भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 221-240

221

द्वितीया तु विहीनेन ध्रुवपाकेन कर्मणा ।
तृतीया द्वयमुक्तस्य चतुर्थी तु द्वयादृते

222

अथ यदिदं शास्त्रे योगविहितमयोगविहितं च कर्मोक्तं तस्य किं लक्षणम् ? तदभिधीयते-
अयुक्तविहितं कर्म क्लेशोपक्लेशदूषितम् ।
शिक्षालिङ्गाद्यपेतं च केचिदाहुर्विपश्चितः

223

यत्किञ्चित्खलु क्लिष्टं कायवाङ्मनस्कर्म क्लेशोपक्लेशदूषितं सर्वं तदयोगविहितम, अयोनिशोमनस्कारसमुत्थापितत्वात् । अन्ये पुनर्ब्रुवते- यत्खलु शिक्षाव्यपेतं यथा गन्तव्यं स्थातव्यमित्येवमादि, यत्तु लिङ्गवचनहीनमसंबद्धं निरर्थकं च वाक्कर्म तदयोगविहितम् । विधिभ्रष्टत्वादिति । विपर्ययाद्योगविहितं द्रष्टव्यमिति ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थस्याध्यायस्य तृतीयः पादः ॥
चतुर्थाध्याये
चतुर्थपादः ।
अथैतां परमगम्भीरां दुरवबोधां प्रकृतिपुरुषेश्वरादिकुदर्शनतिमिरोत्सादनकरीं कर्मस्वकतां कः स्वयमभिसंबुद्ध्य लोकानुग्रहाय प्रदर्शयतीति ? ब्रूमः । पुरुषः तु सो बोधिसत्त्वः ।
स पुनः किं चित्तोत्पादात्प्रभृति बोधिसत्त्वो भवति ? अथ लाक्षणिककर्माक्षेपेण, आहोस्विच्चरमभविक इति ? अत इदं प्रस्तूयते-
बोधिसत्त्वः कुतो यावदविवर्त्यमना यतः ।
बध्नाति बोधिसन्नाहमङ्गीकृत्वा जगद्धितम्

224

यतः प्रभृति कल्याणमित्रं भगवन्तं सम्यक्संबुद्धमापद्य तदुपदर्शितदक्षिणमार्गः योनिशो मनसिकाराधिष्ठितबुद्धिः कृत्स्नं लोकमत्राणमशरणमपरायणं पञ्चगतिमहावर्ते जातिजराव्याधिमरणादिदुःखक्षाराम्भसि, कर्मराक्षसाधिष्ठिततीरे, पापमित्रकुम्भीरानुबद्धबेले, रूपादिविषयविकल्पपवनोद्धततृष्णातरङ्गे, मोहकर्णधारपरिभ्रामितबुद्धिनौके संसारमहासमुद्रे निमग्नमवलोक्य कृपाविष्टचेतास्तदभ्युद्धरणाय वीर्यबाहुमभिप्रसार्य, अविवर्त्यं चित्तमेवमुत्पादयति- ( जैनि_186 ) अविद्यान्धःकारोपहतबुद्धिनयनो ऽयं लोकः स मया सम्यग्दृष्टिप्रभावभासितेन शीलसंक्रमेणोत्तारयितव्यः । प्रतिघभुजङ्गदंष्ट्रा विषदूषितो ऽयं लोकः स मया मैत्र्यागदेन प्रशमितव्यः । तृष्णापिशाचीललिताभिभूतमतिरयं लोकः स मया शमथबलेन तृष्णानिरोधसुखं लम्भयितव्यः । परामर्शभूतग्रहाविष्टो ऽयं लोकः स मया विमोक्षसुखस्वस्त्ययनेन निर्भयममृतपदं प्रवेशयितव्यः । मानगिरिशिखराधिरूढबुद्धिरयं लोकः स मया कर्मस्वकताज्ञानवज्रेण मानगिरीन्विचूर्ण्य प्रशान्तमानमदामर्शशान्तिपदे स्थापयितव्यः । विचिकित्साकथंकथीभावशल्यविद्धहृदयो ऽयं लोकः स मया प्रतीत्यसमुत्पादप्रविचयशलाकया काङ्क्षाशल्यमुत्पाट्यामृतरसं पाययितव्यः । जराव्याधिमरणमकरदंष्ट्रान्तर्गतो ऽयं लोकः स मया सर्वानर्थवियुक्तं निर्वृतिसुखं प्रापयितव्यः । श्रद्धादिगुणधनदरिद्रो ऽयं लोकः स मया बोध्यङ्गरत्नखचिते महति गुणैश्वर्यपदे सन्निवेशयितव्यः । इत्येतस्मादविवर्त्याद् बोधिचित्तोत्पादात्प्रभृति बौधिसत्त्वो वक्तव्य इत्याचार्यकम् ॥
यत्तर्हि शास्त्र उक्तम्- "बोधिसत्त्वः कुतः प्रभृति ? यतो लक्षणवैपाक्यं कर्म करोति" इति । नैष दोषः । यस्मादसौ-
यदा लाक्षणिकं कर्म प्रकरोत्यनपायगः ।
महाकुलः समग्राक्षः स्वपर्षत्संग्रहे रतः

225

पुमाञ्जातिस्मरो वाग्मी प्रज्ञावीर्यक्रियान्वितः ।
यदा खल्वयं पुरुषत्वजातिस्मरत्वादिषु पदस्थानेषु नियतीभतो भवति-
तदा देवमनुष्याणामभिव्यक्तिं निगच्छति

226

अतो ज्ञानप्रस्थाने ऽस्मादवधेः प्रभृति बोधिसत्त्वः अनेनाभिप्रायेण पठितः ।
स हि त्रिभिरसंख्येयैर्धर्मकायगुणार्णवम् ।
प्रचिनोति तदाधारं कायं कल्पशतेन तु

227

द्वात्रिंशल्लक्षणोपेतमशीतिव्यञ्ज नोज्ज्वलम् ।
द्विषतामपि यं दृष्ट्वा मनः सद्यः प्रसीदति

228

एषा खलु धर्मता यत्त्रिभिः कल्पासंख्येयैरनिरस्तश्रद्धाशीलश्रुतत्यागप्रज्ञादिगुणधनैश्वर्यप्रयोगानां भगवतां सम्यक्संबुद्धानां पुरुषोत्तमानां धर्मकायचरणपरिसमाप्तिर्भवति । कल्पशतेन खड्गविषाणकल्पानां प्रत्येकबुद्धानाम् । षष्ठ्या कल्पैः प्रज्ञावतामग्र्याणाम् । चत्वारिंशद्भिः ऋद्धिमच्छ्रेष्ठानाम् । विंशतिभिः कल्पैः श्रुतधरप्रवराणां धर्मकायचरणपरिपूरिर्भवति ।
यत्पुनर्जन्मशरीरं भगवतां सम्यक्संबुद्धानां बोधेराश्रयभूतं द्वात्रिंशता महापुरुषलक्षणैः खचितमशीत्यानुव्यञ्जनैर्विराजितम्, यत्खलु दृष्ट्वा स्वविकल्पसमुत्थितप्रतिघदूषितबुद्धीनामपि ( जैनि_188 ) मारपक्ष्याणां तीर्थ्याणां च मनः प्रसीदति ।
कानि पुनस्तानि द्वात्रिंशन्महापुरुषलक्षणानि ? कानि वाशीत्यनुव्यञ्जनानि ? तदिदं प्रदर्श्यते-
तत्र तावदमूनि द्वात्रिंशन्महापुरुषलक्षणानि-
बुद्धा हि भगवन्तः सममहीतलाक्रमणात् सुप्रतिष्ठितपादाः ॥ 1 ॥
सहस्रारसनाभिकसनेमिकसर्वाकारपरिपूर्णचक्राङ्कितपाणिपादत्वाच्चक्राङ्कहस्तपादाः ॥ 2 ॥
आयतहस्तपादाङ्गुलित्वाद्दीर्घाङ्गुलयः ॥ 3 ॥
दीर्घायतत्वादायतपार्ष्णिपादाः ॥ 4 ॥
तूलपिचुतरुणसुकुमारोपमकोमलकरचरणत्वान्मृदुतरुणपाणिपादाः ॥ 5 ॥
अभिताम्राष्टापदविचित्रतनुजालावनद्धत्वादभिजातहंसराजवज्जालावनद्धपादाः ॥ 6 ॥
उच्चैः सुजातगुल्फत्वादुच्छङ्कुचरणाः ॥ 7 ॥
अनुपूर्वोपचितवृत्ततरगर्भैणेयमृगजङ्घत्वादैणेयजङ्घाः ॥ 8 ॥
प्रांशुबाहुत्वादनवनतकायजानुमण्डलस्पर्शिनः ॥ 9 ॥
परमाभिरूपनिर्गूढपुरुषनिमित्तत्वादभिजातहस्त्यश्वाजानेयवत्कोशगतवस्तिगुह्याः ॥ 10 ॥
कायव्यामसमायामत्वान्न्यग्रोधपरिमण्डलाः ॥ 11 ॥
अनुपूर्वोर्ध्वमुखजातत्वादूर्ध्वाङ्गरोमाणः ॥ 12 ॥
सुविभक्ताद्वितीयनीलजातरोमत्वादेकैकाभिनीलप्रदक्षिणावर्तरोमाणः ॥ 13 ॥
उत्तप्तहाटकसन्निभदृग्व्याममात्रप्रभावभासनात् सुवर्णवर्णाः ॥ 14 ॥
सुपरिकर्मीकृतरजतजातरूपश्लक्ष्णच्छवित्वाद्रजोमलानुपक्लेशनाच्च सूक्ष्मच्छवयः ॥ 15 ॥
समुपचितहस्तपादांसग्रीवत्वात्सप्तोत्सदकायाः ॥ 16 ॥
काञ्चनशिलातलश्लक्ष्णोपचितोरस्कन्धाच्चितान्तरांसाः ॥ 17 ॥
सिंहवद्विस्तीर्णसंहतोर्ध्वाङ्गत्वात्सिंहपूर्वार्धकायाः ॥ 18 ॥
अवक्रोपचितदशतालसमुच्छ्रितत्वाद् बृहदृजुगात्राः ॥ 19 ॥
समन्तोपचितमांसनिर्गूढजत्रुदेशत्वात्सुसंवृत्तस्कन्धाः ॥ 20 ॥
अधस्तादुपरिष्टाच्च समदन्तविंशतित्वाच्चत्वारिंशद्दन्ताः ॥ 21 ॥
अनुन्नतावनतसमप्रमाणत्वात्समदन्ताः ॥ 22 ॥
निरन्तरावस्थितत्वादविरलदन्ताः ॥ 23 ॥
कुन्देन्दुशङ्खावभेदसितत्वाच्छक्लदन्ताः ॥ 24 ॥
श्लक्ष्णवृत्तोपचितदर्शनीयमहाहनुत्वात्सिंहहनवः ॥ 25 ॥
वातपित्तश्लेष्मानभिभूतरसहरणिरसारसप्रविभावनासदृशविज्ञानत्वाद्रसनरसाग्रप्राप्ताः ॥ 26 ॥
विस्तीर्णपेशलत्वाज्जिह्वायाः सर्वमुखमण्डलप्रतिच्छादनात्प्रभूततनुजिह्वाः ॥ 27 ॥
गम्भीरवल्गुहृदयङ्गमविस्पष्टश्रवणीयपञ्चाङ्गोपेतस्वरत्वाद्ब्रह्मस्वराः ॥ 28 ॥
कलविङ्कमनोज्ञभाषिणो दुन्दुभिस्वरनिर्घोषाः ॥ 29 ॥
शुक्लकृष्णप्रदेशानुपक्लिष्टलोहितराज्यविनद्धनीलोत्पलसमानवर्णत्वादभिनीलनेत्राः ॥ 30 ॥
अधरोर्ध्वावस्थितानां सम्यगवनतासंलुडितदीर्घत्वादक्षिपक्ष्माणां गोपक्ष्माणः ॥ 31 ॥
वृत्तपरिमण्डलसमानुपूर्वोपचितदर्शनीयास्थिवज्रजातमूर्धत्वादुष्णीषालङ्कृतशिरसः शङ्खावदातप्रदक्षिणावर्तोर्णाविद्योतितभ्रूविनतत्वादूर्णाङ्कितमुखाः ॥ 32 ॥
एतानि द्वात्रिंशन्महापुरुषलक्षणानि बुद्धानां भगवतामिति ॥
अशीत्यनुव्यञ्जनान्यप्युच्यन्ते । बुद्धा हि भगवन्तः अपृथुप्रमाणमृदुताम्रतुङ्गस्निग्धनखाः ॥ 1 ॥
वृत्तनिरन्तरानुपूर्वोपचिताङ्गुलयः ॥ 2 ॥
निर्ग्रन्थिनिर्गूढाल्पतनुशिराप्रतानाः ॥ 3 ॥
निर्गूढसमातीक्ष्णगुल्फाः ॥ 4 ॥
अविषमावक्ररक्तस्निग्धपादाः ॥ 5 ॥
मृगपतिद्विरदवृषभहंसराजप्रदक्षिणावर्तचारुगतयः ॥ 6 ॥
अलोमसाश्लेषसमप्रमाणोभयजङ्घाः ॥ 7 ॥
सुवृतसमसंहतनिर्गूढजानवः ॥ 8 ॥
कदलीस्कन्धोपमपीननिबिडाविषमानुपूर्वोपचितचारूरवः ॥ 9 ॥
अर्धचन्द्राकृतिविस्तीर्णसमुन्नतापगतरोमवक्षाणः ॥ 10 ॥
श्लक्ष्णसुसंहतचतुरस्त्रनाभ्यायतकुकुन्दरसुन्दरकटीदेशाः ॥ 11 ॥
गम्भीराच्छिद्ररक्तप्रदक्षिणावर्तनाभयः ॥ 12 ॥
श्लक्ष्णालोमशाश्लथानुक्रमक्षामोदराः ॥ 13 ॥
अनाभुग्नानिभुग्नसुवत्तपष्ठकुक्षयः ॥ 14 ॥
समवतीर्णोपचितनातिदीर्घश्लक्ष्णपार्श्वाः ॥ 15 ॥
अनिम्नोपचितह्रस्ववज्रसंस्थानोपपन्नसूक्ष्मदीर्घलेखाङ्कितादृश्यारिथसन्धिचारुपृष्ठाः ॥ 16 ॥
विस्तीर्णोपचितदृढसन्धिहृदयाः ॥ 17 ॥
अविषमोन्नतविस्तीर्णोरसः ॥ 18 ॥
अनतिस्थूलोन्नतशङ्खावर्तनिभसूक्ष्मलेखापरिक्षिप्तसमरक्तस्तनाः ॥ 19 ॥
हृदयविप्रकृष्टदेशजातत्वाद्विस्तीर्णस्तनान्तराः ॥ 20 ॥
मांसोपचितानतिविस्तीर्णत्वादुन्नतकक्षाः ॥ 21 ॥
स्थूलदृढसुबद्धनिमग्नसमाक्षकाः ॥ 22 ॥
अश्लक्ष्णपृथुमांसनिमग्नाविषमप्रमाणस्फिजः ॥ 23 ॥
करिकरनिभनिर्गूढसन्धिपीनकठिनश्लक्ष्णसमबाहवः ॥ 24 ॥
वर्तितश्लक्ष्णरोमशसिंहोपमदृढप्रकोष्ठाः ॥ 25 ॥
समताम्रदीर्घपाणयः ॥ 26 ॥
गम्भीराच्छिद्रासंकीर्णवक्रायतस्निग्धतनुताम्रपाणिलेखाः ॥ 27 ॥
सूक्ष्मयमलीकृताध्याकुलारक्ताङ्गुलिपर्वाणः ॥ 28 ॥
अनामिकापर्वाधिकप्रमाणकनीनिकाङ्गुलयः ॥ 29 ॥
अनतिबहुतनुमृदुस्निग्धसुबद्धमूलसमरोमाणः ॥ 30 ॥
स्निग्धासंकुचितानुपहतसारच्छवयः ॥ 31 ॥
शोतोष्णस्पर्शाव्यकच्छवीव वर्णाः ॥ 32 ॥
स्थिरनिबिडानतिस्थूलानतिकृशमांसाः ॥ 33 ॥
जवापुष्पाभिताम्रस्वच्छस्निग्धमधुरचन्दनगन्धिरुधिराः ॥ 34 ॥
मांसोपगूढस्थूलदृढसुशिरास्थिकाः ॥ 35 ॥
नागग्रन्थ्यवस्थितनिर्गूढास्थिसन्धयः ॥ 36 ॥
वज्रवदभेद्यशरीरत्वात्सुसंहननाः ।37 ॥
चारुसुविभक्ताङ्गप्रत्यङ्गाः ॥ 38 ॥
अनुपूर्वोपचितसुपरिमृष्टसुकुमारादीप्तस्वच्छशरीराः ॥ 39 ॥
निर्मशकतिलकालपिल्याः ॥ 40 ॥
जरादौर्बल्यकृतापगतवलयः ॥ 41 ॥
सिंहशय्यानुष्ठानव्यपगतकायविक्षेपाः ॥ 42 ॥
स्वेदमलानुपक्लिष्टशुचिसौम्यच्छायाः ॥ 43 ॥
ज्वलनमणिमहौषधिशशाङ्कसवितृसमतेजसः ॥ 44 ॥
महीधरवरगुरुत्वोपेताः ॥ 45 ॥
ऋतुसुखकालिन्दिकसुखसंस्पर्षाः ॥ 46 ॥
मधुरमृदुसुरभिकुसुमचन्दनसमानरोमकूपगन्धाः ॥ 47 ॥
अभिनवनीलोत्पलतुल्यसार्वकालिकमुखगन्धाः ॥ 48 ॥
अद्भुतमृदुदीर्घस्निग्धपिण्डितव्यपगतशब्दनिश्वासाः ॥ 49 ॥
अनशनकदन्नाशनातङ्कात्तु विपरिणामानुपरतधर्मदेशनाभिरप्यसञ्जितस्वरभेदाः
॥ 50 ॥
नातिसंकुचितविदारितरक्तास्याः ॥ 51 ॥
शुचिसमाचाराः ॥ 52 ॥
देशस्थ त्तप्तविस्पष्टपरिपूर्णव्यञ्जनाः ॥ 53 ॥
समन्तप्रासादिकत्वादसेचनकदर्शनाः ॥ 54 ॥

अनतिह्रस्वानतिदीर्घवृत्तोपचितत्रिवलिविभूषितकम्बुग्रीवाः ॥ 55 ॥
समप्रमाणदृढावक्रह्रस्वविपुलचिबुकाः ॥ 56 ॥
बिम्बफलाताम्रनात्यायतसमस्निग्धरुचिरौष्ठाः ॥ 57 ॥
बन्धूकपुष्पोपमश्लक्ष्णदशनमांसाः ॥ 58 ॥
शुचिस्निग्धस्पष्टरचनाक्षीणदन्ताः ॥ 59 ॥
अनुपूर्ववृत्तस्निग्धतीक्ष्णसमसितदंष्ट्राः ॥ 60 ॥
सप्रयोजनदक्षिणदन्तरश्मिप्रदर्शितमुहूर्तस्मिताः ॥ 61 ॥
अपमलमृदुताम्रस्निग्धजिह्वाः ॥ 62 ॥
नित्योष्णश्लक्ष्णमांसजालगजतालुसमवर्णतालवः ॥ 63 ॥
धुरोच्चायतसंगततुङ्गनासाः ॥ 64 ॥
अघनमृदुदृढमूलस्निग्धतनुनीलकुण्डलितस्मश्रुवः ॥ 65 ॥
अनुन्नतातीक्ष्णमांसलमार्ष्टिपिण्डितगण्डाः ॥ 66 ॥
आदर्शसमोपचिताश्लथरुचिरकपोलाः ॥ 67 ॥
पीनायतसमानोपहतचारुकर्णाः ॥ 68 ॥
ललाटकर्णगण्डसन्धिश्लेषानिम्नपूर्णचन्द्राकृतिशङ्खाः ॥ 69 ॥
विशालायतस्निग्धमधुरप्रसन्नसमनेत्राः ॥ 70 ॥
प्रहसिताञ्चिताग्रपक्ष्माणः ॥ 71 ॥
सोम्यभ्राजिष्णुस्थिरविसन्धिदृष्टयः ॥ 72 ॥
अपरिमितबलत्वादपगतोन्मेषनिमेषाः ॥ 73 ॥
दीर्घासितश्लक्ष्णानुपूर्ववर्तितस्निग्धतनुभ्रुवः ॥ 74 ॥
काञ्चनपट्टश्लक्ष्णार्धचन्द्राकृतिविपुलललाटाः ॥ 75 ॥
परिपूर्णचन्द्रमण्डलसमवदनाः ॥ 76 ॥
एकघनवज्रसंहतशिरस्कपालाः ॥ 77 ॥
सुपरिपूर्णच्छत्राकृतिशिरसः ॥ 78 ॥
श्लक्ष्णचितासंलुडितपलितदोषापनतभ्रमराभस्निग्धमृदुसुबद्धमूलसुरभिस्वस्तिकनन्द्यावर्ताकृतिकेशरचनाः ॥ 79 ॥
ससुरासुरमनुजादिलोकानवलोकितमूर्धानः ॥ 80 ॥
अथ तदाद्यं बोधिचित्तं बोधिसत्त्वानां दाढर्येण कथमिव द्रष्टव्यम् ? नैतल्लौकिकेन वस्तुनोपपादयितुं शक्यम् । कस्मात् ? यतः
युगान्तवायुना मेरुः वह्निना वरुणालयः ।
वज्रेण ध्वस्यते वज्रमविकारि तु तन्मनः

229

किं पर्यापन्नम्, कतरत्, कति प्रकारम्, किं पुरस्सरम्, कस्मिन्वा काले को वा तदुत्पादयति ? इत्येतदपदिश्यते -
कामाप्तं षष्ठजं त्रेधा कृपाश्रद्धापरम्परम् ।
बुद्धोत्पादे नरः स्त्री वा तदाद्यं चित्तमश्नुते

230

तत्खलु बोधिचित्तमाद्यं कामधातुपर्यापन्नमेव । षष्ठजं मनोधातुजमित्यर्थः । त्रिप्रकारमुपपत्तिलाभिकं श्रुतमयं चिन्तामयं चेति । कृपापुरस्सरेण श्रद्धाबहुलेन च मनस्कारेण संप्रयुक्तम् । बुद्धोत्पाद एव नासति बुद्धशासने । मनुष्यो वा स्त्री वोत्पादयति नान्य इति ।
तस्यास्य बोधिबीजस्थानीयस्य चित्तरत्नस्य सर्वधातुगतिव्यापिबुद्धत्वमहावृक्षाङ्कुराभिवृद्धये भूमिजलसेकादिहेतुप्रत्ययस्थानीयान् प्रज्ञादिचतुरधिष्ठानपरिवारान्पारमिताद्यान्गुणान्वक्ष्यमाणस्वरूपान्बोधिसत्त्वः क्रमेणाभ्यस्यति ।
कथं पुनः क्रमेण दानादिपारमितानां परिपूरिर्भवति ? तत्र तावत्-
सर्वेभ्यः सर्वदा सर्वं वदतो दानपूरणम् ।
प्रथमे खल्वसंख्येये वर्तमानो बोधिसत्त्वः न सर्वस्मै नापि सर्वं न सर्वदा ददाति । द्वितीये सर्वस्मै सर्वदा नतु सर्वम् । तृतीये सर्वै सर्वस्मै सर्वदा च प्रयच्छति । इयता दानपारमिता परिपूर्णा भवति ।
मरणे ऽपि दमात्यागः शीलस्योत्कृष्टिरुच्यते

231

यदा पुनः प्राणपरित्यागेनापि प्राणातिपातादिशिक्षापदं न क्षोभयति, इयता शीलपारमिता परिपूर्णा वेदितव्या । क्रौञ्चादिराजदुहिताभिक्षुदृष्टान्ताश्चात्रोदाहार्याः ।
वीर्यस्य तिष्यसंस्तुत्या धियो वज्रोपमात्परम् ।
भगवन्तं खलु तिष्यं सम्यक्संबुद्धं एकया गाथया एकपादेन स्थित्वा सप्ताहमभिष्ठुवतः शाक्यमुनेर्वीयपारमिता परिपूर्णा नव च कल्पाः प्रत्युदावर्तिताः ।
प्रज्ञापारमितायास्तु वज्रोपमात्समाधेरुर्ध्वं क्षयज्ञाने परिपूरिर्भवति ।
ऽसर्वासां तु क्षयज्ञाने परिपूरिर्विधीयतेऽ;

232

इत्यागमः ।
अत्र पुनः "क्षान्तिध्यानपारमिते शीलप्रज्ञापरिवारत्वान्नार्थान्तरम्" इति वैभाषिकाः । विनयधरवैभाषिकास्तु विनये चतस्रः पारमिताः पठन्ति ।
अत्र पुनः केचिद् बुद्धवचने बहिष्कृतबुद्धयः प्राहुः- "न हि पिटकत्रये भगवता बोधिसत्त्वमार्ग उपदिष्टः ।" त एवं व्याहर्तव्याः । भ्रान्ता ह्यत्र भवन्तः । यस्मात्
त्रिपुण्यकृतिवस्त्वाद्यास्तल्लाभोपायदेशनाः ।
तथा चतुरधिष्ठानं सप्तसद्धर्मशासनम्

233

सप्तयोगास्त्रयःस्कन्धास्त्रिशिक्षाद्याश्च देशिताः ।
तथा पारमिताश्चापि चतस्रो विनयोदिताः

234

बोधिपक्ष्याश्च कण्ठोक्ताः सप्तत्रिंशत्स्वयंभुवा ।
हेतवः सर्वबोधिनां त्रिविधा मृदुतादिभिः

235

तस्मान्न बोधिमार्गो ऽन्यः सूत्रादिपिटकत्रयात् ।
अतो ऽन्यमिह यो ब्रूयात्स भवेन्मारभाषितः

236

उक्तं हि भगवता- "यद्भिक्षवः सूत्रेनावतरति, विनयेन दृश्यते, धर्मतां च विलोमयति नेदं शास्तुः शासनम्" इति कृष्णापदेशः । शुक्लापदेशोविपर्ययेण । यत्खलु सूत्रं भगवता बुद्धेन भाषितं तच्चतुर्ष्वागमेषु स्थविरमहाकाश्यपस्थविरानन्दादिभिः संगीतिकर्तृभिरूद्दानगाथाभिर्निबद्धं तदेव ग्राह्यम् । गतमेतत् ।
इदमिदानीं वक्तव्यम् । कतमेषां कल्पानामसंख्येयत्रयेण बुद्धत्वं प्राप्यते ?
कल्पानां महतामेतदसंख्येयत्रयं मतम् ।
कल्पानां यदि संख्या न विद्यते कथं तर्हि त्रयमिति निर्धार्यते ? न खलु संख्या न विद्यते । किं तर्हि ?
स्थानान्तरमसंख्याख्यमदःसंख्योपरि स्थितम्

237

स्थानान्तरविशेषस्य खल्वेतन्नामासंख्येयमिति । न तु न संख्या विद्यत इत्येतद्विवक्षितम् ।
अथ यं शाक्यमुनिर्भगवान्सम्यक्संबुद्धो बोधिसत्त्वचर्यायामेषु त्रिष्वसंख्येयेषु कियतां बुद्धानां पर्युपासां चक्रे ? तदत्र वर्णयन्ति । प्रथमे ऽसंख्येये पञ्चसप्ततिसहस्राणि । द्वितीये षट्सप्ततिम् । तृतीये सप्तसप्ततिम् ।
कस्य पुनः कल्पासंख्येयस्यावसाने कतमो बुद्धो बभूव ? अत्रापि वर्णयन्ति । रत्नशिखिनि सम्यक्संबुद्धे प्रथमो ऽसंख्येयः समाप्तः । भगवति दीपङ्करे द्वितीयः । भगवति विपश्यिनि तृतीयः समाप्तः ।
कस्मिन्पुनः सम्यक्संबुद्धे बुद्धत्वे प्रथमं चित्तमुत्पादितम् ? शाक्यमुनी । शाक्यमुनिर्नाम प्रथमस्यासंख्येयस्यादौ बभूव यत्र भगवता भार्गवभूतेन सुखोदकेनाङ्गपरिचर्याभिरुपस्थानं कृत्वा प्रथमं बोधिचित्तमुत्पादितमहमप्येवं प्रकारो भूयासमिति ।
प्रभासेतुराजनि तदेव पुनर्द्रढिमानमापादितमिति ॥
कस्मिन्पुनः काले बुद्धा भगवन्तो बुद्धादित्याः प्रादुर्भवन्ति ? तदारभ्यते-
अपकर्षे जिनोत्पत्तिर्यावच्छतसमायुषः ।
द्वयोः प्रत्येकबुद्धानामुत्कर्षे चक्रवर्तिनाम्

238

कल्पापकर्षे खलु बुद्धानामुत्पत्तिर्भवति । उत्कर्षे चापकर्षे च प्रत्येकजिनानाम् । उत्कर्ष एव चक्रवर्तिनाम् ॥
चक्रवर्तिनां पुनरयं नियमः-
नाधो ऽशीतिसहस्रायोस्तत्समुत्पत्तिरिष्यते ।
अशीतिबर्षसहस्रायुर्भ्यश्चक्रवर्तिनामूर्ध्वमुत्पत्तिर्भवति नाध इति ।
ते हेमरूप्यताम्रायश्चक्राः पुण्यप्रभावतः

239

चतुर्विधाः खलु चक्रवर्तिनः- सौवर्णचक्राः, रूप्यचक्राः, ताम्रचक्राः, लोहितचक्राश्च स्वपुण्यप्रकर्षादिति । यथाक्रमं चैते चतुस्त्रिद्व्येकद्वीपेश्वराः ॥
अथ यदुक्तम्- ऽतस्मान्न बोधिमार्गो ऽन्यः सूत्रादिपिटकत्रयात् ।ऽ; इति । यदि तर्हि मार्गभेदो नास्ति बुद्धप्रत्येकबुद्धश्रावकानां फलभेदेनापि तर्हि न भवितव्यम् । नैष दोषः । यस्मात्-
तुल्ये ऽपि साधनोपाये तद्भेदो ऽक्षादिभेदतः ।
भवमोक्षार्थिनोर्मात्रोः प्रदानफलभेदवत्

240

यावत्खलु कश्चिद्गुणः सम्यक्संबोधिमभिसंबुध्य भगवता देशितो विनिर्मुक्तिद्वयप्राप्तिहेतुभूतः सर्वो ऽसौ पिटकत्रयानुवर्ती । तत्पुनर्विमुक्तिद्वयं ( जैनि_204 ) त्रिभिः पुद्गलैः प्राप्यते । भगवता सम्यक्संबुद्धेन प्रत्येकजिनेनार्यश्रावकेण च । तेषां पुनस्तुल्ये बोधिवर्त्मनि पतितानामिन्द्रियप्रणिधानावरणभेदाद्भेदः । तद्यथा द्वयोर्मात्रोस्तुल्यं वस्तु तुल्ये क्षेत्रे प्रतिपादयतोश्चेतनाविशेषादतुल्यं ( जैनि_205 ) फलं भवति, तद्वदुत्तमार्थं प्रार्थयमानानां त्रयाणामपि पुद्गलानां प्रणिधानेन्द्रियसततघननिरन्तरभावनाप्रयोगपटुत्वाभ्यासादिविशेषात्तुल्ये ऽपि मार्गे पतितानां कश्चित्फलविशेषो भवति ।
इतश्च
करुणाभावनोद्रेकात्स्वसंविच्चित्तयोस्तथा ।
परसंविद्गुरोस्तद्वत्तद्विशेषो विधीयते

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc