भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 201-220

201

एकेन तावत्सह वर्तते । विनान्येनाभिध्यादिसंमुखीभावे अक्लिष्टचेतसो वा तत्प्रयोगेण रूपिणामन्यतमनिष्ठागमने ।
द्वाभ्यां सह वर्तते । व्यापन्नचित्तस्य प्राणिवद्ये । अभिध्याविष्टस्य चादत्तादाने काममिथ्याचारे संभिन्नप्रलापे वा ।
त्रिभिः सह । व्यापन्नचित्तस्य परकीयप्राणिमारणापहरणे युगपत् । अभिध्याविष्टस्य तत्प्रयोगेण रूपिद्वयनिष्ठागमने त्रिभिरेव ।
चतुर्भिः सह वर्तते । भेदाभिप्रायस्य नन्दनवचने परुषवचने वा । तत्र हि मानस एको भवति वाचिकास्त्रयः । अभिध्यादिगतस्य वा तत्प्रयोगे ऽन्यत्रयनिष्ठागमने ।
एवं पञ्चषट्सप्तभिर्योज्यम् ।
अष्टाभिः सह वर्तते । षट्सु प्रयोगं कृत्वा परे संप्रेषणेन स्वयं काममिथ्याचारं कुर्वतः समनिष्ठागमने । एवं तावदकुशलः ॥
शुभैस्तु दशभिर्यावत्सार्धं नैकाष्टपञ्चभिः ।
शुभैः खलु कर्मपथैर्यावद्दशभिः सह वर्तत इत्युत्सृष्टिः । तदपवादोयम्- ऽनैकाष्टपञ्चभिःऽ; । न खल्वेकेन पञ्चभिरष्टाभिर्वा सह वर्तते ।
तत्र द्वाभ्यां सह वर्तते । कुशलेषु पञ्चसु विज्ञानेषु स्थितस्यारूप्यसमापत्तिसंगृहीते च क्षयानुत्पादज्ञानसंप्रयुक्ताविज्ञानं तत्संप्रयुक्ता च प्रज्ञानदृष्टिरिति ।
त्रिभिः सह वर्तते । सम्यग्दृष्टिसंप्रयुक्ते मनोविज्ञाने । यत्र संवरो नास्ति ।
चतुर्भिरकुशलाव्याकृतचित्तस्योपासकस्य श्रामणेरसंवरसमादाने ।
षड्भिः कुशलेषु पञ्चसु विज्ञानेषु तत्समादाने ।
सप्तभिः कुशले मनोविज्ञाने तत्समादान एव । अकुशलाव्याकृतचित्तस्य च भिक्षुसंवरसमादाने ।
नवभिः कुशलेषु पञ्चसु विज्ञानेषु तत्समादाने, क्षयानुत्पादज्ञानसंप्रयुक्ते च मनोविज्ञाने तस्मिन्नेव च ध्यानसंगृहीते ।
दशभिस्ततो ऽन्यत्र कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव । सर्वा च ध्यानानास्रवसंवरसमावर्तिनी चेतनान्यत्र क्षयानुत्पादज्ञानाभ्याम् । संवरनिर्मुक्तेन त्वेकेनापि सह स्यादन्यचित्तस्यैकाङ्गविरतिसमादाने । पञ्चाष्टाभिरपि स्यात् । कुशलमनोविज्ञानस्य द्विपञ्चाङ्गसमादाने युगपत् ।
कस्यां पुनर्गतौ कति कुशलाश्चाकुशलाश्च कर्मपथाः संमुखीभावतः समन्वागतो वा सन्तीति ?
विलापद्वेषपारुष्याण्युषन्ति नरके द्विधा

202

एते त्रयः संभिन्नप्रलापपारूष्यव्यापादा नारके संमुखीभाव तः समन्वागमतश्च विद्यन्ते ।
तद्वदेव मताभिध्या मिथ्यादृष्टिस्तथैव च ।
केचित्खलु ब्रुवते- अभिध्या मिथ्यादृष्टिश्चापि द्वाभ्यां प्रकाराभ्यां विद्येते ।
अन्ये पुनराहुः- समन्वागमत एवाभिध्यामिथ्यादृष्टी विद्येते । रञ्जनीयवस्त्वभावात्, कर्मफलप्रत्यक्षत्वाच्च ।
तच्चैतदकारणम् । तत्र तावत्तृष्णाविद्याधिमात्रतमत्वादिति पूर्वमपाक्षिकः ।
अभिध्यादित्रयं तद्वत्कुरौ प्रलपनं द्विधा

203

कुरौ खल्वेवमेव त्रयो ऽभिध्याव्यापादमिथ्यादृष्टयः ।
अन्ये पुनराहुः- समान्वागमत एव न संमुखीभावतः अममापरिग्रहत्वात्, स्निग्धसन्तानत्वादाघातवस्त्वभावादपापाशयत्वाच्च ॥
अशुभास्तु दशान्यत्र
नरकोत्तरकुरुभ्यां कामधातौ द्वाभ्यां प्रकाराभ्यां दशाशुभा विद्यन्ते ।
सर्वत्र कुशलास्त्रयः ।
शुभास्तु ऽत्रयःऽ; । त्रयो ऽनभिध्याव्यापादसम्यग्दृष्टयः सर्वत्र त्रैधातुके पञ्चस्वपि गतिषु द्वाभ्यां प्रकाराभ्यां सन्तीति ।
आरूप्यार्यासंज्ञिनां च रूपिणः सप्त लाभतः

204

आरूप्येषु खल्वार्याणामेवातीतानागतेनानास्रवसंवरेण समन्वागमो ऽस्त्यसंज्ञिनां च । ध्यानसंवरेण यावद्भूभ्याश्रयं ह्यनास्रवशीलमार्य उत्पादितनिरोधितं कृत्वा आरूप्येषूपपन्नो भवति तेनातीतेन समन्वागतो भवति । षड्भूभ्याश्रयेणानागतेनापि, न तु संमुखीभावतः, आरूप्याणां चतुस्कन्धात्मकत्वादसंज्ञिसत्त्वानां चाचित्तकत्वात् । भूतचित्तप्रतिबद्धो हि तत्संवरसंमुखीभावः ॥
कुरून्सनरकान्हित्वा सर्वत्रान्यत्र ते द्विधा ।
कुरून् हित्वा नरकांश्च । अन्यत्र गतौ संमुखीभावतो ह्येते सप्त कुशलाः कर्मपथा विद्यन्ते । संवरनिर्मुक्ता एव तु तिर्यक्प्रेतेषु । संवरसंगृहीता एव रूपधातावन्यत्रोभयथा ।
ते खल्वेते द्विविधा कर्मपथाः
सर्वे विपाकनिष्यन्दाधिपत्यफलदा दश

205

तत्राकुशलैः सर्वैरासेवितैर्भावितैर्बहुलीकृतैर्नरकेषूपपद्यते तदेषां विपाकफलम् । सचेदित्थत्वमागच्छति स मनुष्याणां सभागताम्, प्राणातिपातेनाल्पायुष्को भवति । अदत्तादानेन भोगव्यसनी । काममिथ्याचारेण सपत्नदारः । मृषावादेनाभ्याख्यानबहुलः । पैशून्येनादृढमित्रः । पारुष्येणामनोज्ञशब्दश्रावी । संभिन्नप्रलापेनानादेयवाक्यः । अभिध्यया तीव्ररागः । व्यापादेन तीव्रद्वेषः । मिथ्यादृष्ट्या तीव्रमोहः । इतीदमेषां निष्यन्दफलम् ।
प्राणातिपातेनात्यासेवितेन बाह्या भावा अल्पौजस्का भवन्ति । अदत्तादानेन परीत्तफला अल्पसस्या अशनिबहुलाः । काममिथ्याचारेण रजो ऽवकीर्णाः । मृषावादेन दुर्गन्धाः । पैशून्येनोत्कूलनिकूलाः । पारुष्येण दुःस्पर्शाः कण्डुकप्रायाश्च । संभिन्नप्रलापेन विषमपरिणामाः । अभिध्यया पचितफलाः । व्यापादेन कटुकर्मफलाः । मिथ्यादृष्ट्या बीजादपकृष्टफला अफला वा । इदमेषामाधिपत्यफलम् ।
तत्पुनरेतत्
दुःखोपसंहृतेर्दुःखमल्पायुष्ट्वन्तु मारणात् ।
तेजोनाशात्कृशौजस्त्वमिदं तत्त्रिविधं फलम्

206

यत्तेन परस्य दुःखा वेदना जनिता ततोनरकेषूपपद्यते । यदिष्टं जीवितमुपच्छिन्नं ततो ऽल्पायुः । यत्तेजो नाशितं तेन बाह्या भावाः कृशौजसः । एवमन्येषामपि योज्यम् ।
कुशलानामपि कर्मपथानामेवमेव तत्फलत्रयं विपर्ययेण लक्षयितव्यम् । प्राणिवधविरत्या सेवितया देवेषूपपद्यते । सचेदित्थत्वमागच्छति मनुष्याणां सभागतां दीर्घायुर्भवति । तदाधिपत्येनैव बाह्या भावा महोजसो भवन्तीति । सर्वं विपर्ययेण द्रष्टव्यम् ॥
अत्र पूर्वं यानि पञ्च फलान्युक्तानि तेषां कतरत्कर्म कतिभिः फलैः सफलम् ?
आनन्तर्यपथे कर्म फलवत्पञ्चभिः फलैः ।
चतुर्भिस्त्वमलेनार्यं तद्वदन्यच्छभाशुभम्

207

प्रहाणमार्गे समले पञ्चभिः फलैः कर्म सफलं भवति । तुल्या अधिका अपि तस्य पश्चादुत्पन्नाः सदशा धर्मा निष्यन्दफलम् । विपाकफलं स्वभूमिनियतो विपाकः । विसंयोगफलं यत्क्लेशप्रहाणम् । पुरुषकारफलं ये तद्बलसमुत्पन्ना धर्माः । न तथा सहभुवः । यच्चानन्तरोत्पन्नो विमुक्तिमार्गः, यच्चानागतं भाव्यते, यच्च तत्प्रहाणं तद्बलेन हि तत्प्राप्त्युपत्तिः । अधिपतिफलं स्वभावादन्ये सर्वसंस्काराः पूर्वोत्पन्न वर्ज्जा इति द्रष्टव्यम् । प्रहाणमपि तन्मार्गस्याधिपतिफलं युज्यते । तदाधिपत्येन तत्साक्षात्करणादित्यन्ये । यत्तु निर्मलप्रहाणमार्गे कर्म तच्चतुर्भिः फलैः सफलं विपाकफलं मुक्त्वा । ऽतद्वदन्यच्छुभाशुभम् ।ऽ; अन्यदपि सास्रवं यच्छुभाशुभम्, यच्च प्रहाणमार्गादन्यत्कुशलसास्रवं कर्मं यच्चाकुशलं तदपि चतुर्भिरेव फलैः सफलं विसंयोगफलं त्यक्त्वा ॥
ततो ऽन्यन्निर्मलं ज्ञेयं त्रिभिरव्याकृतं तथा ।
शेषं पुनरनास्रवं यत्प्रहाणमार्गादन्यत्, यच्चाव्याकृतं तत्त्रिभिर्विपाकविसंयोगफलं मुक्त्वा ।
फलं शुभस्य चत्वारि द्वे त्रीणि च शुभादयः

208

कुशलस्य कर्मणः कुशला धर्माश्चत्वारि फलानि विपाकफलं हित्वा । अकुशला द्वे पुरुषकाराधिपतिफले । अव्याकृतास्त्रीणि निष्यन्दविसंयोगफले हित्वा ॥
शुभाद्यास्त्वशुभस्य द्वे त्रीणि चत्वारि च क्रमात् ।
अकुशलस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफले । अकुशलास्त्रीणि विपाकविसंयोगफले हित्वा । अव्याकृताश्चत्वारि विसंयोगफलं हित्वा । अव्याकृतमपि ह्यकुशलानां निष्यन्दफलमस्ति । यथा कामावचरे सत्कायान्तर्ग्राहदृष्टी । सर्वेषां दुःखदर्शनप्रहातव्यानां समुदयदर्शनप्रहातव्यानां च सर्वत्रगानाम् ।
अव्याकृतस्य ते तु द्वे त्रीणि त्रीणि शुभादयः

209

अव्याकृतस्य कर्मणः कुशला धर्माः द्वे पुरुषकाराधिपतिफले । अकुशलास्त्रीणि विसंयोगफले हित्वा । अव्याकृतस्य तान्येव त्रीणि ॥
सर्वे चत्वार्यतीतस्य मध्यमस्य च भाविनः ।
मध्यमा द्वे स्वकस्यैव त्रीण्यनागामिजन्मनः

210

तत्र ऽसर्वेऽ; इति त्रैकालिकाः । अतीतस्य कर्मणो ऽतीतानागतप्रत्युत्पन्ना धर्माश्चत्वारि फलानि विसंयोगमपास्य । प्रत्युत्पन्नस्यापि कर्मणो ऽनागता धर्माश्चत्वारि फलान्येतान्येव । वर्तमानास्तु धर्मा वर्तमानस्य कर्मणः द्वे पुरुषकाराधिपतिफले । अजातस्य त्वजाता धर्मास्त्रीणि फलानि निष्यन्दविसंयोगफले हित्वा ॥
चत्वार्येकभुवो द्वे वा त्रीणि चापरभूमिकाः ।
स्वभूमिका धर्माः कर्मणो यथासंभवं चत्वारि फलानि विसंयोगफलं हित्वा । अन्यभूमिका धर्माः ते चेदनास्रवास्त्रीणि, विपाकविसंयोगफले हित्वा । निष्यन्दफलं ह्यधातुपतितानामन्यभूमिकं न वार्यते । सास्रवाश्चेद् द्वे, पुरुषकाराधिपतिफले ।
शैक्षाद्यास्त्रीणि शैक्षस्य त एवाशैक्षकर्मणः

211

शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणि फलानि, विपाकविसंयोगफले ( जैनि_181 ) हित्वा । अशैक्षा अप्येवम् । नैवशैक्षानाशैक्षास्त्रीण्येव निष्यन्दविपाकफले हित्वा ॥
अशैक्षस्य तु कर्मणः
एकं त्रीणि द्वयं चैव शैक्षाद्याः पश्चिमस्य तु ।
द्वे द्वे पञ्च यथासंख्यं
अशैक्षस्य खलु कर्मणः शैक्षा धर्मा एकमधिपतिफलम्, अशैक्षास्त्रीणि विपाकाविसंयोगफले हित्वा । नैवशैक्षानाशंक्षा द्वे पुरुषकाराधिपतिफले । नैवशैक्षानाशैक्षाणां पुनः शैक्षा धर्मा द्वे पुरुषाकाराधिपतिफले । एवमशैक्षाः । नैवशैक्षानाशैक्षाः पञ्चफलानि ।
दृग्घेयस्य तु कर्मणः

212

त्रीणि चत्वारि चैकं च दृष्टिहेयादयः स्मृताः ।
दर्शनहेयस्य खलु कर्मणः दर्शनहेया धर्मास्त्रीणि फलानि, विपाकविसंयोगफले हित्वा । भावनाहेयाश्चत्वारि, विसंयोगफलं हित्वा । अप्रहेया एकमधिपतिफलम् ।
ते त्वभ्यासप्रहेयस्य द्वे चत्वारि त्रिधा मताः

213

क्रमादेकद्विचत्वारि ते त्वहेयस्य कर्मणः ।
भावनाहेयस्य खलु कर्मणो दर्शनहेया धर्माः द्वे, पुरुषकाराधिपतिफले । भावनाहेयाश्चत्वारि विसंयोगफलं हित्वा । अप्रहेयास्त्रीणि, विपाकनिष्यन्दफले हित्वा । अप्रहेयस्य तु कर्मणो दर्शनप्रहातव्या धर्मा एकमधिपतिफलम् । भावनाहेया द्वे, पुरुषकाराधिपतिफले । अप्रहेयाश्चत्वारि विपाकफलं हित्वा ॥
अथ किमेकं कर्मैकं जन्माक्षिपति, अथानेकम् ? तदादर्श्यते-
एकेनाक्षिप्यतेजन्म भूरिभिः परिपूर्यते

214

एकेन खलु कर्मणा सकलमेकं जन्माक्षिप्यते । बहुभिस्तु परिपूर्यते । तद्यथा चित्रकर एकया वर्त्या कत्स्नं रूपमाक्षिपति, बह्वीभिः परिपूरयति तद्वदिति ।
अथ यदुक्तं भगवता- "कर्मस्वको ऽयं भिक्षवो लोकः" इति । तत्केयं कर्मस्वकता नाम ? तदारभ्यते-
कुशलं वाथवा पापं यदतीतं ददत्फलम् ।
स्वं कायवाङ्मनस्कर्म सा कर्मस्वकता मता

215

यत्खलु कायवाङ्मनस्कर्म स्वयं कृतं कुशलाकुशलमभ्यतीतं ददत्फलं सा कर्मस्वकता द्रष्टव्या ॥
कथं पुनः प्रतिक्षणभिदुरेषु संस्कारेषु परस्पराकृतसङ्केतेषु सत्सु, असति च नित्ये कर्तरि भोक्तरि च कर्मस्वकताभिधीयते ? तदत्र प्रतिसमाधीयते-
संवृत्या स्कन्धसन्ताने तत्क्रियाफलदर्शनात् ।
कर्तृता भोक्तृता चोक्ता निषिद्धा शाश्वतस्य तु

216

स्वात्माभ्युदयविशेषार्थः खलु कर्मारभ्यते । कश्चिदहं विशिष्टज्ञानविज्ञानसौख्यरूपकान्तिलावण्यसौष्ठवयुक्तं जन्म प्रतिलभेयेति । शाश्वते त्वात्मनि निष्क्रिये पूर्वपश्चाद्विशेषाभावात् कर्तृत्वं चात्यन्तापध्वस्तयुक्तिविधानम् । स्कन्धसन्ताने तु विशिष्टस्कन्धान्तरोत्पत्तौ सत्यां बीजजलाभिषेकाद्यनुग्रहाद् विशिष्टफलोत्पत्तिवदिति । पूर्वमेवाविष्कृतमेतदिति ॥
इदमिदानीं वक्तव्यम् ।
स्यात्कर्मस्वकता नास्ति तस्य चेति चतुष्किका ।
स्यात्खलु कर्मस्वकता नापि च तस्य कर्मणो विपाके ऽवस्थित इति चतुष्कोटिका ।
प्रथमा तत्फलस्थस्य विहानात्तस्य कर्मणः

217

यदि तस्य कर्मणः फले ऽवस्थितस्तच्च कर्म विहीनं भवति ॥
द्वितीया तत्फलस्थस्य कर्मणा तेन चान्वयात् ।
तृतीयोभययुक्तस्य चतुर्थ्यनुभयस्य तु

218

स्यात्कर्मस्वकता नापि तत्फलं वेदयिष्यति ।
द्वितीया चतुष्कोटिका । तत्र प्रथमा कोटिः-
तत्फलावस्थितस्याद्या ज्ञेया तच्चरमे फले

219

द्वितीया ध्रुवपाकस्य तद्विपाकानवस्थिते ।
तृतीया द्वयसद्भावा चतुर्थी तूभयं विना

220

तृतीया चतुष्कोटिका-
स्यात्कर्मणान्वितश्चैव नो च तत्फलवेदनम् ।
स्यात्खलु कर्मणा समन्वागतो न च तस्य कर्मणः फलं वेदयते । चतुष्कोटिका ।
आद्या दत्तविपाकेन निरुद्धानागतादिना

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc