अभिधर्मदीप (टीका सहित) · श्लोक 241-260
तत्र भगवतो बुद्धस्य करुणाभावना चोद्रेकेन वर्तते भगवान्बुद्धः । स्वसंविच्चिन्ता च प्रत्येकबुद्धस्याधिक्येन वर्तते । परसंवित्परतो घोषश्च श्रावकस्य । किञ्च, परतो घोषमन्तरेणापि चरमे जन्मनि सुयोनिशोमनस्कारबलेन हेतुप्रत्ययफलावबोधोपलम्भात्, हेतुप्रत्ययबलैरशेषप्रनष्टं निश्रेयसं मार्गं प्रथममधिगम्य परत्रोपदेशादित्येवमादि ॥
अथ तुल्यायां विमुक्तौ स्थितानां त्रयाणामभिसमेतृणां को विशेषः ? तदुच्यते-
हेतुतत्त्वफलोद्भूतं महत्त्वं शासितुस्त्रिधा ।
विमुक्तावपि तुल्यायां त्रयाणां बोधिलम्भनात्
तत्र हेतुकृतं तावद्भगवतो बुद्धस्य महत्त्वं त्रिषु कल्पासंख्येयेषु सूत्रविनयाभिधर्मालोकेन विनेयजनमनोग्रहेष्वज्ञानतिमिरोत्सादनात् । स्वभावकृतमपि बलवैशारद्यस्मृत्युपस्थानमहाकरुणादिस्वरूपत्वात् । फलकृतमपि ( जैनि_208 ) सदेवकेषु लोकेष्वप्रतिहतशासनप्रतिष्ठानान्मारचतुष्टयनिर्जयनाच्चेति ॥
अथ यदेतत्सर्वसत्त्वप्रतिविशिष्टं पुरुषोत्तमस्य जन्मशरीरं तत्किमनियतकालाक्षेपम्, आहोस्विन्नियतकालाक्षेपमिति ? तदभिधीयते-
बुद्धस्य संमुखीनस्य बौद्धमाक्षिप्यते वपुः ।
नान्यस्मिन्काले । चिन्तामयेन ज्ञानेन विशिष्टतमत्वात् । तत्र पुनः-
सैकपुण्यशतोद्भूतमेकैकं लक्षणं मुनेः
तत्र पञ्चाशच्चेतनाः प्रयोगभूताः पञ्चाशत्पृष्ठभूताः, एकया तल्लक्षणमाक्षिपति ॥
ता पुनः पञ्चाशच्चेतनाः कतमाः ? तदुच्यते-
यथाकर्मपथास्तद्वत्पुण्यादित्रयमिष्यते ।
प्रतिकर्मपथं पञ्च, मौलकर्मपथपरिशुद्धिः सामन्तकस्यवितर्कानुपघातः स्मृत्यनुपरिग्रहः, निर्वाणपरिणामनं च । ताः सर्वास्तदालम्वनाः पञ्चाशत्प्रयोगभूताः । पृष्ठे ऽप्येतावत्य एव ।
अन्ये तु ब्रुवते- बुद्धा द्विशरीराधिष्ठानाः । जन्मशरीराधिष्ठानाः, द्वात्रिंशन्महापुरुषलक्षणालम्बनाः । धर्मशरीराधिष्ठानाश्चाष्टादशावेणिकबुद्धगुणालम्बनाः सामन्तकपृष्ठसंगृहीताः ।
अन्ये पुनराहुः- प्राणिवधविरतिचेतना मृदुमध्याधिमात्राधिमात्रतरतमभेदाद्देवमनुष्येषु योज्या ।
केचिन्मन्त्रयन्ते- द्विधा समुद्राश्चत्वारो द्वीपाः षोडशनरकाः, तिर्यक्प्रेतौ षट्कामावचराविंशतीरूपारूप्याः देवाः । एतान्सर्वान् भगवान् करुणायते ।
एवन्तु वर्णयन्ति- सन्निकृष्टं बोधिसत्त्वं स्थापयित्वा यत्सर्वसत्त्वानां भोगैश्वर्याधिपत्यफलमियदेकस्य पुण्यस्य प्रमाणम् ॥
अथ यदुक्तम्- ऽदानपारमिताऽ; इति । तत्र कः समासः किं साधनो वा दानशब्दः, को वा स्वभावो दानस्य इति ? तदपदिश्यते । दानस्य पारमिताया निश्चयबुद्धिः सा दानपारमिता । एवं शेषास्वपि वाच्यम् ।
यत्पुनरुच्यते- ऽकिं साधनो वायं दानशब्दः, को वा दानस्य स्वभावःऽ; इति तत्रापदिश्यते-
दानं हि दीयते येन स्वपरार्थाद्यपेक्षया
कायादिकर्म तत्तत्त्वमविज्ञप्तिः क्वचित्पुनः ।
करणसाधनो ऽयं दानशब्द । दीयते तेनेति दानं मानवत् । हस्तादिषु तर्हि दानप्रसंगः । अस्तु तर्हि कर्मसाधनो दीयते तदिति दानम् । सुवर्णादिषु दानप्रसंगः । भवतु को दोषः । विपाकफलाभावः, सुवर्णादीनामव्याकृतत्वात् । भवतु तर्हि करणसाधन एव । ननूक्तं हस्तादिषु प्रसंगः ? नैष दोषः । कुशलकर्मत्रयपरिग्रहात् । स्पर्धायशोगुप्तिसेवादिव्युदासार्थमिदमारभ्यते । ( जैनि_211 ) ऽस्वपरार्थाद्यपेक्षयाऽ- स्वात्मपरार्थानुग्रहाद्यपेक्षया । स्वात्मानुग्रहाय परानुग्रहाय उभयानुग्रहाय ।आदिशब्दात् पूजाकाम्यया चेति । स्वभावो ऽपि ऽकायादिकर्माविज्ञप्तिःऽ; । क्वचित्पुनः कायवाङ्मनः कर्म । ससंप्रयोगं सपरिवारं चात्र मनस्कर्म दृष्टव्यम् । तत्पुनरेतद्दानम्-
प्राधान्यान्मुनिना प्रोक्तं महाभोगफलं हि तत्
स्वर्गावपर्गहेतुत्वे ऽपि प्राधान्यान्महाभोगतायां तद्विनियोगः । तत्पुनरेतद्दानम्-
स्वान्योभयार्थसिद्ध्यर्थं दानं ददति केचन ।
साधुवृत्त्यनुवृत्यर्थं नोभयार्थाय चापरे
द्वाभ्यां खलु कारणाभ्यां स्वान्यात्महितचिकीर्षुश्च, उभयहितप्रतिपन्नश्च स एवंगुणयुक्तं दानं ददाति । आत्मनश्च कुशलमूलोपचयार्थं परस्य चेन्द्रियमहाभूतोपचयार्थम् । तत्र स्वहितायैव यथा पृथग्जनः परिनिर्वते भगवति चैत्याय ददाति परार्थमेव यथा अर्हन् संघाय ददाति, न चेष्टधर्मवेदनीयं भवति । उभयार्थं यदवीतरागः संघाय ददाति । नोभयार्थं यदर्हंश्चैत्याय ददाति तच्च न दृष्टधर्मवेदनीयं भवति केवलं तु सत्पुरुषप्रशस्तमार्गावस्थानप्रदर्शनार्थम् ॥
तत्पुनरेतद्दानं कथं फलतो विशिष्यते ? तदुच्यते-
दातृवस्त्वादिवैशिष्ट्यात्तत्फलातिशयः स्मृतः ।
तत्र कथं दातृविशेषः कथं वस्तुविशेषः कथं क्षेत्रविशेषः ?
श्रद्धादिभिर्गुणैर्दाता दत्ते ऽतः सत्क्रियादिभिः
यदा दाता हेतुफलसंबन्धनिश्चये श्रद्दधानो ददाति शीलवान् कल्याणधर्मा बुद्धवचनबहुश्रुतश्च भवति निर्मत्सरी मुक्तहस्तश्च भवति निर्वाणानुशंसः सत्कृत्य स्वहस्तं कालेन पराननुपहत्य ददाति, स खलु
सत्कारादिगुणोपेतं फलं तस्मादवाप्नुते ।
अतः सत्कृत्य दानात्सत्कारलाभी भवति । स्वहस्तदानादुदारेषु भोगपरिभोगेषु रुचिं लभते । कालदानात्कालभोगान लभते । परानुपघातादनाच्छेद्यांल्लभते निरपक्षालमन्यादिभिरसाधारणान् । एतावद्दाता विशिष्यते ।
कथं वस्तु ?
वस्तु वर्णादिसंपन्नं सौरूप्यादि फलप्रदम्
यदि वस्तु वर्णगन्धरसस्पर्शसम्पन्नं भवति तदा विशिष्यते । ततः सुरुपित्वं यशस्विता प्रियता सुकुमारत्वं सुखस्पर्शाङ्गता भवति यथाक्रमम् । एवं वस्तु विशिष्ट भवति ॥
गुणदुःखोपकाराख्यर्धर्मैः क्षेत्रं विशिष्यते ।
गुणाधिकं क्षेत्रं भवति । तिर्यञ्चमुपादाय यावन्मनुष्याणां गुणास्तरतमक्रमेण यावद्बुद्धस्य । यथोक्तम्- "तिर्यग्योनिगताय दानं दत्वा शतगुणो विपाकः प्रतिकाङ्क्षितव्यः स्यात् । दुःशीलाय मनुष्यभूताय दत्वा सहस्रगुणः ।" दुःखविशेषात्क्षेत्रं विशिष्यते । यथौपधिकेषु पुण्यक्रियावस्तुषु । "ग्लानाय दानं ग्लानोपस्थाय कायदानं शीतलिकावर्दलिकादिषु ( जैनि_213 ) च दानम्" इति विस्तरः । उपकारित्वविशेषात् । यथा मातापित्रोरन्येषां चोपकारिणां ये अटवीदुर्गकान्तारे भूतव्यसनेभ्यो निस्तारयन्ति ।
यदुक्तम्- ऽचेतनाविशेषात्फलविशेषःऽ; इति । अथ कथं चेतनायाः विशेषो भवति ? ब्रूमः-
आशयादि मृदुत्वादेर्मृदुत्वादीनि कर्मणः
पण्यां खलु कारणानां मृदुत्वादिविशेषात्कर्म विशिष्यते । आशयचेतनाप्रयोगाधिष्ठानक्षेत्रपृष्ठानां मृदुत्वादेः कर्मविशेषः ।
तत्राशयाभिप्रायः यथा- एवं चैवं च कुर्यां करिष्यामीति वा चेतनाया कर्मपथं समाक्षिपति । प्रयोगस्तदधिष्ठानं कायवाक्कर्म । अधिष्ठानं कर्मपथः । क्षेत्रं यस्मै वस्तु प्रतिपाद्यते । पृष्ठं नाम यत्कृत्वा पुनः सकृदसकृद्वानुकरोति ॥
यदुक्तम्- ऽआर्येभ्यो दानमप्रमेयफलम्ऽ; इति । अथ किमनार्येभ्यः सर्वेभ्यः प्रमेयम् ? नेत्याह-
धर्मदात्रे ऽपि बालाय पित्रे मात्रे ऽथ रोगिणे ।
अमेयं बोधिसत्त्वाय दानमन्यभवाय च
एभ्यः पञ्चभ्यः पृथग्जनेभ्यो ऽपि दानमप्रमेयं भवति ॥
अथ कस्य कस्मै दत्वा दानमग्र्यफलं भवति ? तदभिधीयते-
बोधिसत्त्वस्य यद्दानमन्यस्यापि यदष्टमम् ।
विपश्चिद्भिस्तदाख्यातं श्रेष्ठं यच्चार्हतो ऽर्हते
यत्खलु बोधिसत्त्वः सर्वसत्त्वहिताध्याशयेण दानं ददाति तदग्र्यमुत्तमार्थफलत्वात् भगवताष्टौ खलु दानान्युक्तानि सूत्रे "आसाद्य दानम् । भयदानम् । अदात् मे दानम् । दास्यति मे दानम् । दत्तपूर्वं मे पितृभिर्दानम् । ददाति स्वर्गार्थम् । कीत्यर्थम् । यावदुत्तामार्थस्य प्राप्तये ददात्येतदग्र्यम् । यच्च त्रैधातुकवीतरागो ऽर्हन्नर्हते ददाति दानमिदमग्र्यम्" इति ।
सूत्र उक्तम्- "सांचेतनिकस्याहं कर्मणः कृतोपचितस्य नाप्रतिसंवेद्यफल वदामि" इति । अथ किमिदं कृतमुपचितं वा ? तदुच्यते-
संप्रधार्य यदाक्षिप्तं पूरणादिदृढीकृतम् ।
विगतप्रतिपक्षं च तत्कर्मोपचितं मतम्
तत्र संप्रधार्याक्षिप्तं नाबुद्धिपूर्वं यदृच्छया यच्च कृत्वा परिपूरिकाभिश्चेतनाभिः परिपूरितं भवति । पृष्ठतश्च दृढीकृतं भवयि । निष्कौकृत्यादिप्रतिपक्षं च भवति । तत्कर्मोपचितमुच्यते ॥
कथं चैत्तादिष्वसति प्रतिगृहीतरि पुण्योपजातिर्भवति ? ब्रूमः ।
स्वस्मात्त्यागगुणापेक्षाश्चैत्ताश्चैत्यार्चतादिषु ।
विना प्रतिगृहीत्रापि फलं मैत्रीविहारवत्
तद्यथा मैत्रीविहारिणो महर्षयो न च लोकं सुखेन योजयन्त्यथ चापरिमितं पुण्यं प्रतिगृह्णन्त्येवं चैत्यादिषु तद्गुणाधिमुक्तिवशेन स्वचित्तप्रसादादेव पुण्यप्रसूतिमिच्छन्ति ॥
सूत्र उक्तम्- "द्वे दाने । धर्मदानमामिषदानं च ।" तत्रामिषदानमुक्तम् । धर्मदानमुच्यते-
धर्मदानस्वभावो वाक्तत्त्वनामादिगोचरः ।
अव्याकृतस्वभावत्वान्न नामाद्यन्नदानवत्
यथैव कुशलत्वात् त्रिकर्मस्वभावमामिषदानं नान्नपानम् । सुवर्णादिस्वभावं तत्, अव्याकृतत्वात् । तद्वद्वाचः कुशलत्वाद्धर्मदानं वाक्स्वभावम् । न नामकायादिस्वभावम् ॥
उक्तं दानमयं पुण्यक्रियादिवस्तु । शीलमयमारभ्यते ।
शीलं शुभमयं रूपं व्याख्यातं तत्प्रभेदतः ।
कुशलमेव रूपं शीलमयं पुण्यक्रियावस्तु । तत्पुनर्विज्ञप्त्यविज्ञप्तिरूपम् । अविज्ञप्तिरूपमपि त्रिप्रभेदं प्रातिमोक्षध्यानानास्रवसंगृहीतम् । तदपिव्याख्यातं ( जैनि_216 ) विस्तरशः । एतदपि शीलमयं पुण्यक्रियावस्तु महाभोगताफलं मोक्षफलं च, प्रणिधिपरिणामनविशेषात् ।
शास्त्रे तु तप्प्रधानत्वात्प्रोक्तं स्वर्गोपपत्तये
तत्पुनरेतच्छीलं विशुद्धं चाविशुद्धं च भवति । तत्र विशुद्धम्
दौःशील्याशुभमूलाद्यैर्दोषैर्यन्न विदूषितम् ।
तद्विपक्षशमाङ्गं च यत्तच्छद्वमिहोच्यते
यत्खलु शीलं दौःशील्येन न विदूषितं प्राणातिपातादिनाष्टप्रकारेण, तत्समुत्थापकैश्च क्लेशोपक्लेशैर्मिथ्यादृष्ट्यादिभिरनुपहतम्, क्लेशोपक्लेशविपक्षैश्च स्मृत्युपस्थानादिभिः परिगृहेतम्, निर्वाणपरिणामितं च न संसारबीजभूतं भवति ।
पञ्चभिः कारणैरित्यन्ये । मौलैः कर्मपथैर्विशुद्धम्, सामन्तकैर्विशुद्धम्, वितर्कैरनुपहतम्, स्मृत्यानुपरिगृहीतम्, निर्वाणाभिमुख चेति तद्विशुद्धशीलमिष्यते । तद्विपर्ययादविशुद्धं वेदितव्यम् ।
व्याख्यातं शीलमयं पुण्यक्रियावस्तु ॥
भावनामयमुच्यते-
पुण्यं समाहितं त्वत्र भावना चित्तभावनात् ।
यत्समाधिस्वभावं समाहितं पुण्यं तद्भावनेत्युच्यते । कस्मात् ? ( जैनि_217 ) चित्तभावनात् । यथा तैलं पुष्पैश्चम्पकादिभिर्वासितं तन्मयि भवति तत्समाधिसंप्रयुक्तैस्तत्सहभूकैश्च धर्मैश्चित्तं भावितं वासितमित्युच्यते, तन्मयीकरणात् । न चैवमसमाहितमिति । समाहितमेव चित्तं भावनामयं पुण्यक्रियावस्तु मैत्र्यादिगुणसंप्रयुक्तं द्रष्टव्यम् ।
कथं पुनरेतत्पुण्यक्रियावस्तु मन्तव्यम् ? किं पुण्यं क्रिया च वस्तु च पुण्यक्रियावस्तु, समाहारलक्षणो ऽयं द्वन्द्वः समासो ऽथ पुण्यक्रिययोर्वस्तु पुण्यक्रियावस्तु ? अथ पुण्यक्रियाया वस्तु पुण्यक्रियावस्त्विति ? यथा न दोषस्तथास्तु । कथं च न दोषः ? तत्र तावत् । कायवाक्कर्मस्वभावत्वात् त्रिधा कुशलत्वात्पुण्यम् । कर्मात्मकत्वात्क्रिया । तत्समुत्थापिकायाश्चेतनाया अधिष्ठानात्वाद्वस्तु । या तत्समुत्थापिका चेतना सा पुण्यं च क्रिया च, तत्सहभुवो धर्माः पुण्यमेव । शीलमयं तु कायवाक्कर्मैवेति त्रिधा भवति । भावनामयं मैत्रो पुण्यं च पुण्यक्रियाश्च वस्तु । तत्संप्रयुक्तायाश्चेतनाया मैत्र्यधिष्ठानेनाभिसंस्काराणां मैत्रीसहभूचेतना शीलं च पुण्यक्रिया च । अन्ये तत्सहभुवः पुण्यमेवेति ।
तत्पुनरेतद्भावनामयं पुण्यक्रियावस्तु सर्वं तत्सर्वहेतुत्वे ऽपि सति
प्रधान्यादपवर्गाय तदुक्तं सर्वदर्शिना
उत्तमार्थप्राप्तये खल्वासन्नतमो हेतुर्भावनेति कृत्वा भगवता भावनामयमेव कुशलमूलं विसंयोगाय विधियुक्तमुक्तम् । पुण्यक्रियावस्तुभेदेन त्रिप्रकारं शुभम् ।
पुनरन्येन प्रकारत्रयेण शुभभेदो व्याख्यायते-
पुण्यनिर्वाणभागीयं निर्वेधानुगुणं तथा ।
शासने ऽस्मिन्समासेन शुभमूलं त्रिधेष्यते
पुण्यभागीयं येन देवमनुष्योपपत्तिबीजं प्रतिगृह्णाति महेशाख्यैश्च कुलमहाभोगरूप्यचक्रवर्तिशक्रपुष्पकेतुब्रह्मत्वादीनां प्राप्तये फलमाक्षिपति । मोक्षभागीयं येनाविकम्प्य मोक्षाशयावस्थानादवश्यं परिनिर्वाणधर्मा भवति । निर्वेधभागीयमूष्मगतमूष्मं चतुर्विधम् ॥
अथ यदिदं लोक उच्यते लिपिमुद्रागणनासंख्येति एषां कः स्वभावः ? उच्यते-
लिपिमुद्राथ गणना कायवाक्कर्मलक्षणा ।
संख्या खल्वपि विज्ञेया मनस्कर्मस्वभाविका
तत्र तावल्लिपिमुद्रे योगप्रवर्तितं कायकर्मसमुत्थानमिति पञ्चस्कन्धात्मिका लिपिः । येन तु कर्मणाक्षराणि निर्वर्त्यन्ते तत्कर्म लिपिरित्युच्यते । नाम यत्खन्यते दन्तविषाणसुवर्णादिषु सा मुद्रा । नतु येन कर्मणा खन्यते तत्कर्मोच्यते । काव्यमपि योगप्रवर्तितं वाक्कर्मसमुत्थानं पञ्चस्कन्धाः । संख्यापि योगप्रवर्तितं मनस्कर्म । यन्मनसा संकलितं धर्माणां सा तु सपरिवारा चतुस्कन्धस्वभावेति ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायः समाप्तः ॥
पञ्चमो ऽध्यायः ।
प्रथमः पादः
उक्तानि कर्माण । अथ यदयं लोकः पञ्चगति चक्रावर्तपरिवर्तनिमित्तानि कर्माण्याचिनोति, कार्याणि चोत्सृज्याकार्यकर्मकारी भवति, दक्षिणं च मार्गं हित्वा वामं वर्त्माश्रयति, परमप्रशान्तं च परं ब्रह्मापास्यानेकदुःखोपद्रवनीडभूते संसारे जन्म प्रतिपद्यते तत्र को हेतुरित्यभिधीयते-
अकार्यप्रवणो लोको दुःखभागी च यद्वशात् ।
रागादीन् भवसंबन्धान्क्लेशान्वक्ष्यामि तानहम्
ते पुनः क्लेशाः
स्वशक्तिजक्रियोद्भूतैर्विशेषैस्ते तु नामभिः ।
आत्तसामान्यसंज्ञाकाश्चोद्यन्ते ऽनुशयादिभिः
मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0