भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 181-200

181

यतः खलु भूमेर्विरक्तः पृथग्जनः स च स्थिरो भवत्यपरिहाणधर्मा स तत्रोपपद्यवेद्यं कर्म नाक्षिपति । त्रिविधमन्यत्करोति । आर्यपुद्गलस्तु वीतरागो न च परिहाणधर्मा तत्रोपपद्यवेद्यमपरपर्यायवेदनीयं च कर्म न करोति । न ह्यसौ भव्यः पुनरधरिमं भूमिमायातुम् । अनियतं तु कुर्याद् दृष्टधर्मवेदनीयं यत्रोपपन्नः कामधातौ भवाग्रे च । परिहाणधर्मापि त्वार्यः कामधातौ वीतरागः, भवाग्राद्वा, तयोरुपपद्यापरपर्यायवेदनीयं कर्माभव्यः कर्तुम् । किं कारणम् ? फलाद्ध्यसौ परिहीणो भवति । न चास्ति फलपरिहीणस्य कालक्रियेति ।
अथ किमन्तराभविकः कर्माक्षिपति नाक्षिपति ? आक्षिपतीत्याह । ( जैनि_143 ) तत्र कामावचरो ऽन्तराभवः द्वाविंशतिविधं कर्माक्षिपति । पञ्च गर्भावस्थाः कललार्बुदघनपेशीप्रशाखावस्थाः । पञ्च जातावस्थाः । बाल्यकौमारयुवमध्यमस्थविरावस्थाः । ता एता नियतानियतभेदेन विंशतिराक्षिप्यन्ते, एकनिकायत्वात् । अत एवान्तराभववेदनीयं कर्म नोक्तम् । उपपद्यवेदनीयेनैव तस्याक्षेपात् ॥
कीदृशं पुनः कर्म नियतं भवत्यनियतं वा ?
यदार्त्ररौद्रचित्तेन कर्माभीक्ष्णं निषेव्यते ।
सत्क्षेत्रे क्रियते यच्च फलं तस्य नियम्यते

182

यदि कर्म रौद्रेण तीव्रक्लेशानुगतेन चित्तेन कृतं भवति, यच्च घनश्रद्धासलिलाभ्युक्षितेन क्रियते, यच्च मृद्वप्यभीक्ष्णं निषेव्यते, यच्च किञ्चिद्गुणवति क्षेत्रे क्रियते शुभमशुभं वा फलं तस्य कर्मणो नियम्यते ॥
अथ दृष्टधर्मवेदनीयं कर्म कीदृशमित्युच्यते-
क्षेत्राशयविशेषाच्च फलं सद्यो विपच्यते ।
निरोधव्युत्थितादौ च सद्यः कालफलक्रिया

183

तत्र क्षेत्रविशेषाद्यथा द(?) क्षजातकादिषु । आशयविशेषाद्यथा बकलात(?) स्योक्षनिर्मोचनादिषु ।
कीदृशे पुनस्तत् क्षेत्रे विशिष्टं भवति यत्र दृष्टे धर्मे विपाको विपच्यते ? बुद्धप्रमुखस्तावद्भिक्षुसंघो । ऽनिरोधव्युत्थितादौ च सद्यः कालफलक्रिया ।ऽ; पञ्चसु च पुद्गलेषु कृतं निरोधसमापत्त्य रणामैत्रीदर्शनमार्गादर्हत्फलाद्व्युत्थितेषु कारापकारा दृष्टधर्मवेदनीयफला भवन्ति । निरोधसमापत्तेः खलु व्युत्थितः परां शान्तिं लभते । निर्वाणसदृशधर्मानुभवनात् । अरणाव्युत्थितस्याप्यप्रमाणसत्त्वहिताध्याशयप्रवृत्ता सन्ततिर्वर्तते । एवं मैत्रीव्युत्थितस्य । स्त्रौतआपन्नस्यापि निर्मलज्ञानलाभात् । अर्हतो ऽपि सर्वक्लेशप्रहाणान्निर्मला वर्तन्ते ॥
नियतविपाकस्य च कर्मणः शुभाशुभस्य या भूमिस्तदत्यन्तवैराग्यात्तत्कर्म दृष्टे धर्मे विपच्यत इत्यतः
तद्भूम्यपुनरुत्पत्तेः
दृष्टधर्मवेदनीयं संगृहीतं भवति । कीदृशं पुनरेतत्कर्म ?
विपाकनियतं च यत् ।
तच्चैतत्कर्म विपाकनियतं द्रष्टव्यम् ।
तच्च दृष्टफलं विद्यात्
दृष्टे धर्मे खलु तस्य विपाको विपच्यते । कतरत्पुनरेतत् ?
कर्मादः परिपूरकम्

184

नाक्षेपकमिति ॥
विपाकः खलु वेदनाप्रधान इत्यत इदं विचार्यते । स्यात्कर्मणश्चैतसिक्येव वेदना विपाको न कायिकी ? स्यात्कायिक्येव न चैतसिकी स्यादित्याह-
कुशलस्याविचारस्य चैतसिक्येव वेदना ।
विपाकः कायिकी त्विष्टा दुःखवेद्यस्य कर्मणः

185

कुशलं खल्वविचारं कर्म ध्यानान्तरात्प्रभृति यावद्भवाग्रम् । तस्याविचारस्य कुशलस्य कर्मणश्चैतसिक्येव वेदना विपाकः । कस्मान्न कायिकी ? तस्याः अवश्यं सवितर्कविचारत्वात् । कायिक्येव त्वशुभस्य दुःखवेदनायस्य कायिक्येव वेदना विपाकः । कस्मान्न चैतसिकी ? चैतसिकं हि दौर्मनस्यं न विपाकः ।
यत्तर्हि कर्मवशात्सत्त्वानां चित्तक्षेपः तत्संप्रयुक्ता वेदना कथं न विपाकः ? न हि तत्र चित्तं कर्मणो विपाकः । किं तर्हि ? यो महाभूतातां प्रकोपः स विपाकः । ततस्तज्जातं चित्तं विपाकशब्देनोपचर्यते ॥
पुनश्चतुर्विधं कर्मोक्तम्- "अस्ति कर्म कृष्णं कृष्णविपाकम् । अस्ति शुक्लं शुक्लविपाकम् । अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम् । अस्त्यकृष्णमशुक्लमविपाकं कर्म कर्मक्षयाय संवर्ततेऽ; इति । तत्र
सपाकमशुभं कृष्णं सपाकं रूपजं सितम् ।
शुभाशुभं द्विधा कामे निर्मलं तत्प्रहाणकृत्

186

अशुभं खलु कर्म एकान्तेन कृष्णं क्लिष्टत्वात् । कृष्णविपाकं चामनोज्ञविपाकत्वात् । रूपाप्तन्तु शुभमेकान्तेन शुक्लम्, अकुशलेनाव्यवकीर्णत्वात् । शुक्लविपाकं च मनोज्ञविपाकत्वात् ।
आरूप्याप्तं कस्मान्नोच्यते ? यत्र हि द्विविधो ऽस्ति विपाकः- अन्तराभविकश्चोपपत्तिभविकश्च; त्रिविधस्य च कायवाङ्मनस्कर्मणस्तत्रैवोक्तमिति ।
"कामाप्तं शुक्लं कुष्णशुक्लमकुशलव्यवकीर्णत्वात्, कृष्णशुक्लविपाकं व्यवकीर्णविपाकत्वात् ।" सन्तानत एतद्व्यवस्थापितं न स्वभावतो न ह्येवंजातीयकमेवं कर्मास्ति विपाको वा यत्कृष्णं च स्याच्छुक्लं च, अन्योन्यविरोधात् । ननु चैवमकुशलस्यापि कर्मणः कुशलव्यवकीर्णत्वात्कृष्णशुक्लत्वं प्राप्नोति ? नावश्यमकुशलं कुशलेन व्यवकीर्यते । कामधातौ त्वस्य बलवत्वात्कुशलन्तु व्यवकीर्यते दुर्बलत्वादिति ।
अनास्रवं कर्मैषां त्रयाणां कर्मणां क्षयाय प्रहाणाय संवर्तते । तद्ध्यकृष्णमक्लिष्टत्वादशुक्लं विपाकशुक्लताभावात् । आभिप्रायिको ऽप्येष शुक्लशब्दः । उक्तं तु भगवता महत्यां शून्यतायामशैक्षधर्मानारभ्य- ( जैनि_147 ) "इमे ते आनन्द, धर्मा एकान्तशुक्ला एकान्तानवद्याः" इति । शास्त्रे च- "शुक्लधर्माः कतमे ? कुशला धर्मा अनिवृताव्याकृताश्च ।" इति । अविपाकं धात्वपतितत्वात् प्रवृत्तिविरोधाच्च ।
किं पुनः सर्वमनास्रवं कर्म सर्वस्यास्य त्रिविधस्य कर्मणः क्षयाय संवर्तते ? नेत्युच्यते । किं तर्हि ?
चसस्रो दृक्पथा दृष्टौ चेतनाभावनापथात् ।
आनन्तर्यपथाः कामे कर्मैतत्कृष्णनाशकृत्

187

नवमे चेतना या तु सा कृष्णाकृष्णयाघातिनी ।
अन्तानन्तर्यमार्गस्था ध्याने ध्याने सितस्य तु

188

तत्र दर्शनमार्गे तावच्चतसृषु धर्मज्ञानक्षान्तिषु कामवैराग्ये चाष्टास्वानन्तर्यमार्गेषु या चेतना द्वादशप्रकारा सा कृष्णस्य कर्मणः प्रहाणकारी । कामवैराग्यानन्तर्यमार्गेणावसेया चेतना सा कृष्णशुक्लकर्मक्षयकारी । ध्याने ध्याने त्वानन्तर्यमार्गे पश्चिमे या चेतना चतुर्विधा सा शुक्लकर्मापहन्त्री ।
किं पुनः कारणमन्त्येनैवानन्तर्यमार्गेण कुशलस्य कर्मणः प्रहाणं नान्येन ? न हि तस्य स्वभावप्रहाणं प्रहीणस्यापि संमुखीभावात् । किं तर्हि ? तदालम्बनक्लेशप्रहाणात् । अतो यावदेको ऽपि तदालम्बनः क्लेशप्रकारो ( जैनि_148 ) ऽस्ति तावदस्य प्रहाणं नोपलभ्यते । तच्चैतदसत् । प्रहीणं हि तत्, न तु विहीनम् । अतः समुदाचरतीति । गतमेतत् ॥
सूत्र उक्तम्- "त्रीणि दुश्चरितानि । कायदुश्चरितं वाङ्मनोदुश्चरितम् । एवं सुचरितानि" इति । तेषां कः स्वभावः ? तत्र तावत्-
कायाद्यकुशलं कर्म सर्वं दुश्चरितं मतम् ।
सर्वमिति ससामन्तकमौलपृष्ठमित्यर्थः ।
अभिध्यादीन्यपि त्रीणि मनोदुश्चरितत्रयम्

189

सर्वमेवाकुशलं कायकर्म कायदुश्चरितम् । एवं वाङ्मनोदुश्चरितम् । अकर्मस्वभावान्यपि त्वभिध्यादीनि मनोदुश्चरितस्वभावानि ।
"अभिध्यादय एव कर्मस्वभावानि" इति स्थितिभागीयाः । तच्च न, कर्मक्लेशैकत्वदोषात् । स्थितिभागीया नाम शाक्याः स्व(श्व?) लांगूलिकद्वितीयनामानः । ते खल्वभिध्यादीनि मनस्कर्मस्वभावानीच्छन्ति । तेषां ( जैनि_149 ) कर्मक्लेशैकत्वसङ्करः प्राप्नोति । कोशकारः- "को ऽत्र दोषः" ? यदि कश्चित्क्लेशः कर्मापि स्याद्वायसः सारसः स्यात् । कर्मक्लेशानां चात्यन्तस्वभावप्रभावक्रियाफलभेदभिन्नानामेकत्वपरिकल्पैः सांख्यीयादिदर्शनमभ्युपगतं स्यात् ।
ऽअपिऽ; शब्दात्पुनरत्र सूत्रोक्तास्त्रयो वङ्कास्त्रयो दोषास्त्रयः कषाया आकृष्यन्ते । तेषां पुनरिदं लक्षणं यथाक्रमेण । शाठ्यजं कायकर्म कायवङ्क ( जैनि_150 ) इत्युच्यते । कुटिलान्वयत्वात् । एवं शाठ्यजं वाङ्मनस्कर्म वाङ्मनोवङ्क इत्युच्यते । द्वेषजाः पुनस्त एव त्रयो दोषा इत्याख्यायन्ते, चित्तप्रदोषान्वयत्वात् । रागजं पुनः कायकर्म कायकषाय इत्युक्तं रञ्जनात्मकत्वात् । एवं वाङ्मनःकषायौ द्रष्टव्यौ । तानि पुनः कुशलानि कायवाङ्मनस्कर्माणि त्रीणि सुचरितानि बोद्धव्यानि । एतान्येव त्रीणि शौचेयान्युक्तानि ।
अशैक्षसन्ताने त्रीणि मौनेयान्युच्यन्ते । तत्र कायसुचरितं कायमौनेयं वाक्सुचरितं वाङ्मौनेयं मन एव तु मिथ्यासंकल्पोपरमान्मुनिरित्याख्यायते । तदुपरमाद्धि कायवाग्जल्पोपरमो भवति । मुनेरिदं मौनेयमिति निरुक्तिः । ( जैनि_151 )
कस्मात्पुनरर्हत एव मौनेयानि ? तस्य परमार्थमुनित्वात् । स खलु सर्वक्लेशजल्पोपरमान्मुनिरित्युच्यते ।
एषा पुनर्मौनेयशौचेयदेशना मिथ्यामौनशौचाभियुक्तानधिकृत्यदेशितेति तदेतत्सह मौनेयशौचेयर्निर्दिष्यते ॥
शुभं तत्सानभिध्यादि प्रोक्तं सुचरितत्रयम् ।
द्वयंमौलमदः कर्म मार्गा दश शुभाशुभाः

190

द्वयं पुनरेतत्सुचरितदुश्चरिताख्यं यन्मौलं ते दश शुभाश्चाशुभाश्च कर्मपथा भवन्ति प्रयोगपृष्ठवर्ज्याः ।
तत्र कायसुचरितस्य प्रदेशः पृयोगपृष्ठाख्यो मद्यादिविरतिदानेज्यादिकः । वाक्सुचरितस्य प्रियवचनादिकः । मनःसुचरितस्य शुभा चेतना ।
कायदुश्चरितस्यापि परेषां जीवितभोगदारापहारप्रयोगपृष्ठाख्यः । वाग्दुश्चरितस्याप्यप्रियवचनाद्याख्यः । मनोदुश्चरितस्याप्यकुशलं मनस्कर्मै..................स्तेषां नात्यौदारिकत्वात् ।
यस्तु प्राणातिपातादत्तादानकाममिथ्याचारविरत्याख्यो मौलः स कुशलः कर्मपथः, तस्यौदारिकत्वेन महानुशंसतमफलत्वात् । यस्तु परेषां जीवितभोगपरदारापहारकायपरिस्पन्दः स मौलः स चाकुशलः कर्मपथः । एवं यथासंभवमन्येषां द्रष्टव्यमिति ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायस्य द्वितीयः पादः ।
चतुर्थाध्याये
तृतीयपादः ।
इदमिदानीं वक्तव्यम् । ये एते दशकर्मपथा एषां कति विज्ञप्तिस्वभावाः कत्यविज्ञप्तिस्वभावाः कत्युभयस्वभावाः ?
तत्राकुशलानां तावत्-
कारिताः षडविज्ञप्तिर्द्व्यात्मैकस्ते ऽपि षट् कृताः ।
तत्र प्राणातिपातादत्तादानमृषावादपैशून्यपारुष्यसंभिन्नप्रलापाः । एते नावश्यं विज्ञप्तिस्वभावाः । परेण कारयतो मौलीविज्ञप्त्यभावात् । काममिथ्याचारस्तु नित्यं द्व्यात्मकः, तस्य परेणाशक्यत्वात् । ते ऽपि ऽषट् कृताःऽ; यदा स्वयमेव प्राणातिपातादीन् षट् कर्मपथान् करोति तदा द्व्यात्मानो भवन्ति । विज्ञप्त्यविज्ञप्तिस्वभावत्वात् ।
कुशलानां पुनः
शुभाः सप्त द्विधा ज्ञेया एकधैते समाहिताः

191

सप्त खलु रूपिणः कुशलाः कर्मपथाः द्विधा भवन्ति । विज्ञप्त्यधीनत्वात् समाहितशीलस्य । ध्यानानास्रवसंवरसंगृहीतास्त्वविज्ञप्तिस्वभावा एव । समाहितस्य विज्ञप्त्यभावात् ।
या सामन्तेष्वविज्ञप्तिः पृष्ठेषु तु विपर्ययः ।
सामन्तकः खलु यदा तीव्रेण पर्यवस्थानेन प्रयोगमारभते, प्रसादेन वा घनरसेन तदा द्विस्वभावा । यदा मृदुना तदा विज्ञप्तिरेव । विपर्ययेण तु पृष्ठेष्ववश्यमविज्ञप्तिः । यदि पुनः कर्मपथं कृत्वा पुनस्तत्रवानुचेष्टते स्याद्विज्ञप्तिरपीति । तीव्रेण तु प्रहारेण जीविताद्व्यपरोपयति । तत्र या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिः स मौलः कर्मपथः । द्वाभ्यां हि कारणाभ्यां प्राणातिपातावद्येन स्पृश्यते । प्रयोगतः फलपरिपूरितश्च । तत ऊर्ध्वमविज्ञप्तिक्षणाः पृष्ठीभवन्ति । यावद्धतं पशुं कृष्णाति शोधयति विक्रीणाति पचति खादति कीर्तयति । यदि तावदस्य विज्ञप्तिक्षणा अपि पृष्ठं भवन्ति । एवमन्येष्वपि यथासंभवं योज्यम् ।
अभिध्यादीनां नास्ति प्रयोगो न पृष्ठं संमुखीभावमात्रादेव कर्मपथाः ।
सूत्रे भगवतोक्तम्- "प्राणातिपातो भिक्षवस्त्रिविधः । लोभजो द्वेषज मोहजः, यावन्मिथ्यादृष्टिः" इति । तत्रैषां कर्मपथानां केषाञ्चिल्लोभेन निष्ठा, केषाञ्चिद् द्वेषेण, केषाञ्चिन्मोहेन । सर्वेषामपि
प्रयोगस्तु त्रिमूलोत्थः
प्रयोगस्तेषामकुशलमूलत्रयाज्जातः । तत्र लोभजः प्राणातिपातस्तच्छरीरावयवार्थं मृगलुब्धानामौरभ्रिकमात्सिकशाकुन्तकादीनां च । द्वेषजो यथा वैरनिर्यातनार्थम् । मोहजो याज्ञिकानां धर्मबुद्ध्या राज्ञां च धर्मपाठकप्रामाण्याद्धिंसताम् । पारसीकादीनां च धर्मबुद्ध्या मातरं पितरमभिघ्नताम् ।
लोभजमदत्तादानं यस्तेनार्थी तद्धरति । द्वेषजं वैरनिर्यातनार्थम् । मोहजं यथा राज्ञां धर्मपाठकप्रामाण्याद् दृष्टनिग्रहार्थम् । यथा च दुष्टब्राह्मणा आहुः- "सर्वमिदं प्रजापतिना ब्राह्मणेभ्यो दत्तं ब्राह्मणानां दौर्बल्याद्वृषलाः परिभुञ्जन्ते । तस्मादपहरन् ब्राह्मणः स्वमादत्ते स्वमेव तु कोष्ठं वस्ते स्वं ददाति" इति ।
लोभजः काममिथ्याचारः परदारादिषु तत्संरागादब्रह्मचर्यम् । द्वेषजो वैरनिर्यातनार्थम् । मोहजो यथा पारसीकानां मात्रादिगमनम् । गोसवे च यज्ञे "उपहा उअदकं चूषयति, तृणानि च्छिनत्ति, उपैति मातरमुपस्वसारमुपसगोत्रामिति ।"
मृषावादादयो लोभजा द्वेषजाश्च यथा पूर्वमुक्तम् । मोहजो मृषावादो यथाह-
"न नर्मयुक्तमनृतं हिनस्ति
न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्वधनापहारे
पञ्चानृतान्याहुरपातकानि ॥" इति ।
पैशून्यादयस्तु मिथ्यादृष्टिप्रवर्तिता मोहजा यश्च वेदाद्यसच्छास्त्रप्रलापः ।
अभिध्याद्यास्त्रिमूलजाः

192

अभिध्यादयस्तु लोभादनन्तरसंभूतत्वात् त्रिमूलजाः ।
उक्ताः अकुशलाः कर्मपथाः ।
कुशलाः प्रयोगपृष्ठाश्च कुशलत्रयमूलजाः ।
कुशलानां तु प्रयोगः पृष्ठं च त्रिमूलोत्थम् । तेषां कुशलचित्तसमुत्थितत्वात्, तत्र च तद्भावात् ।
केन पुनरेषां कर्मपथानां समाप्तिर्भवति ? तदिदमपदिश्यते-
द्वेषेण वधपारुष्यव्यापत्तीनां समापनम्

193

प्राणातिपातपारुष्यव्यापादानां खलु द्वेषेण निष्ठा भवति । परित्यागपरुषचित्तसंमुखीभावात् ॥
स्तेयस्यान्याङ्गनायातेरभिध्यायाश्च लोभतः ।
अदत्तादानपरस्त्रीगमनाभिध्यानां लोभेन निष्ठा ।
मिथ्यादृशस्तु मोहेन
मिथ्यादृष्टेः खलु मोहेन समाप्तिर्भवति । अधिमात्रमूढाभिहितां निष्ठापयति ।
तदन्येषां त्रिभिर्मतम्

194

के पुनरन्ये ? मृषावादपैशुन्यसंभिन्नप्रलापाः । तेषां त्रिभिरपि निष्ठा लोभेन द्वेषेण मोहेन वा ॥
अथैषां चतुर्णां काण्डानां किमधिष्ठानम् ? तदुच्यते-
चतुर्णामप्यधिष्ठानं ज्ञेयमेषां यथाक्रमम् ।
प्राणिनश्चाथ भोगाश्च नामरूपं च नाम च

195

तत्र सत्त्वाधिष्ठाना वधादयः । भोगाधिष्ठानाः परस्त्रीगमनादयः । नामरूपाधिष्ठाना मिथ्यादृष्टिः । नामकायाधिष्ठाना मृषावादादयः ॥
कथं पुनः प्राणातिपातं स्वयं कुर्वतः कर्मपथो भवति कथं यावन्मिथ्यादृष्टिरिति ? लक्षणं कर्मपथानां वक्तव्यम् । तदारभ्यते-
प्राणातिपातो धीपूर्वमभ्रान्त्या परमारणम् ।
यदि खलु हनिष्यामि हन्म्येनमिति संचिन्त्याभ्रान्तचित्तः परं जीविताद्व्यपरोपयति, ( जैनि_157 ) एवं प्राणातिपातो भवति । प्राणो वा वायुः कायचित्ताश्रितो वर्तते । तमतिपातयतीति प्राणातिपातः ।
न, अनुपपत्तेः । विनाशानुषक्ता खलु संस्काराः प्रतिक्षणविनश्वराश्चाभ्युपगम्यन्ते । तेषामित्थंभूतानां स्थितिशक्तिक्रियाभावे सत्यनागतानां च तुल्यातुल्यजातीयानां निरात्मकत्वाविशेषे केन हन्त्रा किमापद्यते ?
अत्र सौत्रान्तिकाः परिहारमाहुः- "न । प्रदीपनिर्वापनघण्टशब्दनिरोधवत्तत्सिद्धेः ।"
न, समानत्वात् । अयं त्वत्र परिहारः- हन्तुर्हेतुसामर्थ्योपघातकरणे सत्यनागतसंस्कारशक्तिक्रियाधानविधानविघ्नकरणात् प्राणातिपातोपपत्तिः । कस्य पुनस्तज्जीवितं यस्तेन वियोज्यते, ते वा प्राणा इति ? प्रसिद्धस्य ( जैनि_158 ) पुद्गलस्य यो ऽसावेवं नामैवं गोत्र इति विस्तरः ।
अबुद्धिपूर्वादपि प्राणिवधात्कर्तुरधर्मो भवति यथाग्निस्पर्शाद्दाह इति नग्नाटाः । तेषां परदारदर्शनस्पर्शने ऽप्येष प्रसंगः । तुष्टरुष्टनग्नाटवाह्लीकनिर्ग्रन्थशिरोलुञ्चने च ।
बुद्धिपूर्वात्प्राणिवधाद्धर्मो ऽपि भवतीति याज्ञिकाः । कथम् विषभक्षणवत् । तद्यथा किञ्चिद्विषभक्षणं मन्त्रपूर्वं हिताय भवति । किञ्चिदहिताय यदमन्त्रपूर्वं तद्वदिति । न । गलाम्रेडनशस्त्रनिपातमन्तरेण मन्त्रमात्रकेन पशुवधसामर्थ्यादर्शनात् । पिष्टमयच्छागा हुतिमात्रेण पशुवधादियज्ञधर्मोत्पत्त्यसामर्थ्याच्च । किञ्च, विषस्य मारणजीवितशक्तिद्वयसामर्थ्यदर्शनात् । तत्र मन्त्रपूर्वकं किञ्चिज्जीवयति किञ्चिद्दुर्गतारिष्टेषु न जीवयति । अमन्त्रपूर्वकमपि किञ्चीज्जीवयति किञ्चिन्न जीवयति । भुक्तविषस्यापेक्षिकत्वात् । किञ्च, शबरादिमन्त्राणां विषमारणाशक्त्युपघाते ऽपि पापप्रणाशनशक्त्यदर्शनात् । किञ्च, हिंसाहिंसयोर्धर्माधर्मस्वालक्षण्यापरित्यागभूतत्वात् । जुहोत्यादिक्रियाव्यङ्ग्यो ( जैनि_160 ) धर्मः इति चेत् । न । तद्रूपासिद्धत्वात्, अभिव्यक्त्यनुपपत्तेश्च । क्रियामात्रमपूर्वमिति चेत् । न । क्रियाया नित्यत्वानुपपत्तेर्निरुक्त्यनुपपत्तेश्च ॥
अत्यक्तान्यधनादानमदत्तादानमुच्यते

196

अभ्रान्त्येति वर्तते । यदि बलचौर्यबुद्ध्या परद्रव्यं स्वीकरोति ॥
परस्त्रीगमनं काममिथ्याचारो विकल्पवान् ।
अगम्यगमनं खल्वपि काममिथ्याचारः । स च बहुप्रकारविकल्पो भवति । अगम्यां गच्छति मातरं वा दुहितरं वा परपरिगृहीतां वा स्वामप्यनङ्गे गच्छत्यदेशे च । नियमस्थां वा । अभ्रान्त्येत्युक्तम् ।
अर्थज्ञायान्यथावादो द्रोहबुद्ध्या मृषावचः

197

वक्तृश्रोतृबुद्ध्यपेक्षया खलु मृषावादो भवति । यदि वक्तार्थानामभिज्ञो भवति स तं विगोप्य द्रोहबुद्ध्यान्यथा ब्रूते । श्रोता च तथैवावगच्छति । तदास्य मृषावादः कमपथो भवति ॥
ये खल्विमे माहकीमातृसूत्रा दिष्वष्टावनार्या व्यवहाराः प्रोक्ताः, अष्टौ चार्याः- "अदृष्टे दृष्टवादितानार्यो व्यवहारः । अश्रुते, अमते, अविज्ञाते, श्रुतमतविज्ञातवादितानार्यो व्यवहारः । दृष्टश्रुतमतविज्ञाते चादृष्टादिवादितानार्यो व्यवहारः । विपर्ययेण त्वष्टावेवार्या व्यवहाराः ।" तेषां पुनरिदं लक्षणं व्याख्यायते-
दृष्टया श्रुत्यादिभिश्चाक्षैर्मनसा यच्च गृह्यते ।
दृष्टं श्रुतं मतं ज्ञातमित्युक्तं तद्यथाक्रमम्

198

यत्खलु चक्षुषालोचितं चक्षुर्विज्ञानमनोविज्ञानाभ्यां चानुभूतं तद्दृष्टमित्युच्यते । यच्छ्रोत्रेण श्रोत्रमनोविज्ञानाभ्यां चानुभूतं तच्छ्रुतम् । यत् त्रिभिर्घ्राणजिह्वाकायैस्तद्विज्ञानमनोविज्ञानैश्चानुभूतं तन्मतमित्युच्यते । तेषां प्राप्यविषयग्राहित्वात्, कबडिंकाराहारविषयत्वाच्च । तत्रेष्टपर्यायवाची मतशब्दः । यत्पुनर्मनोविज्ञानेनानुभूतं तद्विज्ञातं तदध्यवसाये निश्चयपरिसमाप्तेः ।
गतमेतत् । प्रकृतमेवानुवर्तताम् ॥
यः कायेनान्यथात्वं प्रापयेत्, स्यान्मृषावादः ? स्यात् । तदपदिश्यते- स्यान्न कायेन पराक्रमेत प्राणातिपातावद्येन च स्पृश्येत । स्याद्वाचा पराक्रमेत स्यान्न वाचा पराक्रमेत मृषावादावद्येन च स्पृश्येत । स्यात्कायेन पराक्रमेत, स्यान्न कायेन वाचा पराक्रमेत, उभयावद्येन च स्पृश्येत । स्यादृषीणां मनःप्रदोषेण प्रोषधनिदर्शनं चात्र इति ।
कथं पुनर्विज्ञप्त्या विना तत्राविज्ञप्तिः कामावचरी कर्मपथो योक्ष्यते । सति हि चित्तपरिस्पन्दे महाभूततज्जकायपरिस्पन्दो ऽवश्यं भावीति कर्तव्यो ऽत्र यत्नः ।
उक्तो मृषावादः ॥
पैशुन्यं भेदकृद्वाक्यं
यत्खलु क्लिष्टचित्तस्य परभेदाय वचनमभ्रान्त्या तत्पैशुन्यमित्युच्यते ।
पारुष्यं तु यदप्रियम् ।
अभ्रान्त्या क्लिष्टचित्तस्य यद्वचनं तत्पारूष्यमिति ।
क्लिष्टं संभिन्नलापित्वमन्ये गीतकथादिवत्

199

क्लिष्टं खलु सर्वं वचनं संभिन्नप्रलापित्वम् । यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तभिधाने त्वतलौ । कश्चासौ गुणः ? संभिन्नप्रलाप एव । स यस्यास्ति स संभिन्नप्रलापी । तद्भावः संभिन्नप्रलापित्वम् ।
अन्ये पुनर्ब्रुवते । यदेतन्मृषावादादित्रिबिधं वचनं ततो यदन्यत्क्लिष्टं लपनगीतनाट्यतीर्थशास्त्रादि तत्सर्वं सभिन्नप्रलापः ॥
परस्वासत्स्पृहाभिध्या व्यापादः सत्त्वगोचरः ।
विद्वेषानानन्तदृष्टिस्तु मिथ्यादृष्टिरहेतुका

200

अभिध्या तावद् द्विषतः स्पृहा । अहो बत यत्परेषां तन्मम स्यादित्येषा विषयप्रार्थना विषमलोभाख्या अभिध्येत्युच्यते ।
व्यापादः खल्वपि सत्त्वपरित्यागबुध्या प्रतिघः ।
मिथ्यादृष्टिरपि हेतुं वा फलं वा क्रियां वा सद्वा वस्तु नाशयतः या दृष्टिर्मतिरित्येवमादि सा मिथ्यादृष्टिरित्युच्यते ।
तया पुनर्मिथ्यादृष्ट्या प्रकर्षप्राप्तया नवप्रकारया नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते । भावनाहेयक्लेशप्रहाणवत् ।
यत्तर्हि शास्त्र उक्तम्- "कतमान्यधिमात्राण्यकुशलमूलानि यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्ति ? कामवैराग्यं चानुप्राप्नुवन् यानि तत्प्रथमत उपलिखति ?" नैष दोषः । अकुशलमूलाध्याहृतत्वात् । मिथ्यादृष्टेस्तेष्वेव तत्कर्मोपचर्यते । तद्यथाग्निरेव ग्रामस्य दग्धा चौरास्तु तस्याध्याहारकास्तद्वदिति ।
कामावचराण्युपपत्तिलम्भिकान्येव च समुच्छिद्यन्ते, प्रायोगिकेभ्यः पूर्वं परिहीणत्वात् ।
एवं ह्यूक्तं भगवता- "समन्वागतो ऽयं पुरुषः कुशलैरपि धर्मैरकुशलैरपि धर्मैः" इति विस्तरः । तत्र समन्वागतो ऽयं पुद्गलः कुशलैरपि धर्मैरविशेषेण द्विविधैः- प्रायोगिकैरुपपत्तिलाभिकैश्च । ते ऽस्य पुद्गलस्य कुशला धर्मा अन्तर्धास्यन्ति, प्रायोगिकाः अनुपूर्वसमुच्छेदे, पूर्वं तद्विहानेः । अस्ति चास्य कुशलमूलमनुसहगतमनुपच्छिन्नमुपपत्तिलाभिकम् । तदप्यपरेण समयेन ( जैनि_167 ) सर्वेण सर्वं समुच्छेत्स्यते । यस्य समुच्छेदात्समुच्छिन्नकुशलमूल इति संख्यां गमिष्यतीति । अतः सर्वाकुशलमूलभूता मिथ्यादृष्टिरिति सौगताः ।
"सूक्ष्मं कुशलधर्मबीजं तस्मिन्नकुशले चेतस्यवस्थितं यतः पुनः प्रत्ययसामग्रीसन्निधाने सति कुशलं चित्तमुत्पद्यते" इति कोशकारः ।
युक्त्यागमविरोधात्तन्नेति दीपकारः ।
तत्र युक्तिविरोधस्तावद्विजातीयाद्धेतोर्विजातीय फलानुत्पत्तिदर्शनाद्यवबीजाच्छालिफलवद्योनिशो मनसिकारपरतः सद्घोषाभ्यां मिथ्यादृष्टिवच्च । ( जैनि_170 ) चक्षूरूपाभ्यां विज्ञानवदिति चेत् । न । सभागहेतौ सति चक्षूरूपयोर्निमित्तकारणमात्रत्वात्, दध्युत्पत्तावातञ्चनवत् । किञ्च, विरुद्धानामन्यतरोपपत्तेश्च । न हि विरुद्धानां सुखदुःखालोकतमःप्रभृतीनां चैकत्र संभवदवस्थानं दृष्टम् । नापि परस्परं बीजफलाभिसंबन्धः । किञ्च, चित्तबीजैकत्वाभ्युपगमाच्च । अकुशलमेव हि चित्तं भवतां बीजमिष्टम् । तस्य कुशले चित्तक्षणे विरुद्धक्रिये च चित्तान्तरे बीजलेशानुपपत्तिः । ( जैनि_171 ) उक्तोत्तरत्वाच्च । विस्तरेण ह्यत्रोत्तरमुक्तम् । तत्स्मर्यतामिति ।
आगमविरोधो ऽपि, "सर्वं सर्वेण च्छेत्स्य ते" इति ...........च्यमानं बीजमवस्थितं गंस्यते । इति ।
व्याख्याताः सलक्षणाः कर्मपथाः ॥
कः पुनः सलक्षणः कर्मपथार्थः ? कर्म च कर्मणश्च चेतनाख्यस्य पन्थान इति कर्मपथाः । तत्र सप्त कर्म च कर्मणश्च पन्था इति कर्मपथाः, त्रयस्त्वभिध्यादयः कर्मणः पन्थानो न कर्म । चेतना हि तत् संप्रयोगिणी भवति । ( जैनि_172 ) संप्रयुक्तातद्वशेनगच्छत्यभिसंस्करोतीत्यर्थः । सा तु कर्मैव न कर्मपथः । न ह्यसौ त्रयाणां वशेन वर्तते । इदमुच्यते-
चेतना न क्रियामार्गस्तैस्तु सत्ता प्रवर्तते ।
कतिभिः पुनः कर्मपथैः सार्धं चेतना युगपदुत्पन्ना वर्तते ? तदारभ्यते-
युगपद्यावदष्टाभिरशुभैश्चेतनैः सह

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc