अभिधर्मदीप (टीका सहित) · श्लोक 1-20
अभिधर्मदीपः
विभाषाप्रभावृत्तिसहितः ।
प्रथमो ऽध्यायः ।
प्रथमः पादः ।
ओम् स्वस्ति । नमः सर्वज्ञाय ।
यो दुःखहेतुव्युपशान्तिमार्गं प्रदर्शयामास नरामरेभ्यः ।
अत्र षष्ठीसमासपरिग्रहे सति मार्गसत्यं प्रधानम् । तथा चोक्तम्- "मार्गविदहं मार्गस्य ..........." इति विस्तरः । तदुक्तं भवति- यो देवमनुष्येभ्यो मार्गं प्रदर्शितवानिति ।
समाहारलक्षणद्वन्द्वपरिकल्पे तु चतुर्णामप्यार्यसत्यानां प्राधान्यम् । तथा चोक्तम्- "इदं दुःखसत्यमिति भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु धर्मचक्षुरुदपादि" इति विस्तरः । तदुक्तं भवति- यो देवमनुष्येभ्यश्चत्वार्यार्यसत्यानि प्रदर्शितवानिति ।
तत्र दुःखसत्यमेकविधमभिनिर्वृत्तिस्वाभाव्यात् । तथा चोक्तम्- "दुःखा हि भिक्षवो भवाभिनिर्वृत्तिः" इति । जात्याद्यष्टप्रकारं वा फलभूता ( जैनि_2 ) वा पञ्चोपादानस्कन्धाः । अथवा पौर्वान्तिकं पञ्चाङ्गमपरान्तिकं द्व्यङ्गं तदुभयमभिसमस्य सप्ताङ्गम् ।
समुदयसत्यमेकविधं तृष्णानिर्देशात् । द्विविधं कर्मक्लेशात्मकत्वात् । पञ्चाङ्गानि वा पौर्वान्तिकापरान्तिकाङ्गसंग्रहात्, हेतुभूता वा पञ्चोपादानस्कन्धाः ।
निरोधसत्यमेकप्रकारमप्रतिसन्धिजन्मनिरोधात् । सत्यद्वयप्रहान्णभेदाद् द्विविधम्, सोपधिनिरुपधिशेषधातुभेदाद्वा । त्रिप्रकारं वा प्रहाणविरागनिरोधधातुभेदात् । चतुष्प्रकारं वा चतुष्फलभेदात् ।
मार्गसत्यमेकप्रकारं सम्यग्दृष्टिनिर्देशात् । द्विप्रकारं वा सास्रवानास्रभेदात्, दर्शनभावनाभेदाद्वा । त्रिप्रकारं शीलसमाधिप्रज्ञास्कन्धभेदात् चतुष्प्रकारं वा प्रयोगामार्गादिभेदात् । प्रतिपद्भेदाद्वा । अष्टप्रकारं सम्यग्दृष्ट्याद्यङ्गभावात् ।
इत्येतानि चत्वार्यार्यसत्यानि परिज्ञेयप्रहातव्यसाक्षात्कर्तव्यभावयितव्यानीति भगवान् प्रदर्शयामास नरामरेभ्यस्तेषां सत्यदर्शनभव्यत्वात्तदर्थमुद्भूतत्वात् । अतस्तानेव मार्गप्रदर्शनकर्मणाभिप्रेतान् । अतस्तेषु संप्रदानाभिधायिनी चतुर्थी ।
तं सत्पथज्ञं प्रणिपत्य बुद्धं शास्त्रं करिष्याम्यभिधर्मदीपम्
ऽतम्ऽ; इति यः प्रतिविशिष्टविशेषणपरिछिन्नयच्छब्दचोदनया परिगृहीतः स तच्छब्देन पूर्वप्रकृतापेक्षोपजनितयच्छब्दसंबन्धेन संस्पृश्यते । संश्चासौ पन्थाश्च सत्पथः । अथवा सतां पन्थाः सत्पथः । तं सत्पथं जानीत इति सत्पथज्ञः । ऽतं सत्पथज्ञं प्रणिपत्यऽ; इति कायवाङ्मनस्कर्मभिरभ्यर्थ्येत्यर्थः ।
ऽबुद्धम्ऽ; इति विशिष्टविशेषणपरिच्छिन्नो ऽपि बुद्धानुसारिपुद्गलप्रतिपत्त्यर्थं साक्षात्प्रतीतपदार्थकेन नाम्नापदिश्यते बुद्ध इति । अत्र बुद्धशब्दस्य प्रसिद्धिः बुधेरकर्मकत्वविवक्षायां कर्तरि क्तो भवति । सर्वे वा ज्ञानार्था गत्यर्था इति कर्मकर्तरि क्तविधानम् । अभिधानलक्षणत्वाच्च कृत्तद्धितसमासानामचोद्यम् । दृष्टं चेदं बुद्ध इत्यभिधानं कर्तरि लोके प्रयुज्यमानम् । तद्यथा निद्राविगमे पदार्थानुबोधे ऽविद्यानिरासे च विबुद्धः प्रबुद्धो देवदत्त इति । एवं भगवानप्यविद्यानिद्राविगमात्, सर्वार्थावबोधाच्च बुद्धो विबुद्धः प्रबुद्ध इत्युच्यते । यथा वा परिपाकविशेषात् स्वयमेव बुद्धं पद्ममेवं भगवानपि प्रज्ञादिगुणप्रकर्षपरिपाकाद् बुद्धो विबुद्धः प्रबुद्ध इति । सर्वशिष्टप्रयोगाच्च । दृष्टो ह्यत्र शिष्टप्रयोगः । यथोक्तं व्यासेन ।
"एतद्बुद्ध्वा भवेद् बुद्धः किमन्यद् बुद्धलक्षणम्" इति ।
तस्मादशिष्टचोद्येष्वनादरः ।
अत्र पुनः श्लोकस्य पूर्वार्धे परार्थसंपादकं वैशारद्यद्वयं प्रदर्शितम् । तृतीये पादे स्वार्थसम्पद्द्योतकं वैशारद्यद्वयमाविष्कृतम् । न ह्यक्षीणास्रवः ( जैनि_4 ) शक्तो मार्गमाख्यातुमिति । न चासम्यक्संबुद्धः सर्वधर्मानभिसंबोद्धुमलमिति । कथं पुनरेत
दिगात्मानो वैशेषिकपरिकल्पिता असत्त्वादेव नैव नित्याः नानित्याः । असत्त्वं पूर्वमाविष्कृतम् ।
सांख्यीयमपि प्रधानं न नित्यम् । कुतः ? त्रैगुण्यस्य
सत्त्वाद्यनन्यथाभावे व्यक्ताभावः प्रसज्यते ।
तद्विकाराद्विकारित्वं प्रकृतेस्तदभेदतः
यदि सत्त्वादयो गुणाः नान्यथा भवन्ति ह्रासवृद्धिभावेन, न तर्हि किञ्चित्तेभ्यो व्यक्तमुत्पद्यते । अथान्यथा भवन्ति, अनित्यास्तर्हि प्राप्नुवन्ति । कर्मवशाददोष इति चेत्, अत्र ब्रूमः ।
न कर्म स्वकतोत्सर्गात्
यदि प्रतिपुरुषं कर्माणि बुद्धिपूर्वाण्यबुद्धिकृतानि वा प्रधाने विद्यन्ते साधारणप्रधानकल्पनावैयर्थ्यं तर्हि प्राप्तमिति । किञ्च,
ज्ञव्यक्तात्मकता मलाः ।
प्राक्पक्षे मुक्त्यभावश्च द्वितीये ऽन्ये ऽप्युपप्लवाः
यदि तानि कर्माणि पुरुषात्मकानि नन्वेवं सति मोक्षाभावः प्राप्नोति । पुरुषनित्यत्वे कर्मनित्यत्वप्रसङ्गात् । चशब्दात् पुरुषकर्तृत्वादिदोषाश्च । ऽद्वितीये ऽन्ये ऽप्युपप्लवाः ।ऽ; प्राधानात्मकपक्ष एते च दोषाः प्रसजन्त्यन्ये ऽपि चोपप्लवाः साधारणत्वादकृताभ्यागमानिर्मोक्षप्रसङ्गात् । तस्मात् त्रीण्येव च सर्वज्ञाभिहितान्यसंस्कृतानि नित्यानीति सिद्धम् ।
व्याख्याताः अष्टौ पदार्थाः- संस्कृताः पञ्च, त्रयश्चासंस्कृताः । एतावच्चैतत्सर्वं यदुत संस्कृतं चासंस्कृतं चेति ।
तच्चैतदायतनधातुव्यवस्थानेन व्यवस्थाप्यते ।
द्वादश खल्वायतनानि । चक्षुरादीनि धर्मायतनान्तानि ।
अष्टादश धातवः । चक्षुर्धातू रूपधातुश्चक्षुर्विज्ञानधातुर्यावन्मनोधातुर्धर्मधातुर्मनोविज्ञानधातुरिति ।
तत्र तावत्
रूपस्कन्धो हि नेत्राद्या दशायतनधातवः ।
धर्मसंज्ञे त्रयस्कन्धाः साविज्ञप्तिर्ध्रुवत्रयाः
मनःसंज्ञकमन्यो ऽपि सप्तविज्ञानधातवः ।
इति ।
कः पुनरायतनधात्वर्थः ? तदुच्यते ।
आयद्वारं ह्यायतनं धातुर्गोत्रं निरुच्यते
तदुक्तं भवति- चित्तचैतसिकाख्यमायमेतानि तन्वन्तीत्यायतनानि । यस्मात्सप्त चित्तधातवश्चत्वारश्चारूपिणः स्कन्धा एभ्यश्चतुष्प्रत्ययात्मकेभ्यः प्रतायन्ते तदुत्पत्तिं वा प्रत्यायन्ते तस्मादायतनानि ।
धात्वर्थस्तु गोत्रार्थः । तदुक्तं भवति- एकस्मिंञ्च्छरीरपर्वते ऽष्टादश ( जैनि_6 ) धर्मगोत्राणि- इति । ध्रुवद्वयस्याप्यत्र प्रतिनिधिस्थानीयाः प्राप्तयो गोत्रभूता विद्यन्ते । आकाशं च सर्वभूतभौमिकरूपाधारमिति तदप्यत्रास्तीति । स्वलक्षणधारणाद्वा तद्धातुत्वम् ।
अथ कस्माद्द्वादशायतनान्यष्टादश च धातवः पृथङ्निरुच्यन्ते ? नन्वन्यतरनिर्देशाद्गतार्थमेतदिति । अत्रोच्यते ।
योगरूप्यानुकूल्यादेर्द्वादशायतनीं मुनिः ।
बुद्ध्याद्येकत्वधीहान्यै धातूंश्चाष्टादशोक्तवान्
स्कन्धेषु हि दृश्यमानेषु योगिनोरसर्वज्ञेयप्रतिबिम्बकान्युपतिष्ठन्ति । धातुष्वपि सप्तचित्तधातुप्रतिबिम्बकानि सादृश्याद् दुरवधाराणि भवन्ति । धातुस्कन्धव्यवस्था चायतनेषूक्तेष्वभिहितकारणा भवन्ति सुलक्षा चेति धातुदेशना । तदूर्ध्वं स्कन्धप्रज्ञप्तिः । यथोक्तम्- "चक्षुः प्रतीत्य रूपं चोत्पद्यते चक्षुर्विज्ञानम् । त्रयाणां सन्निपातात् स्पर्शः । सहजा वेदना चेतना" इति । तस्मादायतनानि धातूनां योनिः, धातवः स्कन्धानामिति ।
ऽबुद्ध्याद्येकत्वधीहान्यै धातूंश्चाष्टादशोक्तवान् ।ऽ; सप्त विज्ञानधातवो हि देश्यमाना बुद्ध्यैकत्वग्राहं निवर्तयन्ति । पिण्डैकात्मग्राहं च निवर्तयन्ति ।
वैभाषाः पुनराहुः- "रूपसंमूढानामायतनदेशना । चित्तचैत्तसंमूढानां स्कन्धदेशना । रूपचित्तसंमूढानां धातुदेशना । तीक्ष्णेन्द्रियाणां वा स्कन्धदेशना । मध्येन्द्रियाणामायतनदेशना । मृद्विन्द्रियाणां धातुदेशना । एवं संक्षिंप्तमप्यविस्तररुचीनाम् ।"
अथवा ऽबुद्ध्यैकत्वादिधीहान्यै धातूंश्चाष्टादशोक्तवान् ।ऽ; ये खलु बुद्ध्यैकत्वमध्यवसिता ( जैनि_7 ) मनसश्चेतनायां वा रूपचित्तैकत्वं वा तेषां ममत्व बुद्धिनिरासार्थमष्टादशधातूनुक्तवानिति ।
कः पुनरयं षड्भ्यो विज्ञानकायेभ्यो ऽन्यो मनोधातुः ? न खलु कश्चिदन्यः । किं तर्हि ?
षण्णामन्यो न्यतन्त्रत्वात्कारणं यद्धि तन्मनः ।
स्वविषयालम्बनक्रियापेक्षया विज्ञानान्तरोत्पादनादिशक्त्यपेक्षया चैकस्य विज्ञानस्य त्रिधा निर्देशः क्रियते- ऽमनश्चित्तं विज्ञानं चऽ; इत्यनागतस्यातीतस्यापि भूतभाविन्या संज्ञया व्यपदेशः । एवं सति "अष्टादशधातवस्त्रैयध्विकाः" इत्यभिधर्मग्रन्थो ऽप्यनुलोमितो भवति । सूत्रे ऽपि चोक्तम्- "यत्पुनस्तद्भवति चित्तमिति वा मन इति वा" इति विस्तरः । तदेवं व्याचक्षाणेन भवता नित्यं करणं मनो ऽनित्यश्चात्मा कर्ताऽ; इति प्रतिषिद्धं भवति ।
अथ कस्मात्तदेव चक्षुर्विज्ञानादीनां पञ्चानामप्याश्रयत्वेन नोक्तमिति ?
अत्र ब्रूमः-
रूप्यरूपाश्रयास्तित्वात्पञ्चानां रूप्युदाहृतः
चक्षुरादीनामसाधारणत्वादिति ।
अथ यदुक्तम्- ऽससंप्रयोगा सहसंग्रहेण इति । कौ पुनरिमौ संग्रहसंप्रयोगावित्येतदपदिश्यते ।
स्कन्धायतनधातूनां स्वात्मना संग्रहः स्मृतः ।
क्षणपरमाणुजातिसंख्यानां प्रत्येकं यथायोगं संग्रहो वेदितव्यः । कस्मात् ?
स्वात्मना नित्यमवियोगात्
तस्माद् द्रव्यात्मसंग्रहः । सच्छब्दनिमित्तं हि सतो भावः सत्ता द्रव्यं प्रकृत्यर्थः । द्रव्यात्मसंग्रहः प्रत्ययार्थः, सत्क्रिया वोपचारसत्तारूपा । वैशेषिकसत्ता तु नोभयमर्थान्तरत्वात् । न ह्यर्थान्तरं स्वात्मोपपद्यते । किञ्च, स्वातन्त्र्यात् । निरुक्त्यपभ्रंशाच्च । नहि घटेन सत्तोत्पाद्यते । आवरणाभावात्तन्नित्यत्वाभ्यु पगमाच्च । निरुक्त्यपि भ्रश्यते- सत्तायोगात्सन्ती ति । स्यान्माल्यादिवत्सत्तावान्वा क्रियावदिति । यस्त्वयं संग्रवस्त्वादिषु संग्रहः प्रोक्तः स कादाचित्कत्वाद् गौणो मन्तव्यो न मुख्यः ।
संप्रयोगस्तु
समत्वं चित्तचैतसाम्
पञ्चभिः समालम्बने प्रयुज्यन्त इति । सम्प्रयुक्ताश्चित्तचैतसा एव धर्मा नान्य इति ॥
अथ य एते सूत्रान्तरेषु स्कन्धायतनधातुसंशब्दिता धर्माः श्रूयन्ते ते किमेष्वेव संग्रहं गच्छन्ति, आहोस्विन्नेति ? अत्रोच्यते ।
तदाख्या ये ऽन्यसूत्रोक्तास्तेषामेष्वेव संग्रहम् ।
ब्रूयाच्छास्त्रनयाभिज्ञो बुद्ध्यापेक्ष्य स्वलक्षणम्
तत्र तावच्छीलस्कन्धादीनां पञ्चानां स्कन्धानां शीलस्कन्धो रूपस्कन्धेन संगृहीतः । शेषाः संस्कारस्कन्धेन । दश कृत्स्नायतनान्यप्यलोभस्वाभाव्यादष्टानां धर्मायतनेन । सपरिवाणाणि तु मनोधर्मायतनाभ्यां पञ्चस्कन्धस्वभावत्वात् । ( जैनि_10 ) अन्त्ये द्वे कृत्स्नायतने चतुःस्कन्धस्वभावत्वात्, मनोधर्मायतनाभ्याम् ।
धातूनामपि षड् धातवः । तेभ्यश्चत्वारः स्प्रष्टव्यधातूनाम्, पञ्चमो रूपधातूनां, षष्ठः सप्तभिश्चित्तधातुभिः ॥
अन्योन्यसंग्रहो ज्ञेयः स्कन्धादीनां यथायथम् ।
रूपस्कन्धस्य दशस्वायतनधातुषु रूपिषु संग्रहो वेदितव्यः । धर्मायतनधातुप्रदेशेन त्रयाणामपि स्कन्धानां यथायोगधर्मायतनधातुभ्याम् । अन्त्यस्य तु मनआयतनस्य सप्तभिश्चित्तधातुभिरिति ॥
अथ कस्मादसंस्कृतं स्कन्धैरसंगृहीतम् ? ब्रूमः ।
नाध्वस्वपतनादिभ्यो नित्यानां स्कन्धसंग्रहः
आदिशब्दान्निष्क्रियत्वस्कन्धलक्षणवियुक्तत्वाच्चेति ॥
धर्मस्कन्धसहस्त्राणामशीतेरपि संग्रहः ।
ज्ञेयो ऽवतरणेष्वेव तैः सन्मार्गावतारणात्
अशीतिः खल्ववतरणसहस्राणि यैर्विनेयाः सन्मार्गमवतार्यन्ते ॥
किं पुनस्तेषामेकैकस्य प्रमाणम् ? ब्रूमः । अत्राचार्याणां भेदंगता बुद्धयः । केचिदाहुः
धर्मस्कन्धप्रमाणं तु सत्यादेरेकशः कथा ।
सत्यध्यानसमाधिसमापत्तिविमोक्षप्रतीत्यसमुत्पादस्कन्धादीनामेकशः कथा धर्मस्कन्धः । रागादिचरितप्रतिपक्षो धर्मस्कन्ध इत्याचार्यकम् ।
तत्सतत्त्वं तु केषाञ्चिद्वाङ्नामापीष्यते परैः
येषां तावद्वाक्स्वभावं बुद्धवचनं तेषामशीतिधर्मस्कन्धसहस्त्राणि रूपस्कन्धैकदेशेन संगृहीतानि । येषां पुनर्नामस्वभावं तेषां संस्कारस्कन्धसंगृहीतानि । अयं त्वागमः- "जीवतो भगवतो वाङ्नाम स्वभावं बुद्धवचनं गौणमुख्यन्यायेन । परिनिर्वृतस्य तु नामस्वभावमेव, न वाक्स्वभावम्, ब्रह्मस्वरत्वान्मुनीन्द्रस्य, लोकवाचां तत्सादृश्यानुपपत्तेः ॥"
कस्मात्पुनरेते षड् धातवः पृथगुच्यन्ते ? यस्मादेते
सत्त्वप्रज्ञप्त्युपादानं मौलं षड्धातवो मताः ।
प्रोक्तास्तद्भेदतो यस्मादस्मिमानो निवर्तते
एते हि षड्धातवो गर्भावक्रान्तिकाले मौलं सत्त्वद्रव्यप्रज्ञप्त्युपादानम् । कथम् ? यस्मादयं कायाख्यः समुच्छ्रायः पृथिवीधातुना खक्खटलक्षणेन सन्धारितो भूतान्तरवृत्त्युद्रेको ऽस्थिस्नायुनखदन्तरोमादिसंचयः । अब्धातुना द्रवस्नेहलक्षणेन श्लेष्मरुधिरादिमयेनाभिष्यन्दितसंश्लेषितभूतान्तरः । तेजोधातुनोष्णस्वभावेन परिपाचितक्लेददौर्गन्धः । वायुना च प्रेरणात्मकेन संचारितभोजनरसधातुविण्मूत्रश्लेष्मपित्तसंचयः । नभोधातुना च मुखनासिकाकर्णादिच्छिद्रजनितभोजनपानादिप्रवेशनिष्क्रमणक्रियः । विज्ञानधातुना वस्तूपलब्धिलक्षणेन वायुधातुक्रियाध्यासिनोत्पादितसंजनिताङ्गप्रत्यङ्गचेष्टो मौलं सत्त्वद्रव्यमित्युपचर्यते । इन्द्रियाणि चक्षुरादीनि खल्वत्र भूतग्रहणेन गृह्यन्ते, चैतसिका विज्ञानग्रहणेनेति प्राधान्याद् भूतचित्तग्रहणम् ।
किमर्थं पुनरेत एव धातुषट्कमुपदिष्टम् ? यस्मादस्य भेदात् ऽअस्मिमानो निवर्ततेऽ; । कथम् ? षड्धातुप्रभेदादात्मदृष्टिनिरासः । तन्निरासादस्मिमानसमुद्धातः ॥
ऽसत्कायदृष्टिपुष्टत्वात्ऽ
इत्यत्र पुनः
क्लिष्टमेव हि विज्ञानं
विज्ञानधातुरभिप्रेतम् । कस्मात् ?
द्रष्टव्यं जन्मनि श्रयात् ।
यस्मादेते षड्धातवो जन्मनो निश्रयभूतास्तस्मात् । ऽक्लिष्टमेव विज्ञानंऽ; अत्र द्रष्टव्यम् ।
कः पुनरयमाकाशधातुरन्यः पुनः पृथगाकाशात् ? तदुच्यते ।
खधातुः पृथगाकाशाद्रूपायतनसंग्रहात्
आकाशं हि धर्मायतनसंगृहीतं नित्यं च । आकाशधातुस्तु चाक्षुषो रूपायतनसंगृहीतः, आलोकतमःस्वभावो वर्णविशेषो वातायनच्छिद्राद्यभिव्यक्तरूपः । तत्पुनः
नभः खलु नभो धातोरासन्नो हेतुरेष तु ।
भूतानां तानि तज्जस्य रूपस्यैतत्तु चेतसः
उक्तं हि भगवता- "पृथिव्यप्सु निश्रिता । आपो वायौ । वायुराकाशे । आकाशं तु नित्यत्वात्स्वप्रतिष्ठितम्" इति ।
यदि खलु स्वप्रतिष्ठमाकाशं कस्मात्तर्ह्युंक्तम्- आकाशमालोके सति प्रज्ञायते ।" ब्रूमः । नैष दोषः । आधेयेनाधारप्रज्ञापनात् । सर्वस्य खलु संस्कृतस्य मूर्तिक्रियाप्रतिलम्भे गगनमाधारः । अथवाकाशधातुरत्राकाशशब्देनोक्तः । स हि ब्राह्मणः प्रष्टा तस्मिन्नाकाशधातावाकाशसंज्ञीत्यत एवोक्तमालोके सति प्रज्ञायते । न चाकाशमालोके सति प्रज्ञायते, ( जैनि_14 ) अनिदर्शनत्वात् । एष अकाशधातुर्भूतानामासन्नो निश्रयः । तानि तु तज्जस्योपादायरूपस्य । तदपि विज्ञानस्य । विज्ञानमधिचैतसिकानां विप्रयुक्तानां च धर्माणाम् । अत आकाशं त्रैलोक्यप्रतिष्ठा । तदभावे त्रैलोक्यमप्रतिष्ठितमनाधारं, न प्रज्ञायेत । तस्मादाकाशं जगदुत्पत्तिप्रलयनिमित्तं न नारायण इति सिद्धम् । गतमेतत् ॥
इदानीं वक्तव्यम् । षण्णामध्यात्मिकानां धातूनां को ऽनुक्रमः ? ब्रूमः ।
प्रत्यक्षवृत्तिर्यत्तत्प्रागप्राप्तग्राह्यतो ऽपि यत् ।
ततो ऽपि यद्दवीयो ऽर्थं पटिष्ठमितरादपि
प्रत्यक्षवृत्तीनि खलु चक्षुरादीनि पञ्च प्रागुक्तानि । तेभ्यो ऽप्यप्राप्तग्राहिणी द्वे प्रागुक्ते । तयोरपि यद्य(द्द)वीयो ऽर्थं तत्प्रागुक्तम् । प्राप्तग्राहिणां तु ऽपटिष्ठमितरादपिऽ; यत्पटुतरं तत्प्रागुक्तमिति ॥
अभिधर्मदीपे विमाषाप्रभायां वृत्तौ प्रथमाध्यास्य द्वितीयः पादः ॥
प्रथमाध्याये
तृतीयपादः ।
इदमिदानीं वक्तव्यम् । य एते ऽष्टादशधातवः, एषां कति सनिदर्शनाः कत्यनिदर्शनाः ? कति सप्रतिघाः कत्य प्रतिधाः ? कति व्याकृताः कत्यव्याकृता इति ? अत इदं प्रतायते ॥
सनिदर्शन आद्यार्थः
आद्यस्य चक्षुर्धातोर्योर्थो रूपधात्वाख्यः स सनिदर्शनः । सह निदर्शनेन निर्दिष्ट इति कृत्वा । निदर्शनं वास्य संबन्धि विद्यत इति सनिदर्शनः ॥
मूर्ताः सप्रतिघा दश ।
सप्तचित्तधातून्धर्मधातुं च हित्वा दशान्ये मूर्ता धातवः ऽसप्रतिघा दशऽ; ।
प्रतिघो नाम प्रतिघातः । स च त्रिविधः । आवरणविषयालम्बनप्रतिघातः । तत्रावरणप्रतिघातः स्वेदेशे परस्योत्पत्तिप्रतिबन्धः । स तु मूर्तानामेव संस्थानवतां परमाणूनां दिग्देशनिर्देश्यानां धर्माणाम् । यथा हस्तोहस्तेन प्रतिहन्यते उपलो वोपलेन । विषयप्रतिघातश्चक्षुरादीनां विषयिणां रूपादिषु स्वेषु विषयेषु प्रतिघातः । यस्य यस्मिन् वृत्तिः सन्निपातलक्षणा कारित्राख्या च स तस्मिन् प्रतिहन्यते ततो ऽन्यत्रावृत्तेः । आलम्बनप्रतिघातश्चित्तचैत्तानां स्वेष्वालम्बनेषु प्रतिघातः ॥
कः पुनर्विषयालम्बनयोर्विशेषः ? यस्मिन्यस्य कारित्रं स तस्य विषयः । यच्चित्तचैत्तैर्गृह्यते तदालम्बनम् । तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वमन्योन्यावरणात् ।
ऽये धर्मा विषयप्रतिघातेन सप्रतिघा आवरणप्रतिघातेनापि तेऽ; इति ? चतुष्कोटिकः । प्रथमा कोटिः- सप्तचित्तधातवोधर्मधातुप्रदेशश्च यः संप्रयुक्तः । द्वितीया- पञ्च विषयाः । तृतीया- पञ्चेन्द्रियाणि । चतुर्थी- धर्मधातुप्रदेशः संप्रयुक्तकवर्जः ।
ऽये विषयप्रतिघातेन सप्रतिघा आलम्बनप्रतिघातेनापि तेऽ; इति पश्चात्पादकः- ये तावदालम्बनप्रतिघातेन विषयप्रतिघातेनापि ते स्युः । विषयप्रतिघातेन, नालम्बनप्रतिघातेन पञ्चेन्द्रियाणि ।
"यत्रोत्पित्सोर्मनसः प्रतिघातः शक्यते परैः कर्तुम् ।
तत्सप्रतिघं ज्ञेयं विपर्ययादप्रतिघमिष्टम् ॥"
इति भदन्तकुमारलातः ।
उक्ताः सप्रतिघाः ॥
कुशलादयो ऽभिधीयन्ते ।
अन्यत्र रूपशब्दाभ्यां त एवाव्याकृता मताः
त एव दशाव्याकृता रूपशब्दधातुवर्जाः । तौ हि त्रिप्रकारौ कुशलाकुशलाव्याकृतौ ॥
शेषास्त्रिधा
सप्तचित्तधातवो हि त्रिप्रकाराः । धर्मधातुश्च । संप्रयुक्तस्त्रिप्रकारः, विप्रयुक्तो ऽसंस्कृतश्च । यथाशास्त्रं कश्चित् त्रिप्रकारः कश्चिदेकप्रकारः संभवतो द्रष्टव्यः ।
कः पुनः कुशलार्थः ? शिक्षितार्थः कुशलार्थः प्रवीणवत् । विपाकहेतावौपमिको द्रष्टव्यः । एवमकुशलो ऽपि अव्याकृतस्तूभयपक्षाव्याकरणादव्याकृत इत्यभिप्रायः ॥
कति कामधातुप्रतिसंयुक्ताः कति यावदप्रतिसंयुक्ता इति । तदिदमारभ्यते ।
इह सर्वे ऽपि
कामधातौ सर्वे ऽप्यष्टादश विद्यन्ते ।
रूपधातौ चतुर्दश ।
रसगन्धौ सविज्ञानौ धातू हित्वा
गन्धरसधातू तद्विज्ञानधातू च हित्वा । आरूप्ये
त्रयोन्तिमाः
अग्रपश्चान्तिमः स्मृतः । अन्ताश्चेत्युपसंख्यानम् । पश्चिमा मनोधातुमनोविज्ञानधातुधर्मधातव एवमारूप्यधातौ सन्ति ॥
कति सास्रवाः कत्यनास्रवाः
सास्रवानास्त्रवा अन्त्यास्त्रयः
अनन्तरोक्तास्तत्र सास्रवाः दुःखसमुदयसत्यसंगृहीताः । अनास्रवास्तु मार्गसत्यासंस्कृतसंगृहीताः ॥
शेषास्तु सास्रवाः ।
पञ्चदशधातवः सास्रवाः, आस्रवसंयोगित्वव्यवकीर्णत्वाङ्गभावेभ्यः ।
कोशकारस्त्वाह- "अनुशयानुशयनात्सास्रवाः ।" तदेतदब्रह्म । न । निरुक्तानुशयार्थापरिज्ञानात् । निरुक्तापरिज्ञानं तावत् । अनुशयानुशयनात् सानुशयाः ।
न सास्रवा न यावदोघाः । आस्रवा हि आभवाग्राद्यावदवीचिमुपादाय चित्तसन्ततिं स्त्रावयन्ति स्वयं च स्रवन्तीत्यास्रवाः । अनुशयास्त्वनुशेरते । क्लेशाः क्लिश्नन्ति । ग्रन्था ग्रथ्नन्ति । संयोजनानि संयोजयन्ति । ओघाः अपहरन्ति । इति स्वक्रियाद्वारेणैतेषु वर्गेष्वेता नैरुक्त्यसंज्ञा निविशन्त इत्येषा व्याख्यानीतिर्ज्यायसी ।
अनुशयार्थो ऽपि यदि पुष्ट्यर्थस्तेन मार्गनिर्वाणालम्बनेषु मिथ्यादृष्ट्यादिषु पोषोत्कर्षदर्शनात्, निर्वाणमार्गयोरपि रूपादिवत् सास्रवत्वप्रसङ्ग इति । गतमेतत् ॥
कति सवितर्काः कति सविचारा इति विस्तरः ।
सालम्बप्रथमाः पञ्च सोपचारास्त्रयस्त्रिधा
सालम्बनानां धातूनां ये प्रथमाः पञ्च ते सवितर्काः सविचाराः । ऽत्रयस्त्रिधाऽ; । ये त्वन्त्यास्त्रयस्ते त्रेधा । सवितर्काः सविचाराः । विचारमात्राश्चावितर्काः । अविचाराश्च । कामधातौ प्रथमे च ध्याने वितर्को नैषु त्रिषु प्रकारेषु प्रविशति । स खल्ववितर्को विचारमात्रश्च ॥
अत्राह- यदि पञ्चविज्ञानकायाः सवितर्काः सविचाराः कथं तर्हि अविकल्पा इत्युच्यन्ते ? ब्रूमः
निर्विकल्पगुणस्वार्थाः
गुणः स्वार्थो येषां ते भवन्ति ऽगुणस्वार्थाःऽ; । एते हि
अस्मारादनिरूपणात् ।
अविकल्पा इत्युच्यन्ते । एतौ हि प्रधानौ विकल्पौ त्रैयध्विकधर्मविषयौ । ( जैनि_20 ) योगिनां कृताकृतकर्मान्तप्रत्यवेक्षणा चित्तरक्षणे स्मृतिः प्रधानी भवति । धर्मस्वसामान्यलक्षणहेतुफलसंबन्धादिषु प्रविचयाख्यः प्रज्ञास्वभावः प्राधान्यमनुभवति । अत्र तु
मनोभौमी स्मृतिः पूर्वो द्वितीयो धीर्निरूपिका
मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0