुः ।
त्रयीधर्माणस्त एव ते हरिहरहिरण्यगर्भादयो न कारणमुपादानस्कन्धात्मकत्वात् । न च नित्याः, न चाग्र्या इत्येतद्विस्तरेणाविष्कृतम् । पश्वालम्भनाग्निजलप्रवेशादयश्च न स्वर्गापवर्गहेतुर्दानशीलभावनानां तद्धेतुत्वात् । इत्यतो विपरीतदर्शनमेतच्छीलव्रतपरामर्शाख्यमिति ॥
यदि तर्हि पुरुषेश्वरादिकारणद्वारेण शीलव्रतपरामर्शः प्रवर्तते, प्राप्तस्तर्हि समुदयदर्शनप्रहातव्यः ? नैतदस्ति । यस्मादसौ
दुःखभ्रान्त्यपथादानात्तदृष्ट्युत्सार्य एव सः

272

दुःखभूतेषूपादानस्कन्धेषु हरिहरहिरण्यगर्भादिष्वकारणेषु बुद्ध्या भ्रान्तः । तस्माद्यत्रैव भ्रान्तस्तत्रैवाविपरीतदर्शनत्प्रहीयते । कापथे च ( जैनि_234 ) सत्पथबुद्ध्या भ्रान्त इति सम्यक्स्वमार्गदर्शनात्प्रहीयते । इति सिद्धं द्विदर्शनहेयः शीलव्रतपरामर्शः ।
सत्कायदृष्ट्यवच्छेदो धर्ममात्रेक्षणाद्यतः ।
दुःखाभिसमये तच्च तद्दृग्घेयैव सो ऽप्यतः

273

यदा खल्वस्य धर्मेषु धर्ममात्रबुद्धिरुत्पन्ना भवत्यनित्याः, दुःखाः, शून्याः, अनात्मानश्च धर्मा इति तदैव सत्कायदृष्ट्यवच्छेदो भवति, तत्प्रवर्तिता चान्तर्ग्राहदृष्टिः, तत्रोपात्तस्या अपि समुद्घात इति । तत्र धर्मदर्शनमनित्याद्यन्यतमाकारं यस्माद्दुःखाभिसमयमात्राद्भवत्यत एतद् दृष्टिद्वयं दुखदर्शनहेयमेवेति सिद्धम् ॥
अथ य एते चत्वारो विपर्यासाः- "अनित्ये नित्यम्" एवमादयस्ते किं स्वभावाः ? तदारभ्यते-
द्वयं दृष्टिपरामर्शादेकः सत्कायदृष्टितः ।
अन्तर्ग्राहार्धमन्यस्तु विपर्यासः प्रकल्प्यते

274

तत्र तवत् । दृष्टिपरामर्शात्सुखशुचिविपर्यासौ प्रकल्प्येते । सत्कायदृष्टेरात्मदृष्टिविपर्यासः, अन्तर्ग्राहदृष्ट्यर्धात्नित्यविपर्यासः प्रकल्प्यत ( जैनि_235 ) इति । ननु सत्कायदृष्टेरर्धात्प्राप्नोति ? न । दृष्ट्यन्तरत्वात् । शाश्वतदृष्टेरुच्छेददृष्टिर्दृष्ट्यन्तरम् । पुरुषमेव तु स्वतन्त्रं कर्तारं वशिनमात्मवादी मन्यमानो ममेदमित्यभ्युपगच्छति तस्मादात्मदृष्टिरेवासौ । यदि च ममेत्येतद् दृष्ट्यन्तरं स्यान्मया मह्यमित्येवमाद्यपि दृष्ट्यन्तरं स्यात् । तस्मादहंकारपर्याया एवैते द्रष्टव्याः ।
ननु च सर्वे क्लेशा विपर्यासाः विपरीतप्रवृतत्वात् ? तत्किमुच्यते चत्वार इति ? नैष दोषः । यस्मात्
नितीरणसमारोपविपरीतप्रवृत्तितः ।
विपर्यासोक्तिरेष्वेव दृग्वशात् चित्तसंज्ञयोः

275

विपरीततो नितीरणात्समारोपादेकान्तविपर्यासाच्च । न ह्येतदन्येषां क्लेशानां समस्तमस्ति । मिथ्यादृष्ट्युच्छेददृष्टी यद्यपि नितीरयतः, एकान्तविपर्यस्ते च, न तु समारोपिके द्रव्यनाशप्रवृत्तत्वात् । शीलव्रतपरामर्शो नैकान्तविपरीतः कामवैराग्यादिसंभवात् । अन्ये क्लेशा न सन्तीरकाः । इति चत्वार एव ।
ननु च सूत्र उक्तम्- "आनित्ये नित्यमिति संज्ञाविपर्यासः, चित्तविपर्यासो दृष्टिविपर्यास एवं यावदात्मनि" इति द्वादश भवन्ति । नैष दोषः । नहि संज्ञाचित्ते नितीरके । तस्माच्चतुर्ष्वेव दृष्टिस्वभावेषु विपर्यासोक्तिः । ऽदृग्वशात् चित्तसंज्ञयोःऽ; तदुक्तिरिति । संज्ञा हि लोककार्यव्यवहारपतिता दर्शनवशाद्विपर्यस्तमालम्बननिमित्तमुद्गृह्णाति । चित्तं च तद्वशानुवर्तीति तयोरेव ग्रहणम् । लोके ऽपि विपर्यस्तसंज्ञो विपर्यस्तचित्तश्चोच्यते न विपर्यस्तवेदनो विपर्यस्तचेतन इति ॥
अथ किं दृष्ट्यनुशयवत् मानानुशयस्यापि कश्चिद्भेदो ऽस्ति ? विद्यत इत्याह । कथमित्यादर्श्यते-
सप्त मानविधास्त्रिभ्यो नव मानविधास्त्रिधा ।
त्रिधात्युन्नमनादिभ्यः स्वोत्कर्षाद्यस्ति नास्तिता

276

तदस्य श्लोकस्य संक्षेपविस्तारव्याख्याप्रभेदो ऽयमादर्यते । तत्र तावत्कर्मस्वकतासामर्थ्यसंमुग्धस्य येन केनचिद्वस्तुना चित्तस्योन्नतिर्मानः । प्रतिद्यमानः सप्तधा भवति मानः, अतिमानः, मानातिमानः, अस्मिमानः, अभिमानः, ऊनमानः, मिथ्यामानश्च । एतेषां प्रपञ्चो यथा प्रकरणेषु ।
ननु पुनर्ज्ञानप्रस्थाने नवमानविधा उक्तास्तद्यथा- "श्रेयानहमस्मीति मानविधा । सदृशो ऽहमस्मीति तद्दृष्टिसंनिश्रितैव मानविधा । सदृशाद्धीनो ऽहमस्मीति मानविधा । अस्ति मे श्रेयानस्ति मे सदृशो ऽस्ति मे हीनः, नास्ति मे श्रेयो नास्ति मे सदृशो नास्ति मे हीनः" इति ।
तत्र श्रेयानहमस्मीति सत्कायदृष्टिसन्निश्रिता अतिमानविधा । सदृशो ऽहमस्मीति तद्दृष्टिसन्निश्रितैव मानविधा । हीनो ऽहमस्मीति तद्दृष्टिसन्निश्रितैवोनमानविधा । अस्ति मे श्रेयानित्यूनमानविधा । अस्ति मे सदृश इति मानविधा । अस्ति मे मान इति मानातिमानविधा । नास्ति मे श्रेयानिति मानविधा । नास्ति मे सदृश इत्यतिमानविधा । नास्ति मे हीन इत्यूनमानविधा । इति एवमेता नवमानविधास्त्रिभ्यो मानेभ्यो व्यवस्थाप्यन्ते मानामिमानोनमानेभ्यः ।
त एते सप्तमानाः सर्वे ऽपि दर्शनभावनाहेयाः स्थविरक्षेमकसूत्रोक्तेः- "अस्ति मे एषु पञ्चसूपादानस्कन्धेष्वस्मीति मानो ऽप्रहीणः" इति ॥
किं पुनर्यद्भावनाहेयमप्रहीणं सर्वं तदार्यस्य समुदाचरति ? नेत्याह । प्रहीणमपि हि किञ्चित्समुदाचरति । तद्यथा श्रद्धादीनि पञ्चेन्द्रियाणि मिद्धं दुःखेन्द्रियं चक्षुराद्यष्टकं चेति । अप्रहीणमपि खलु किञ्चिन्न समुदाचरति । तद्यथा
वधादिपर्यवस्थानं कौकृत्यमशुभं विधाः ।
विभवेच्छा च नार्यस्य जायन्ते हेत्वभावतः

277

येन खलु क्लेशपर्यवस्थानेन संचित्य प्राणिवधादत्तादानकाममिथ्याचारमृषावादानध्यापद्येतैतद्वधाद्यप्रहीणमपि न समुदाचरति भावनाहेयत्वात् । कौकृत्यं चाकुशलं न समुदाचरति । मानविधाश्च नव न समुदाचरन्ति । विभवतृष्णापि भावनाप्रहातव्यापि सती न समुदाचरति । ऽचऽशब्दाद्भवतृष्णायाश्च कश्चित्प्रदेशः । अहो वताहमैरावणः स्यां नागराजा अहो वताहमसुरेन्द्रः स्यां वैमचित्रादिः । अहो वताहमुत्तरेषु कुरुषु जन्म लभेयेत्येवमादि ।
किं पुनरत्र कारणं यदेते ऽप्रहीणाः खल्वपि सन्तो नार्यस्य समुदाचरन्ति ? शून्यतायाः सुभावितत्वात्कर्मफलसंबन्धयुक्तेश्च विदितत्वात्, दृष्टिपुष्टत्वाच्च ॥
तत्र मानविधा अस्मिमानश्च सत्कायदृष्टिपुष्टाः । वधादिपर्यवस्थानं मिथ्यादृष्टिपुष्टम् । विभवतृष्णोच्छेददृष्टिपुष्टा । भवतृष्णाप्रदेशः शाश्वतदृष्टिपुष्टः । इति विधादयस्तत्पोषकक्लेशाभावादार्यस्य नोत्सहन्ते सन्तानमध्यारोढुम् । कौकृत्यमपि चाकुशलमवीतरागस्यार्यस्याप्रहीणं न चास्य तत्संभवति चिकित्सासमुत्थितत्वादिति ॥
अथानुशयाः सर्वत्रगाः कस्मात्क्लेशनिकाया व्यवस्थाप्यन्ते ? तदारभ्यते-
दुःखात्समुदयाच्चैव सर्वगानां व्यवस्थितिः ।
दुःखसमुदयदर्शनप्रहातव्याः खल्वनुशयाः सर्वगाः । यस्मात्
तद्दृष्टिहेयजातीनां सर्वासां द्विपदस्थितेः

278

द्वयोः खलु निकाययोः दुःखसमुदयाख्ययोस्तद्दर्शनहेयाणां वक्ष्यमाणानां क्लेशानामुभयत्र लब्धप्रतिष्ठत्वात् ॥
किं पुनः सर्वे दुःखसमुदयहेयाः न हेयाः सर्वत्रगाः ? नेत्याह । किं तर्हि ?
काङ्क्षा पञ्च दृशो ऽविद्या तद्व्यामिश्राथ केवलाः ।
सप्त सर्वत्रगा दुःखाद्धेनोरेभ्यश्चतुष्टयम्

279

सप्तदृष्टयो द्वे विचिकित्से ताभिश्च संयुक्ताविद्या आवेणिकी च ( जैनि_240 ) द्विप्रकारा इत्येकादशानुशया धातौ धातौ स्वधातुभूमिसर्वत्रगा ज्ञेयाः । सकलस्वधातुभूम्यालम्बनत्वात् । एते च परिपिण्ड्य त्रयस्त्रिंशत्सर्वत्रगा भवन्ति ॥
एते पुनः सर्वत्रगाः
द्रव्यतो दश चैकश्च नाम्ना सप्त तु ते मताः ।
तिसृणामप्यविद्यानां द्वयोश्च विचिकित्सयोरेकनामत्वात् ।
अथ कस्माद्रागप्रतिघमाना न सर्वत्रगाः ? तदुच्यते-
रागप्रतिघमानास्तु परिच्छेदप्रवर्तिनः

280

एते खलु स्वलक्षणक्लेशाः प्रतिक्लेशमनवयवं चालम्ब्योत्पद्यते । तस्मान्न सर्वगाः ॥
विचिकित्साद्यास्तु
प्रकारान्तरवर्तित्वात्सकृत्सर्वस्वभूगतिः ।
धात्वन्तरावलम्बित्वात्पूर्वोक्ता एव सर्वगाः

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc